By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रया भाजपा-दलस्य शक्तिप्रदर्शनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रया भाजपा-दलस्य शक्तिप्रदर्शनम्
हिमाचलवार्ता

मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रया भाजपा-दलस्य शक्तिप्रदर्शनम्

डॉ.अमनदीप शर्मा
Last updated: 2026/11/04 at 9:32 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रया भाजपा-दलस्य शक्तिप्रदर्शनम्

हिमसंस्कृतवार्ता — मण्डी।
भाजपा-दलेन बुधवासरे मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रायाः माध्यमेन स्वकीयशक्तेः प्रदर्शनं विहितम्। पड्डल-क्रीडाङ्गणात् प्रारब्धायाम् अस्यां पदयात्रायां भाजपा-दलस्य ज्येष्ठाः नेतारः, विधायकाः, विपुलायां संख्यायां कार्यकर्तारश्च सहभागिनः अभवन्। सर्वे नेतारः कार्यकर्तारश्च पादचारेण सञ्चरन्तः नगरस्य विविधमार्गेभ्यः गत्वा सेरी-मञ्चं प्राप्नुवन्। दीर्घकालानन्तरं मण्ड्यां भाजपा-दलस्य एतावती विशाला जनसभा दृष्टा। पदयात्रायाः अन्तराले कार्यकर्तृभिः दलस्य समर्थनार्थं जयघोषाः कृताः, यदा तु सेरी-मञ्चे प्रधानमन्त्रिणः नरेन्द्रमोदिनः समर्थनार्थं प्रतिध्वनद्भिः उद्घोषैः कार्यक्रमे नूतनः उत्साहः सञ्चारितः।
पदयात्रायां प्रतिपक्षनेता पूर्वमुख्यमन्त्री च जयरामठाकुरः, पूर्वमन्त्री सुरेशभारद्वाजः, यात्रायाः संयोजकः सुन्दरनगरस्य विधायकः राकेशजम्वालः, विधायकः इन्द्रसिंहगान्धी, द्रङ्ग-क्षेत्रस्य विधायकः पूर्णचन्दठाकुरः, करसोगस्य विधायकः दीपराजः, विधायकः प्रकाशराणा, भाजपा-मण्डलाध्यक्षः निहालचन्दः, पूर्वमन्त्री गोविन्दठाकुरश्च सहिताः दलस्य अनेके ज्येष्ठाः नेतारः उपस्थिताः आसन्।

*सदर-विधायकस्य संसत्सदस्यायाश्च अनुपस्थितिः चर्चायाः विषयः अभवत्*

अस्मिन् राजनैतिक-आयोजने मण्डी-सदर-क्षेत्रस्य विधायकस्य अनिलशर्मणः मण्डी-संसदीयक्षेत्रस्य संसत्सदस्यायाः (सांसद) कङ्गना-रणौत-महोदयायाश्च अनुपस्थितिः चर्चायाः विषयः अभवत्। ज्ञायते यत् सदर-विधायकः अनिलशर्मा विधानसभा-समित्याः अध्यक्षत्वेन केरल-राज्यस्य प्रवासे वर्तते। यद्यपि तस्य स्थाने तस्य सुपुत्रः आश्रयशर्मा किञ्चित् कालं यावत् पदयात्रायां सम्मिलितः अभवत्। आश्रयशर्मा सेरी-मञ्चेऽपि किञ्चित् कालं यावत् उपविष्टवान्, किन्तु कार्यक्रमस्य मध्ये एव ततः प्रस्थितवान्।

*जयरामठाकुरेण काङ्ग्रेस-दलम् अभिलक्ष्य प्रहारः कृतः*

सेरी-मञ्चे आयोजितायां सभायां प्रतिपक्षनेत्रा कार्यक्रमस्य मुख्यातिथिना जयरामठाकुरेण सहैव भाजपा-दलस्य अन्यैः ज्येष्ठनेतृभिः काङ्ग्रेस-सर्वकारम् अभिलक्ष्य तीक्ष्णाः आघाताः विहिताः। वक्तृभिः प्रदेशस्य काङ्ग्रेस-सर्वकारस्य कार्यप्रणाल्याम् उपरि प्रश्नाः उत्थापिताः। अस्मिन् अन्तराले राहुल-गान्धी काङ्ग्रेस-दलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखडगे च अपि भाजपा-नेत्तॄणां लक्ष्यान्तर्गतौ आस्ताम्। भाजपा-नेतारः अवदन् यत् लोकतन्त्रस्य हत्या तु काङ्ग्रेस-दलेन एव कृता आसीत्, अद्यापि च काङ्ग्रेस-दलं देशे अराजकतां प्रसारयितुम् इच्छति।

You Might Also Like

चुराह-क्षेत्रस्य त्रयः सर्वकारीय-विद्यालयाः सीबीएसई-मण्डलेन सम्बद्धाः भविष्यन्ति, महिलाः लप्स्यन्ते १५००-१५०० रूप्यकाणि

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

सेवाभारती-बिलासपुर-पक्षतः AIIMS-बिलासपुर-चिकित्सालयाय पञ्च चक्रासनयन्त्राणि (व्हीलचेयर) समर्पितानि

द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article चुराह-क्षेत्रस्य त्रयः सर्वकारीय-विद्यालयाः सीबीएसई-मण्डलेन सम्बद्धाः भविष्यन्ति, महिलाः लप्स्यन्ते १५००-१५०० रूप्यकाणि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?