By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आचार्यः देवव्रतः अवदत्- प्राकृतिककृष्या रक्षिष्यते धरित्री-उर्वरता, स्वस्थाः स्थास्यन्ति आगामि-सन्ततयः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > आचार्यः देवव्रतः अवदत्- प्राकृतिककृष्या रक्षिष्यते धरित्री-उर्वरता, स्वस्थाः स्थास्यन्ति आगामि-सन्ततयः
प्रादेशिकवार्ताहिमाचलवार्ता

आचार्यः देवव्रतः अवदत्- प्राकृतिककृष्या रक्षिष्यते धरित्री-उर्वरता, स्वस्थाः स्थास्यन्ति आगामि-सन्ततयः

डॉ मनोज शैल
Last updated: 2026/11/29 at 9:43 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

आचार्यः देवव्रतः अवदत्- प्राकृतिककृष्या रक्षिष्यते धरित्री-उर्वरता, स्वस्थाः स्थास्यन्ति आगामि-सन्ततयः

​हिमसंस्कृतवार्ता:- शिमला।

​प्राकृतिककृषिः केवलं सस्योत्पादनस्य माध्यममेव नास्ति, अपितु धरित्र्याः उर्वरतायाः संरक्षणस्य, पर्यावरणरक्षणस्य आगामि-सन्ततिभ्यश्च स्वस्थजीवनदानस्य सङ्कल्पः वर्तते। रासायनिक- उर्वरकाणां कीटनाशकानां च उपरि निर्भरतां न्यूनां कृत्वा प्रकृतेः अनुरूपं कृषिपद्धतीनाम् अङ्गीकरणं समयस्य आवश्यकता अस्ति। एतां वार्तां गुजरातराज्यस्य राज्यपालः हिमाचलप्रदेशस्य च पूर्वराज्यपालः आचार्यः देवव्रतः रविवासरे शिमलायां प्राकृतिक-रसायनमुक्त-कृषेः उपरि आयोजिते राज्यस्तरीयसम्मेलने अवदत्।

​आचार्यः देवव्रतः प्राकृतिककृषेः प्रायः दशवर्षाणाम् अनुभवान् सहभाजन् कृषकेभ्यः स्थानीयसंसाधनैः कृषिसंसाधनानि सज्जीकरणस्य, मृत्तिकायाः स्वास्थ्यं परिष्कर्तुं, कृषेः व्ययं न्यूनं कर्तुं च उपायान् उक्तवान्। सः अवदत् यत् मृत्तिकायाः उर्वरतायाः सम्बन्धः केवलं वर्तमानसस्येन सह एव नास्ति, अपितु भावि-सन्ततीनां स्वास्थ्येन खाद्यसुरक्षया च सह अपि सम्बद्धः अस्ति।

​अस्माभिः आगामि-सन्ततिभ्यः केवलं भूमिः एव न, अपितु उर्वरा जीवनदायिनी च धरित्री समर्पयितुं सङ्कल्पः ग्रहीतव्यः। प्राकृतिककृषिं वर्धयितुं कृषकान् जागरूकान् कर्तुं सहैव प्रशिक्षणस्य व्यावहारिकज्ञानस्य च दानम् अपि आवश्यकम् अस्ति। ‘साई इटरनल फाउण्डेशन’ संस्थायाः संस्थापकसदस्यः अध्यक्षश्च राजकुमारवर्मा संस्थायाः सामाजिक- गतिविधीनां पर्यावरण- संरक्षणस्य, ग्रामीणविकासस्य, शिक्षायाः स्वास्थ्यस्य च क्षेत्रे क्रियमाणानां कार्याणां सूचनां दत्तवान्। सः अवदत् यत् संस्था भविष्ये व्यसनमुक्ति-अभियानं (नशामुक्ति) व्यापकस्तरे सञ्चालयितुं सहैव प्राकृतिककृषिं प्रोत्साहयितुं संस्थागतकेन्द्ररूपेण कार्यं करिष्यति। सम्मेलने प्राकृतिककृषेः क्षेत्रे उत्कृष्टं कार्यं कुर्वन्तः कृषकाः सम्मानिताः कृताः। एतस्मिन् अन्तराले रक्तदानशिविरमपि आयोजितम्। अन्ते संस्थायाः निदेशकः इसरो-संस्थायाः पूर्ववैज्ञानिकश्च डॉ. आर.के. सूदः सर्वेषाम् अतिथीनां प्रतिभागिनां च आभारं प्रकटितवान्।

​कृषिः, पर्यावरणं मानवस्वास्थ्यं च परस्परं सम्बद्धानि- विवेकठाकुर:

​हिमाचलप्रदेश-उच्चन्यायालयस्य न्यायाधीशः विवेकसिंहठाकुरः अवदत् यत् कृषिः, पर्यावरणं, मानवस्वास्थ्यं प्रकृतेः संरक्षणं च परस्परं गहनतया सम्बद्धानि सन्ति। अतः प्राकृतिकसंसाधनानां संरक्षणं प्रकृतेः अनुरूपं कृषिपद्धतीनाम् अङ्गीकरणं च आवश्यकम् अस्ति।

​प्राकृतिककृष्या सुदृढा भविष्यति ग्रामीणा अर्थव्यवस्था

​ग्रामीणविकास-पञ्चायतीराजमन्त्री अनिरुद्धसिंहः प्रदेशसर्वकारस्य पक्षतः प्राकृतिककृषिं प्रोत्साहयितुं सञ्चाल्यमानानां योजनानां सूचनां दत्तवान्। सः अवदत् यत् प्राकृतिककृषिः कृषकाणाम् आर्थिकस्थितिं सुदृढां कर्तुं, ग्रामीण- अर्थव्यवस्थायै गतिं दातुं पर्यावरणसंरक्षणे च महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति।

You Might Also Like

चतुर्णां वर्षाणाम् अनन्तरं सराजक्षेत्रं प्राप्नोति मुख्यमन्त्री सुक्खू, जयराम ठाकुरेण स्मारिताः पुरातन-प्रतिज्ञाः

अधुना ‘पासपोर्ट-सेवा-केन्द्रस्य’ सदृशाः भविष्यन्ति पञ्जीयनकार्यालयाः, एतेषु चतुर्षु मण्डलेषु उद्घाटयिष्यन्ते आधुनिक-सेवाकेन्द्राणि

सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य विषमसत्र-परीक्षाः (सेमेस्टर्) १५ दिसम्बर्-दिनाङ्कात्, द्वयोः पालीयोः भविष्यति आयोजनम्

षड्दशकानाम् अनन्तरं महान् विजयः, हाटीसमुदायस्य अनुसूचितजनजाति-स्तरः (ST) पुनर्स्थापितः, उच्चन्यायालयेन निरस्ताः सर्वाः याचिकाः

नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया

TAGGED: \हिमाचल के आज के समाचार, cmo himachal Pradesh. HP News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, Himsanskritvarta, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य विषमसत्र-परीक्षाः (सेमेस्टर्) १५ दिसम्बर्-दिनाङ्कात्, द्वयोः पालीयोः भविष्यति आयोजनम्
Next Article अधुना ‘पासपोर्ट-सेवा-केन्द्रस्य’ सदृशाः भविष्यन्ति पञ्जीयनकार्यालयाः, एतेषु चतुर्षु मण्डलेषु उद्घाटयिष्यन्ते आधुनिक-सेवाकेन्द्राणि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?