By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: 52th AIOC – अस्माकं महतः पूर्वजान्, देवी-देवताः, अवतारीसत्ताः च प्रत्यारोप्य कलङ्कयितुं प्रचलति षड्यन्त्रम् – स्वामी रामदेवः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > 52th AIOC – अस्माकं महतः पूर्वजान्, देवी-देवताः, अवतारीसत्ताः च प्रत्यारोप्य कलङ्कयितुं प्रचलति षड्यन्त्रम् – स्वामी रामदेवः
संस्कृतगतिविधयःराष्ट्रीयवार्ताः

52th AIOC – अस्माकं महतः पूर्वजान्, देवी-देवताः, अवतारीसत्ताः च प्रत्यारोप्य कलङ्कयितुं प्रचलति षड्यन्त्रम् – स्वामी रामदेवः

डॉ मनोज शैल
Last updated: 2026/10/29 at 10:11 AM
डॉ मनोज शैल
Share
11 Min Read
SHARE

52th AIOC – अस्माकं महतः पूर्वजान्, देवी-देवताः, अवतारीसत्ताः च प्रत्यारोप्य कलङ्कयितुं प्रचलति षड्यन्त्रम् – स्वामी रामदेवः

 

> त्रिदिवसीयस्य अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य (AIOC) भव्यः शुभारम्भः भविष्यति २९ दिनाङ्कात्

> सनातनविरोधिनां शत्रुशक्तीनां षड्यन्त्राणि विफलीकरणीयानि, हिन्दूधर्मग्रन्थेषु प्रक्षेपस्य करिष्यामः अनावरणम्

> द्विपञ्चाशत्तमे प्राच्यविद्यासम्मेलने सम्मिलिताः भविष्यन्ति शीर्षाः धर्मगुरवः, सनातनशास्त्र-शुद्धीकरण-अभियानस्य भविष्यति शुभारम्भः

 

हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, हरिद्वारम्।

पतञ्जलिविश्वविद्यालये आगामिनि २९ तः ३१ अक्टोबर् २०२६ यावत् आयोज्यमानस्य ५२-तमस्य अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य सन्दर्भे पूज्य-स्वामि-रामदेव-महाराजस्य तथा च श्रद्धेयस्य आचार्य-बालकृष्ण-महाराजस्य सान्निध्ये दिव्य-योग-मन्दिरे, कृपालु-बाग-आश्रमे (कनखले) एका वार्ताहरगोष्ठी आयोजिता।

 

षड्यन्त्रस्य अन्तर्गततया सनातनधर्मं समग्रविश्वे कलङ्कयितुं कुत्सितः प्रयासः

 

वार्ताहरगोष्ठ्यां पूज्य-स्वामि-महाराजः अवदत् यत् सनातनधर्मस्य विरुद्धं राष्ट्रिय-अन्ताराष्ट्रियस्तरे गभीरं षड्यन्त्रं क्रियते। मर्यादापुरुषोत्तमं भगवन्तं श्रीरामं मातरं सीतां च मद्यपानकर्तारौ मांसाहारिणौ च उक्त्वा, आदियोगिनं महायोगिनं भगवान् शङ्करं मादकद्रव्यसेविनं (नशेड़ी, गजेड़ी) गाञ्जक-धूम्रपायिनं च प्रतिपाद्य, योगेश्वरं भगवन्तं श्रीकृष्णं रासलीलानां नाम्नि विलासिताकारिणं कथित्वा, भगवन्तं ब्रह्माणं स्वकन्यायाम् एव दुराचारकारिणं विज्ञाप्य, देवी-देवताश्च दुराचारिणः बलात्कारिणः च इति उक्त्वा सनातनं कलङ्कयितुं प्रयासः विधीयते। गतेषु १००० वर्षेषु मुग़लैः आङ्ग्लैश्च सनातनस्य अपयशसे सनातनधर्मस्य एव केषुचित् शास्त्रेषु जानन्तः एव मिश्रणं (प्रक्षेपः) कृतम्। एतेषाम् एव प्रक्षिप्तशास्त्राणाम् आश्रयं गृहीत्वा मनुस्मृतिसहितेषु पृथक्-पृथक्-स्मृतिग्रन्थेषु, ब्राह्मणग्रन्थेषु, आरण्यकग्रन्थेषु, मूलतः अष्टादशसु पुराणेषु च सनातनधर्मोपरि आरोपाणां स्थापपनाय प्रक्षेपाः कृताः। एतावन्तः घृणास्पदाः आरोपाः आरोपिताः येन सनातनधर्मं प्रति अस्माकम् आगामि-सन्ततीनां मनसि घृणा द्वेषश्च उत्पद्येत।

 

सनातनधर्मे सर्वाः जातयः समानाः, सर्वाः महान्त्यः, मत-पन्थ-जाति-सम्प्रदाय-लिङ्गभेदानां नास्ति स्थानम्

 

स्वामी जी मनुस्मृतेः उल्लेखं कुर्वन् प्रावोचत् यत् यत्र नार्यः पूज्यन्ते, रमन्ते तत्र देवताः। यः शूद्रकोटेः, अधमकोटेः, सामान्यकोटेः वा उच्यते, सोऽपि मनुष्यः यदि उत्तमं कार्यं करोति तर्हि ब्राह्मणः भवति। यश्च कश्चन ब्राह्मणकुले समुत्पद्य अपि अधमं कर्म आचरति, सः शूद्रवत् भवति। सनातनधर्मे वर्णव्यवस्था जन्माधारिता नास्ति, अपि तु कर्माधारिता वर्तते।

सनातनधर्मे कस्या अपि जातेः अपमानं नास्ति। सर्वाः जातयः समानाः, सर्वाः जातयः श्रेष्ठाः सन्ति। सनातनधर्मे न तु शूद्रस्य अवमानना अस्ति, न च स्त्रीणाम्; अपि तु स्त्रीभिः शूद्रैश्च सहिताः सर्वे मानवाः, जड-चेतनं जीव-जगच्च ईश्वरस्य एव साक्षात् विग्रहवान् स्वरूपः मन्यते। सनातनधर्मः स्त्रीणां शूद्राणां च अपमानकर्ता अस्ति इति उक्त्वा वैदेशिकैः षड्यन्त्रपूर्वकम् अस्मासु परस्परं भेदबुद्धिः उत्पादिता। ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-आदिवासि-वनवासिनः भारतवासिनः परस्परं युद्धापिताः। यदि सनातनस्य भाषायां कथ्यते तर्हि ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः सर्वे स्व-स्व-वर्णाश्रमधर्मस्य पालनं कुर्युः। अद्यतनया नूतनया राजनैतिकभाषया सवर्ण-अस्पृश्य-अग्रगण्य-पश्चाद्वर्ति-ओबीसी-इत्यादीनां नामभिः न जाने कीदृशाः नूतनाः भेदप्राचीराः समुत्थापिताः।

 

वयं सर्वे एकस्य कुलस्य, ब्रह्मकुलस्य सन्ततयः; यत्र भेदः, स वेदः नैव

 

पूज्य-स्वामी जी अवदत् यत् सनातनधर्मानुसारम् अस्माकं सर्वेषाम् एकमेव कुलम् अस्ति—ब्रह्मकुलम्। पृथक्-पृथक्-कालखण्डेषु पृथक्-पृथक्-उपजीविकानाम् आधारेण तेषां गुण-कर्म-स्वभावानुरूपं विविधानि नामानि दत्तानि। अद्यत्वेऽपि प्रथमश्रेणि-अधिकारी (Class-One), द्वितीयश्रेणि-अधिकारी (Class-Two), चतुर्थश्रेणि-कर्मचारी इति नाम्ना इयं व्यवस्था प्रचलति। ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-शब्दाः जातिसूचकाः न सन्ति, अपि तु कर्माधारिता वर्णव्यवस्था वर्तते। यः अज्ञानं नाशयति स ब्राह्मणः, यः अन्यायम् उन्मूलयति स क्षत्रियः, यः अभावं दूरीकरोति स वैश्यः, यश्च अशुचितां दूरीकृत्य समाजे पवित्रतां संस्थापयति स शूद्रः अस्ति। प्राचीनकाले जातेः कोऽपि तात्पर्यार्थः नासीत्। अस्माभिः एव जातीनां नाम्नि भेदाः कृताः; भेदः भेदभावश्च वेदस्य सनातनधर्मस्य च विरुद्धौ स्तः। यत्र यत्र भेदः, स वेदः नैव। यजुर्वेदे तु प्रतिपादितं यत् ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणां कोऽपि भेदः नास्ति। कैश्चित् सनातनविरोधिभिः भेदस्य नाम्नि जनाः परस्परं योद्धुं सम्मुखीकृताः, मिथः घृणा द्वेषश्च उत्पादिता। भेदनाम्नि परस्परं विग्रहं कृत्वा वैदेशिकैः शत-ट्रिलियन्-डॉलर् (100 Trillion Dollar) परिमितात् अधिकस्य धनस्य लुण्ठनं भारतात् कृतम्। केवलं दशभिः वैदेशिकैः कुटुम्बैः स्वातन्त्र्यात् पूर्वं २००-२५० वर्षेषु १०० ट्रिलियन्-डॉलर्-परिमितं धनं लुण्ठितम्। वैदेशिकानां लुण्ठनेन, आभ्यन्तरिक-कलहेन, षड्यन्त्रकारिशक्तीनां मिथ्याप्रचारेण च अयं देशः संक्षोभितः जातः।

 

शास्त्रेषु प्रक्षेपेण सनातन-हिन्दूधर्मं समग्रविश्वे कलङ्कयितुं षड्यन्त्रम्

 

पूज्य-स्वामि-महाराजः अवदत् यत् सनातनधर्मस्य शास्त्रेषु यत् अपमिश्रणं (प्रक्षेपः) सञ्जातम्, अस्योपरि योजनाबद्धरूपेण एकां समितिं सङ्घट्य एतेषां शुद्धीकरणकार्यं विधास्यते। संस्कृते यत्किमपि लिखितं तत्सर्वम् अस्माकं सनातनशास्त्रं न भवति। अस्य देशस्य दुर्भाग्यम् आसीत् यत् संस्कृते यत्किमपि लिखितं तत् शास्त्रम् इति अमन्यत। सनातनधर्मस्य सिद्धान्ताः सार्वभौमिकाः, वैज्ञानिकाः, सर्वहितकारिणः, कालजयिनः, कस्यापि प्रकारकस्य भेदभावात् शून्याश्च सन्ति। सनातनधर्मे वयम् इमां समग्रां पृथिवीं मातृरूपेण अमन्याम, ‘वसुधैव कुटुम्बकम्’ इत्युद्घोषितवन्तः। शास्त्रेषु ईदृशाः प्रसङ्गाः प्रक्षिप्ताः, वाल्मीकिरामायणेऽपि तादृशाः श्लोकाः संकलिताः यैः भगवान् रामः माता सीता च मांसभक्षकौ मद्यपायिनौ च प्रतिपादितौ, श्रीरामः शूद्राणां नारीणां चावमानकः कथितः। अस्मिन् देशे एतत् महत् धार्मिकं, आध्यात्मिकं, सांस्कृतिकं च पापम् अभवत्, राजनैतिकजनैश्च तस्मै पापाय संरक्षणं प्रदत्तम्। यथा देशस्य संविधानं देशस्य लोकतन्त्रं च सर्वेभ्यः समानरूपेण न्यायस्य वार्तां करोति, सत्यस्य वार्तां करोति, तथैव अस्माकं वेदविधानेऽपि समानता, सत्यं, न्यायश्च परमधर्मः इति घोषितम्।

 

धर्मविहीनान् विधाय ईसाई-मुसलमान-करणस्य प्रचलति षड्यन्त्रम्

 

सनातनधर्मं कलङ्कयित्वा, जनान् धर्मविहीनान् कृत्वा ईसाई-मुसलमान-करणस्य षड्यन्त्रं प्रचलति। सनातनविरोधिनः वदन्ति यत् सनातनधर्मस्तु दोषयुक्तः, तत्र पक्षपातः भेदभावश्च अस्ति, तस्मिन् अवैज्ञानिकाः अव्यवहारिकाश्च विषयाः उक्ताः। दुर्भाग्यवशात् देशे प्रायः ३० तः ४० कोटिमिताः अस्माकम् एव ऋषीणां सन्ततयः वंशधराश्च वा तु मुसलमानाः, ईसायिनः, निरीश्वराः (नास्तिकाः) वा कृत्वा स्वसनातनधर्मात् विमुखाः कृताः। प्रायः ५०% ऋषि-ऋषिकाणां सन्ततयः स्वधर्मात्, स्वपूर्वजेभ्यः, स्वमूल-डीएनए (DNA)-तः पृथक्कृताः। अस्माकम् आदर्शानां विषये उक्तं यत् ते दुराचारिणः, व्यभिचारिणः, मांसाहारिणश्च आसन्। एकतः ईदृशं दुराख्यानं (Narrative) प्रचार्यते यत् रामः, कृष्णः, शिवः, ब्रह्मा, विष्णुः, महेशः अथवा देवी-देवताः कदापि न जाताः; अपरतः तेषूपरि मिथ्यारोपाः आरोप्यन्ते; तृतीयतः सनातनधर्मिणः विभक्तुं प्रयासाः विधीयन्ते। भेदप्राचीरान् उत्थाप्य परस्परं भेदः, लुण्ठनं, मिथ्या, कपटं च विस्तार्य देशम् इमं विनाशयितुं समग्रं षड्यन्त्रं प्रचलति, यतो हि भारतस्य भारतीयतायाश्च उदीयमानस्य वर्चस्वस्य दर्शनेन भारतविरोधि-शक्तयः आतङ्किताः सन्ति। ताः मन्यन्ते यत् येन वेगेन भारतम् उत्तिष्ठति, यदि तथैव उत्तिष्ठेत् तर्हि इदं भारतं सामाजिक-आर्थिक-राजनैतिक-वैश्विकदृष्ट्या एतावत् सशक्तं भविष्यति यत् विश्वस्य नेतृत्वं कर्तुं समर्थं स्यात्। षड्यन्त्रपूर्वकं भारतं दमयितुं चेष्टते। गौरवस्य विषयोऽयं यत् जन्मना प्रायः १५० कोटिमिताः (डीएनए-दृष्ट्या कुलवंशदृष्ट्या वा १५० कोटयः) तथा च अखण्डभारतेन सह २०० कोटिमिताः सनातनधर्मिणः अद्यापि समग्रविश्वे विद्यन्ते।

यदि अखण्डभारतस्य चर्चा क्रियेत तर्हि आर्यदेशाः—ईरान, अफगानिस्तान, इण्डोनेशिया, मलेशिया, कम्बोडिया, अर्धं चीन, अक्साई-चीनात् आरभ्य तिब्बत-पर्यन्तम्—ये जन्मना सनातनधर्मस्य सार्वभौमिक-वैज्ञानिकसिद्धान्तेषु विश्वसन्ति, अद्य विश्वस्य सर्वे स्वास्थ्यजिज्ञासवः (Health Seekers), आध्यात्मिकजिज्ञासवः (Spiritual Seekers), दार्शनिकदृष्ट्या सैद्धान्तिकदृष्ट्या च अस्मिन् सनातनधर्मे निष्ठावन्तः सन्तः वदन्ति यत् अस्माभिः सनातनधर्मस्य सिद्धान्ताः अङ्गीकरणीयाः। सनातनधर्मस्य दार्शनिकसिद्धान्तेषु, विचारेषु, सनातनजीवनपद्धतौ, योगे, आयुर्वेदे च निष्ठां धारयतां जनानां यदि गणना क्रियेत, तर्हि विश्वस्य अर्धजनसंख्या सनातनधर्मस्य सार्वभौमिक-वैज्ञानिक-शाश्वत-सिद्धान्तेषु निष्ठां रक्षति, सनातनजीवनपद्धतौ विश्वसिति च। षड्यन्त्रकारिणः कियन्ति अपि कुचक्राणि रचयेयुः, अधुना सः समयः समागतः यदा समग्रं जगत् सनातनधर्मं सनातनसंस्कृतिं सभ्यतां च प्रति परावर्तिष्यते। अस्माकं महर्षीणां महती परम्परा एतावती उत्तुङ्गा अस्ति यत् हिन्दुधर्मेण सह कस्यापि अन्यस्य मत-पन्थ-सम्प्रदायस्य तुलना भवितुं नार्हति। कुत्र तु एक-अरब-पञ्चनवति-कोटि-अष्टलक्ष-सप्तविंशत्यधिकशत (१,९५,०८,०१२७) वर्षेभ्यः पुरातनी अस्माकं संस्कृतिः, कुत्र च केवलं चतुर्दशशत (१४००) वर्षाणां, सार्धद्विसहस्र (२५००) वर्षाणां वा नवीनाः संस्कृतयः सभ्यताश्च; तासां सनातनधर्मेण सह तुलना नैव शक्यते। अतः सनातनधर्मः सर्वेषां धर्माणां संस्कृतीनां च आदिपिता आदिमाता च वर्तते।

 

सनातनशास्त्र-शुद्धि-अभियानस्य शुभारम्भः—५२-तमे प्राच्यविद्यासम्मेलने सर्वेषां शीर्षधर्मगुरूणां सान्निध्ये भविष्यति

 

पूज्य-स्वामिपादेन विज्ञापितं यत् अस्य त्रिदिवसीयस्य अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य उद्घाटनं महामहिमभिः राज्यपालमहोदयैः विधास्यते। देशस्य मूर्धन्याः विद्वांसः, सर्वे शीर्षाः धर्माचार्याः, अस्माकं जगद्गुरु-शङ्कराचार्याश्च सर्वे उपस्थिताः भवन्ति। वयं समग्रं राष्ट्रम् आह्वयामः यत् स्वधर्मे, स्वसंस्कृतौ, स्वपूर्वजानां महति चरित्रे च वयं गौरवम् अनुभवेम। त्रिभिः प्रकारैः अस्माकं पूर्वजेषु मिथ्यारोपाः आरोप्यन्ते—एकं तु मैक्समूलर्-महोदयस्य अशुद्धा व्याख्या। उल्लेखनीयम् अस्ति यत् मैक्समूलर-महोदयेन संस्कृतभाषा, भारतीया संस्कृतिश्च न तु महिमान्विता कर्तुं, न सनातनधर्मम् अङ्गीकर्तुं, न च सनातनधर्मस्य प्रचार-प्रसारं विस्तारं वा कर्तुं पठिता, अपि तु वैदेशिकषड्यन्त्रवशात् सनातनधर्मशास्त्रेषु अशुद्धा व्याख्या कृत्वा समग्रविश्वस्य सम्मुखम् आङ्ग्लभाषायाम् उपस्थापिता। अद्यापि ऑक्सफोर्ड-, हार्वर्ड-, कैम्ब्रिज्-, स्टैनफोर्ड्-आदिषु विश्वस्य बृहत्सु विश्वविद्यालयेषु सनातनधर्मस्य त एव प्रक्षिप्ताः भाष्याः प्रसङ्गाश्च पाठ्यन्ते येषां व्याख्या मैक्समूलरेण जानन्त्या अशुद्धा कृता, यद्यपि काश्चन व्याख्याः सायणेन महीधरेणापि प्रमादेन विहिताः। सर्वाधिकं पापं मैक्समूलरेण विहितम्। एतदतिरिच्य अन्यैः वैदेशिकशासकैः एकैकं शास्त्रं विचित्य सनातनधर्मशास्त्राणां विकृता व्याख्या कृता। द्वितीयं तु सनातनधर्मशास्त्रेषु लोभबलेन, खड्गबलेन, शस्त्रबलेन, शासनबलेन, सत्ता-सम्पत्ति-बलेन च षड्यन्त्रपूर्वकं प्रक्षेपः कृतः। ततश्च अस्माभिः विना मूल्याङ्कनं, विना विवेचनां, सनातनधर्मस्य मूलसिद्धान्तानां विना मीमांसां च प्रक्षिप्तानि शास्त्राणि मुद्रितानि।

अधुना यतः कुतोऽपि—गीताप्रेस-गोरखपुरात् आरभ्य, पतञ्जलितः आरभ्य, देशस्य कस्मादपि संस्थानात्—आगामिकालखण्डे यतः कुतोऽपि अस्माकं साङ्ख्य-योग-, न्याय-वैशेषिक-आदिदर्शनानां, वेदान्त-मीमांसा-आदीनां भाष्याणि, उपनिषदः, उपनिषद्भाष्याणि, अस्माकं ब्राह्मणग्रन्थाः, विविधाः स्मृतयः, शताधिकाः सनातनधर्मग्रन्थाः, पुराणानि, रामायणं, महाभारतम् इत्यादीनां सर्वेषां प्रामाणिकं प्रकाशनं भविष्यति। सर्वसम्मत्या ततः सर्वे प्रक्षेपाः निष्कासयिष्यन्ते, ये च अशुद्धव्याख्यां कुर्वन्ति सापि परिमार्ज्यते। तृतीयं तु—सनातनधर्मशास्त्राणि अध्येतुं न्यूनतमेन पञ्चोपदेशाः, अष्टाध्यायी, महाभाष्यं, निरुक्त-निघण्टू, अस्माकं मूलदर्शनानि, एकादशोपनिषदः, अस्माकं रामायण-महाभारते (वाल्मीकिरामायणं श्रीरामचरितमानसं वा), मूलानि अष्टादशपुराणानि—एतावताम् अध्ययनं तु अनिवार्यमेव स्यात्; संस्कृतभाषानभिज्ञाः स्तरहीनाश्च जनाः अस्माकं शास्त्राणां व्याख्यां मा कुर्युः। अस्माभिः सङ्कल्पितं यत् अस्माकम् अवतारीसत्तासु, अस्माकं देवी-देवतासु, ऋषि-मुनिषु च षड्यन्त्रपूर्वकं यानि कपोलकल्पितानि मिथ्या-आरोपणानि क्रियन्ते, तेषाम् अनावरणं विधीयेत, समग्रविश्वे च तेषां दुष्प्रचारः उद्घाट्येत। हिन्दूधर्मस्य सनातनधर्मस्य शास्त्राणां नाम्नि अथवा तेषु प्रक्षेपं कृत्वा, तेषां विकृतव्याख्याने याः भारतविरोधि-शक्तयः संलग्नाः सन्ति, तासां षड्यन्त्रम् अनादृत्य सनातनधर्मस्य वास्तविकं स्वरूपं समग्रविश्वस्य पुरतः उपस्थापयेम।

 

५२-तमे अखिलभारतीय-प्राच्यविद्या-सम्मेलने सम्मिलिताः भविष्यन्ति शीर्षाः धर्मगुरवः

 

सनातनस्य सामर्थ्यं विश्वस्य पुरतः उपस्थापयितुम् अक्टोबर् २९ तः ३१ दिनाङ्कपर्यन्तं पतञ्जलिविश्वविद्यालये १०४ वर्षेभ्यः पुरातनस्य अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य (AIOC) ५२-तमम् अधिवेशनं सम्पद्यते। अस्मिन् भारतस्य सर्वे शीर्षाः धर्मगुरवः, अस्माकं सर्वे पूज्यपादाः शङ्कराचार्याः वा तु स्वयं समागच्छन्ति अथवा तेषां प्रतिनिधयः भागं गृह्णन्ति। अस्माकं सर्वे शैवसन्ताः, वैष्णवाः, विविधानां सम्प्रदायानां गुरुपरम्पराणां च सर्वे पूज्यसन्ताः, आचार्यमहासभातः अखिलभारतीय-सन्तसमितितः आरभ्य अस्माकम् अखाड़ा-परिषदः षड्दर्शन-साधुसमाजाच्च विविधानां यावन्तः अपि सनातनधर्मस्य सङ्घटनानि सन्ति, तेषां सर्वेषां प्रमुखाः महापुरुषाश्च उपस्थिताः भवन्ति। एतेषां सर्वेषाम् एकमेव लक्ष्यं यत् सनातनधर्मोपरि यः आघात-प्रत्याघातः भवति, तस्मात् सनातनधर्मस्य रक्षा क्रियेत, सनातनधर्मस्य च यत् शुद्धतमं स्वरूपं वर्तते तत् संसारस्य समक्षम् उपस्थापयेत्।

हिन्दूधर्मे प्रक्षिप्तानां विषयाणाम् अनावरणाय अद्य अस्माभिः तस्य एकं प्रारम्भिकं स्वरूपं भवतां पुरतः उपस्थापितम्; अस्य सम्पूर्णं स्वरूपम् एतेषु त्रिषु दिनेषु ५२-तमे अखिलभारतीय-प्राच्यविद्या-सम्मेलने प्रस्तोष्यते। देशस्य शीर्षाः आध्यात्मिकगुरवः, दार्शनिकविद्वांसः, जगद्गुरु-शङ्कराचार्यादयश्च सर्वे पतञ्जलिविश्वविद्यालये उपस्थिताः भविष्यन्ति। इदम् अराजनैतिकम् आयोजनम् अतीव ऐतिहासिकं भविष्यति, यस्मिन् प्रायः ४ तः ५ सहस्रं यावत् संस्कृतविद्वांसः (Scholars) अस्माकं शताधिकाः शीर्षाः आध्यात्मिकगुरवश्च भागं ग्रहीष्यन्ति। इदं विशुद्धरूपेण अस्माकं सांस्कृतिकम्, आध्यात्मिकं, सनातनधर्मस्य च एकं महद् अराजनैतिकम् अधिवेशनम् अस्ति, अतः कस्मादपि प्रकारकात् राजनैतिकप्रभावात् इदं सर्वथा दूरं रक्षितम्।

सम्मेलने परमपूज्याः स्वामि-रामदेव-महाराजाः, परमपूज्याः आचार्य-बालकृष्ण-महाराजाः, केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतयः प्रो. श्रीनिवास-वरखेडी-महोदयाः, पतञ्जलिविश्वविद्यालयस्य प्रतिकुलपतिः डॉ. साध्वी-देवप्रिया-महोदया, AIOC-सङ्घटनस्य महासचिवः प्रो. कविता-होले-महोदया, संयुक्तसचिवः प्रो. शिवानी वी.-महोदया, प्रो. अरुणरञ्जनमिश्र-महोदयाः, प्रो. रमाकान्तपाण्डेय-महोदयाः, श्री-मयङ्क-अग्रवाल-महोदयश्च सहिताः देशविदेशयोः प्रतिष्ठिताः मूर्धन्याश्च संस्कृतमनीषिणः उपस्थिताः भविष्यन्ति।

You Might Also Like

52th AIOC – संस्कृतजगतः महाकुम्भः – हरिद्वारे पतञ्जलिविश्वविद्यालये अद्य प्रारभ्यते द्विपञ्चाशत्तमम् अखिलभारतीय-प्राच्यविद्या-सम्मेलनम्

*श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना।* 

दीपावली प्राक् महार्घतावृत्ति: (DA) सर्वकारेण ३% वृद्धिः अनुमता

न्यायिक-अवरोध-अवधेः समाप्त्यनन्तरं सीजेपी-नेत्रोः सौरवदासस्य आशुतोषरांकायाः च मुक्ति-आदेशः

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

TAGGED: \हिमाचल के आज के समाचार, AIOC, Central Sanskrit University, cmo himachal, cmo himachal Pradesh, Daily Sanskrit News, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskrit news, Himsanskritnews, Himsanskritvarta, narendra modi, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, sanskrit University, Today Sanskrit Nerws, varta, vartah, अखिलभारतीयप्राच्यविद्यासम्मेलनम्, आज के संस्कृत समाचार, देश विदेश की ताजा खबरें, दैनिक समाचार, पतंजलिविश्वविद्यालय हरिद्वार, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article *श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना।* 
Next Article 52th AIOC – संस्कृतजगतः महाकुम्भः – हरिद्वारे पतञ्जलिविश्वविद्यालये अद्य प्रारभ्यते द्विपञ्चाशत्तमम् अखिलभारतीय-प्राच्यविद्या-सम्मेलनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?