By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मिथिलामहीप्रसूतो वै कालिदासो हि मैथिलः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > मिथिलामहीप्रसूतो वै कालिदासो हि मैथिलः
संस्कृतगतिविधयः

मिथिलामहीप्रसूतो वै कालिदासो हि मैथिलः

डॉ.अमनदीप शर्मा
Last updated: 2023/12/12 at 4:39 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE
मिथिलामहीप्रसूतो वै कालिदासो हि मैथिलः वार्ताहर: – जगदीश डाभी उच्चैठमहोत्सवः, मधुबनी, बिहारम् । राजकीय-उच्चैठकालिदासमहोत्सवः 2023 पर्यटनविभागबिहारसर्वकारस्य मधुबनीजिलाप्रशासनस्य च संयुक्ततत्त्वावधाने उच्चैठकालिदासमहोत्सवस्य 2023 इत्यस्य द्विदिवसीयायोजनं 8.12.2023 तः 9.12.2023 दिनाङ्कपर्यन्तं कालिदासविद्यापतिसाइन्समहाविद्यालयोच्चैठप्राङ्गणे निर्मितभव्यमण्डपे जातम्। तत्र महाकविकालिदासस्य मैथिलत्वविषयकः परिसंवादः सञ्जातः। कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्य माननीयकुलपतीनां प्रो.शशिनाथझावर्याणामाध्यक्ष्ये द्वितीयदिवसे आयोजितेऽस्मिन् कार्यक्रमे सर्वप्रथमं बेनीपट्ट्यनुमण्डलाधिकारिण्या श्रीमत्या मनीषामहोदयया मञ्चासीनानां विद्वज्जनानां पुष्पगुच्छेन एवमुष्णीशोत्तरीयस्मृतिचिह्नादिकेन सम्माननं विहितम्। तदनु मञ्चासीनैरतिथिभिः दीपप्रज्वालनेन कार्यक्रमस्यारम्भः सञ्जातः। आगतानामतिथिवर्याणां श्रेयापीयूषाभ्यां मधुरगायनद्वारा श्रीललितकुमारविरचितस्वागतगीतेन स्वागतमभवत्। स्वागतगीतश्रवणेन समागतानां सर्वेषामतिथिवर्याणां मनः प्रफुल्लितमभवत्। स्वोदबोधनक्रमेऽनुमण्डलाधिकारिण्या श्रीमत्या मनीषया कथितं यत् पदस्थापनानन्तरम् अस्माकं मिथिलासाहित्यसङ्गीतकलादीनां यः अनुभवः प्राप्तः स अतुलनीयो वर्तते। महाकविः कालिदासः न केवलं भारतवर्षेऽपितु सम्पूर्णविश्वे श्रेष्ठः कविः आमन्यते। अनेनायोजनेन कालिदासं प्रत्यधिकः स्नेहः समुत्पद्यते। अत्रत्याः मृदाजलभाषासंस्कृतयः विशिष्टाः वर्तन्ते। स्वकीयोद्बोधने यदा सा कालिदासपूजितोच्चैठभगवत्याः चरणौ प्राणमत् अथ च मैथिलीभाषायां समेषां स्वागतं कृतवती तदा सभोपस्थितसमस्तदर्शकजनैः कृतेन करतलध्वनिना सम्पूर्णमण्डपः गुञ्जायमानोऽभवत् । प्रथमसत्रे महाकवेः कालिदासस्य मैथिलत्वविषयिणी सङ्गोष्ठी कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्य कुलपतिचरस्यय डॉ.शशिनाथझामहापण्डितस्याध्यक्षतायां सुसम्पन्नाभवत्। अस्यां संगोष्ठ्यां विशिष्टवक्तृरूपेण समागतेन माननीयविधायकश्रीविनोदनारायणझामहोदयेन सङ्गोष्ठ्याः विषयप्रवेशः विहितः। तेनोच्चैठभगवत्याः कृपाप्रसादादेव महाकवेः विद्याप्राप्तेः चर्चापि कृता, यत्रोक्तं यत् महाकविः मूलतः मैथिलः एवासीत्। तेन महाकविकालिदासविषयकं विस्तृतशोधकरणार्थं कालिदासाकादम्याः स्थापनार्थमपि बलं प्रदत्तम् अथ चोक्तमेतावता जातेन शोधेनाथ च डॉ. रङ्गनाथदिवाकरलिखितेन “महाकविक-महाप्रयाण’’ इति ग्रन्थेनैतत् प्रमाणितं भवति यत् कालिदासस्य जन्मभूमिः मिथिला एव। विषयप्रवेशानन्तरं सी.एम.कॉलेज,दरभङ्गा इत्यस्य संस्कृतविभागाध्यक्षेण डॉ.सञ्जीतकुमारझामहोदयेन धाराप्रवाहरूपेण संस्कृतभाषया महाकवेः कालिदासस्य वैश्विकपरिचितिः इति विषयोपरि विस्तृतं व्याख्यानं प्रदत्तम्। केन प्रकारेण विलियमजोन्स,हरबर्ट-गेटेप्रभृतिपाश्चात्यविद्वांसोऽपि कालिदासस्य प्रशंसकाः आसन् इति विषये श्रुत्वा श्रोतारः चकिताः आनन्दिताः च सञ्जाताः। अनन्तरं डॉ.महेन्द्रनारायणराममहोदयेन कालिदासीयकाव्येषु लोकरीतेः वर्णनप्रमाणात् महाकविः मैथिलः इति स्थापितः। प्रतिष्ठितसाहित्यकारेण डॉ.तारानन्दवियोगीमहोदयेनोक्तं यत् यथा कालिदासविषयेऽन्यक्षेत्रीयाः जनाः कथयन्ति यत् कालिदासः तत्रत्यः इति एवमेव विद्यापतिविषयेऽपि बङ्गजनाः कथयन्ति स्म यत् ते बङ्गीयाः इति परन्त्वद्येदं स्थापितं जातं यत् विद्यापतिः मैथिलः एव, तथैव महाकविकालिदासस्य विषयेऽपि अस्माकं सुदृढं मतमस्ति यत् ते मैथिलाः एवासन्। अनन्तरं डॉ.रङ्गनाथदिवाकरमहोदयेन स्वकीयशोधपूर्णव्याख्यानेन डिम-डिमघोषो विहितः यत् भवतु नामोज्जयिनी कालिदासस्य कर्मभूमिः परन्तु जन्मभूमिस्तु मिथिलैव। तदनु जयप्रकाशविश्वविद्यालयस्य संस्कृतविभागाध्यक्षेणाचार्यवैद्यनाथमिश्रमहोदयेन कालिदासस्य मैथिलत्वविषयकं स्वकीयकाव्यपाठेन समेषामानन्दसन्दोहस्य संवर्धनं विहितम्। तदनु स्वकीयाध्यक्षीयोद्बोधने प्रो.शशिनाथझामहोदयेन महाकवेः कालिदासस्य मैथिलत्वप्रमाणनविषये सर(डॉ.)आदित्यनाथझामहोदयस्य पण्डितजयमन्तमिश्रमहोदयस्य पण्डितलक्ष्मणझामहोदयस्य डॉ.रङ्गनाथदिवाकरमहोदयस्य चावदानस्य चर्चापुरस्सरं स्वकीयोद्घोषः कृतः यत् कालिदासस्य न केवलमन्तः साक्ष्येणापितु आङ्ग्लसर्वकारेण द्विशताधिकवर्षपूर्वकृतसर्वेक्षणे कालिदासनाम्नावस्थितेन “कालिदासडीह’’ इति भूमिद्वारापि प्रमाणितः भवति यत् कालिदासः मैथिलः एव। अनन्तरं सञ्चालकेन दीपनारायणविद्यार्थीमहोदयद्वारा धन्यवादज्ञापनेन सङ्गोष्ठ्याः समापनं सञ्जातम्।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

TAGGED: कालिदास, कालिदास महोत्सव, कालिदास महोत्सव 2023, पर्यटन विभाग बिहार, मिथिला, मिथिला समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article सुक्खूमन्त्रिमण्डलविस्तार : राजेश धर्माणी यादविन्द्रगोमा च मन्त्रिणौ
Next Article अयोध्या भविष्यति जगद्विख्याता नगरी- उत्तरप्रदेशसर्वकारः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?