
नवीनशिक्षानीतौ संस्कृतस्य भविष्यं च इति विषये व्याख्यानगोष्ठी सम्पन्ना
हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।
लखनऊम्। उत्तरप्रदेशसंस्कृतसंस्थानेन स्वपरिसरे २९ अगस्त २०२६ दिनाङ्के ‘नवीनशिक्षानीतिः संस्कृतस्य भविष्यं च’ इति विषयमधिकृत्य व्याख्यानगोष्ठ्याः आयोजनं कृतम्। कार्यक्रमस्य प्रारम्भः दीपप्रज्वलनेन माल्यार्पणेन च अभवत्। ततः मुख्यातिथीनां वाचिकं स्वागतं कृतम्।
संस्थानस्य वरिष्ठप्रशासनिकाधिकारी श्रीदिनेशकुमारमिश्रः स्वीयोद्बोधने सर्वेषां वक्तॄणां स्वागतं कृत्वा शासनस्य विभिन्नानां योजनानां विषये जानकारीं प्रदत्तवान्। संस्कृतभाषायाः प्रचार-प्रसाराय अधिकप्रयत्नस्य आवश्यकतायां च तेन विशेषं बलं दत्तम्।
कार्यक्रमे मुख्यवक्तारूपेण प्रो. सदाशिवकुमारद्विवेदी, कलासंकायः, काशीहिन्दूविश्वविद्यालयः, वाराणसी, उपस्थितः आसीत्। सः अवदत् यत् नवीनशिक्षानीतेः प्रमुखमुद्देश्यं संस्कृतभाषायां निहितं ज्ञानं सर्वेषां विषयाणां विद्यार्थिभ्यः सरलतया प्रापयितुम् अस्ति। एस.ए.सी., वी.ए.सी., एम.डी. तथा माइनर इत्यादीनां पाठ्यक्रमाणां लाभं संस्कृतेतरविषयाणां विद्यार्थिनः अपि गृह्णन्ति। एतेषु विज्ञानं, सामाजिकविज्ञानं, वाणिज्यं, प्रबन्धनम् इत्यादयः विषयाः अन्तर्भवन्ति।
प्रो. द्विवेदी उक्तवान् यत् संस्कृतभाषायां निहितं ज्ञानं सरलप्रभावीरीत्या विद्यार्थिषु प्रस्तुतुं संस्कृतप्राध्यापकानां दायित्वम् अस्ति। विषयान् तार्किकरूपेण प्रस्तुतुं नूतनाः विधयः विकसितव्याः। संस्कृतग्रन्थेषु विद्यमानानां आधुनिकविषयसम्बद्धानां सूत्राणां विद्यार्थिभ्यः परिचयः करणीयः। विषयज्ञानस्य सहैव विद्यार्थिनां जीवनं संस्कारपूर्णं भवेत्, तदर्थमपि भारतीयज्ञानपरम्परायाः सूत्राणि तेषां समक्षं स्थापनीयानि इति तेन प्रतिपादितम्।
विशिष्टातिथिरूपेण प्रो. शरदिन्दुकुमारतिवारी, संस्कृतविभागः, काशीहिन्दूविश्वविद्यालयः, वाराणसी, संस्कृतभाषायाः महत्त्वे व्यापकप्रयोगे च प्रकाशं नीतवान्। सः अवदत् यत् संस्कृतस्य अध्ययनं केवलमेकस्याः भाषायाः अध्ययनं नास्ति, अपितु भारतस्य आत्मनः, समृद्धायाः सांस्कृतिकपरम्परायाः, साहित्यिकविरासतायाः, ज्ञानविज्ञानस्य गौरवशालिनः इतिहासस्य च अवगमनस्य माध्यमम् अस्ति।
तेन उक्तं यत् संस्कृतं भारतीयसंस्कृतेः मूलचेतनया सह सम्बद्धा भाषा अस्ति। अस्यां भारतस्य प्राचीनज्ञानपरम्परा, जीवनदर्शनम्, आध्यात्मिकचिन्तनं मानवीयमूल्यानि च विपुलेन प्रमाणेन सुरक्षितानि सन्ति। संस्कृतसाहित्ये निहितं ज्ञानं केवलमतीतस्य धरोहरं न, अपितु वर्तमानसमाजस्य कृते अपि अत्यन्तोपयोगि प्रासङ्गिकं च वर्तते।
वेदेषु, उपनिषत्सु, पुराणेषु, रामायणे, महाभारते, दर्शनशास्त्रे, काव्ये, नाटके विभिन्नेषु शास्त्रेषु च जीवनं सार्थकं सन्तुलितं च कर्तुं बहवः महत्त्वपूर्णाः सन्देशाः निहिताः सन्ति इति प्रो. तिवारी प्रतिपादितवान्। संस्कृतस्य अध्ययनद्वारा व्यक्तिः स्वकीयाभिः मूलपरम्पराभिः, संस्कृत्या गौरवशालिभिश्च परम्पराभिः परिचितो भवति तथा तस्य अन्तःकरणे राष्ट्रियचेतना सांस्कृतिकात्मगौरवं च विकसितं भवति इति तेन विशेषतया उक्तम्।
गोष्ठ्यां संस्कृतस्य भविष्यं, नवीनशिक्षानीतौ संस्कृतस्य भूमिका, भारतीयज्ञानपरम्परायाः संरक्षणं तथा विद्यार्थिषु संस्कृतस्य प्रसारः इत्यादिषु विषयेषु सार्थकः विमर्शः सम्पन्नः। कार्यक्रमेन संस्कृतस्य आधुनिकशिक्षाव्यवस्थया सह समन्वयस्य आवश्यकता विशेषतया प्रकाशिता।

