By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: एकविंशतिदिवसीयः ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य सम्पूर्तिसमारोहः सम्पन्नः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > एकविंशतिदिवसीयः ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य सम्पूर्तिसमारोहः सम्पन्नः
संस्कृतगतिविधयः

एकविंशतिदिवसीयः ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य सम्पूर्तिसमारोहः सम्पन्नः

डॉ.अमनदीप शर्मा
Last updated: 2026/08/22 at 4:40 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

एकविंशतिदिवसीयः ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य सम्पूर्तिसमारोहः सम्पन्नः

हिमसंस्कृतवार्ताः — सत्येन्द्रपाठकः, लखनऊ।

लखनऊ। संस्कृतभारत्या आयोजितस्य एकविंशतिदिवसीयस्य ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य सम्पूर्तिसमारोहः त्रयोदशे अगस्त्-दिनाङ्के आभासीयमाध्यमेन उत्साहपूर्वकं सम्पन्नः। जुलै-मासस्य द्वाविंशतितः आरब्धे अस्मिन् वर्गे प्रतिभागिभ्यः संस्कृतभाषां सरलतया, सहजतया, व्यवहारिकरूपेण च अधिगन्तुं तथा संस्कृते सम्भाषणस्य नियमिताभ्यासं कर्तुं प्रशिक्षणं प्रदत्तम्।

कार्यक्रमस्य शुभारम्भः प्रिन्शुक्लेन वैदिकमङ्गलाचरणेन तथा प्रिया लौकिकमङ्गलाचरणेन कृतः। ततः वर्गस्य प्रशिक्षिका शिखामिश्रा स्वागतभाषणं प्रस्तुत्य उपस्थितानाम् अतिथीनां प्रतिभागिनां च स्वागतं कृतवती। शिवामिश्रया स्वागतगीतं संस्कृतगीतं च प्रस्तुतम्।

समारोहस्य मुख्यातिथिः आदरणीयः डॉ. अनिलकुमारः, संस्कृतभारत्याः अवधप्रान्तमन्त्री, स्वीयसम्बोधने संस्कृत-सम्भाषणस्य महत्त्वं प्रतिपाद्य प्रतिभागिनः संस्कृतस्य निरन्तराभ्यासाय प्रचार-प्रसाराय च प्रेरितवान्।

समारोहस्य अवसरे प्रतिभागिभिः रामांश, श्वेता तथा शुभाङ्गेन एकविंशतिदिवसीयस्य वर्गस्य स्वानुभवाः प्रस्तुताः। तैः उक्तं यत् नियमिताभ्यासेन संस्कृतभाषायां सम्भाषणस्य आत्मविश्वासः वर्धितः तथा संस्कृतभाषायाः दैनिकजीवने प्रयोगाय प्रेरणा प्राप्ता।

कार्यक्रमस्य सञ्चालनं सत्येन्द्रपाठकः कृतवान्। तेन वर्गस्य गतिविधीनाम् उपलब्धीनां च उल्लेखं कुर्वता प्रतिपादितं यत् संस्कृत-सम्भाषणस्य यात्रा सम्पूर्त्या समाप्ता न भवति, अपितु अधुना तस्याः निरन्तरं दैनिकजीवने प्रयोगस्य संकल्पः करणीयः।

कार्यक्रमस्य अन्ते सत्येन्द्रपाठकेन मुख्यातिथये, प्रशिक्षिकायै, सर्वेभ्यः प्रतिभागिभ्यः, प्रस्तुतिकर्तृभ्यः सहयोगिभ्यश्च कृतज्ञता ज्ञापिता। संगीतया शान्तिमन्त्रस्य पाठेन समारोहस्य समापनं सम्पन्नम्।

अवसरेऽस्मिन् सर्वैः प्रतिभागिभिः संस्कृतं निरन्तरं वक्तुं, पठितुं, प्रचारयितुं च संकल्पः कृतः।

You Might Also Like

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्तरूपेण ‘शास्त्रमन्थनम्–१०८’ व्याख्यानमालायाः द्वाविंशतितमं शास्त्रपुष्पं समर्पितम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love1
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः
Next Article अखिलभारतीयसंस्कृतपरिषदि संस्कृतसप्ताहमहोत्सवः सम्पन्नः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?