
भारतीयज्ञानपरम्परायां शास्त्रार्थपरम्परा अतीव प्राचीना वैज्ञानिकस्वरूपा च — प्रो. कान्ताभाटिया
हिमसंस्कृतवार्ताः — सत्येन्द्रपाठकः, लखनऊ।
संस्कृतसंस्कृतिविकाससंस्थानम्, अवधप्रान्तस्य तत्त्वावधानेन संस्कृतदिवसोपलक्ष्ये ‘भारतीयज्ञानपरम्परायां शास्त्रार्थपरम्परा’ इति विषयमधिकृत्य विद्वद्व्याख्यानस्य आयोजनम् आभासीयमाध्यमेन सम्पन्नम्।
कार्यक्रमे मुख्यातिथिरूपेण गुरुकुलप्रकल्पस्य राष्ट्रीयाध्यक्षा प्रो. कान्ताभाटियामहोदया उपस्थिताऽभवत्। स्वीयसम्बोधने तया प्रतिपादितं यत् भारतीयानां शास्त्रार्थपरम्परा अतीव प्राचीना वैज्ञानिकस्वरूपा च वर्तते। भारतीयज्ञानपरम्परायां शास्त्रार्थस्य विशिष्टं स्थानं वर्तते, यत्र तर्क-विमर्शयोः माध्यमेन ज्ञानस्य परिष्कारः क्रियते।
कार्यक्रमस्य मुख्यवक्तृरूपेण श्रीलालबहादुरशास्त्री-संस्कृतविश्वविद्यालयस्य, देहलीस्थस्य, सांख्ययोग-योगविज्ञानविभागाध्यक्षः प्रो. श्रीमार्कण्डेयनाथतिवारीमहोदयः उद्बोधनं प्रदत्तवान्। तेन उक्तं यत् गार्गीसदृशी विदुषी भारतीयशास्त्रार्थपरम्परायाः सशक्तवाहिका आसीत्। भारतीयशास्त्रार्थपरम्परा सुदृढा विस्तृता च अस्ति। अस्यां परम्परायां प्रतिप्रश्नस्य, तर्कस्य तथा मुक्तचिन्तनस्य पर्याप्तः अवसरः कल्प्यते।
मुख्यवक्त्रा भारतीयपरम्परायां प्रश्नोत्तरस्य ज्ञानसंवादस्य च महत्त्वं प्रतिपादितम्। तेन स्पष्टं कृतं यत् शास्त्रार्थपरम्परा केवलं वादविवादस्य माध्यमं न, अपितु तत्त्वान्वेषणस्य ज्ञानपरिष्कारस्य च महत्त्वपूर्णं साधनम् अस्ति।
कार्यक्रमे आशीर्वचनप्रदातारूपेण प्रो. राधागोविन्दत्रिपाठीमहोदयः, कार्यक्रमाध्यक्षारूपेण डॉ. वीणामिश्रामहोदया, संयोजिकारूपेण डॉ. एल्. सविता आर्यामहोदया च उपस्थिताः। कार्यक्रमस्य प्रारम्भे श्री प्रिन्सशुक्लमहोदयेन वैदिकमङ्गलाचरणम्, शिखामिश्रामहोदयया लौकिकमङ्गलाचरणम्, डॉ. सुमनमिश्रामहोदयया स्वागतभाषणं च प्रस्तुतम्।
कार्यक्रमस्य सञ्चालनं सुश्री दृष्टि आर्या कृतवती। डॉ. एल्. सविता आर्या साप्ताहिकप्रतिवेदनं प्रस्तुतवती। कार्यक्रमस्य अन्ते श्री सत्येन्द्रपाठकेन धन्यवादज्ञापनं कृतम् तथा श्री देवेशकुमारेण कार्यक्रमस्य प्रतिवेदनलेखनं सम्पन्नम्।
कार्यक्रमे देशस्य विभिन्नेभ्यः भागेभ्यः संस्कृतविद्वांसः, आचार्याः, छात्राः संस्कृतानुरागिणश्च आभासीयमाध्यमेन उत्साहपूर्वकं सहभागितां कृतवन्तः। कार्यक्रमेन भारतीयज्ञानपरम्परायां शास्त्रार्थस्य गौरवपूर्णं स्थानं पुनः रेखाङ्कितम्, तथा तस्याः परम्परायाः समकालीनप्रासङ्गिकतायाः विषये अपि प्रकाशः प्रक्षिप्तः।

