By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: “HTET-परीक्षायां संस्कृतविभागस्य विद्यार्थिनां भव्यसफलता”
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > “HTET-परीक्षायां संस्कृतविभागस्य विद्यार्थिनां भव्यसफलता”
संस्कृतगतिविधयः

“HTET-परीक्षायां संस्कृतविभागस्य विद्यार्थिनां भव्यसफलता”

डॉ.अमनदीप शर्मा
Last updated: 2026/08/10 at 12:08 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

“HTET-परीक्षायां संस्कृतविभागस्य विद्यार्थिनां भव्यसफलता”
हरियाणा-केन्द्रीय-विश्वविद्यालयस्य संस्कृतविभागेन पुनरेकवारं स्वकीयायाः शैक्षणिक-उत्कृष्टतायाः प्रमाणं प्रदर्शितम्। विभागस्य चतुर्दश प्रतिभाशालिनः विद्यार्थिनः प्रतिष्ठितायां हरियाणा-शिक्षक-पात्रता-परीक्षायां (HTET) उल्लेखनीयां सफलतां प्राप्य स्वविभागस्य विश्वविद्यालयस्य च गौरवं वर्धितवन्तः। एतेषु विद्यार्थिषु विजयपालः, चोखराजः, ज्योतिः, ज्योतिर्यादवः, रचना, चेतनश्च केवलं TGT-वर्गे सफलतां प्राप्तवन्तः। रितु, सपना, तन्नू, मनीषा च TGT-PGT चेत्युभययोः वर्गयोः सफलतां प्राप्तवत्यः। विश्वविद्यालयस्य माननीयः कुलपतिः प्रो. टङ्केश्वरकुमारः सर्वेभ्यः सफलविद्यार्थिभ्यः अस्याः उल्लेखनीयायाः सफलतायाः कृते हार्दिकं अभिनन्दनं व्याजहार। सः स्वसन्देशे अवदत्— “एषा सफलता अस्माकं विद्यार्थीनां निरन्तरप्रयत्नस्य समर्पणस्य च शिक्षकाणां श्रेष्ठमार्गदर्शनस्यापि परिणामः अस्ति। अहं पूर्णतया विश्वसिमि यत् एते प्रतिभाशालिनः विद्यार्थिनः भविष्ये श्रेष्ठशिक्षकरूपेण राष्ट्रस्य समाजस्य च निर्माणे स्वमूल्यवान् योगदानं प्रदास्यन्ति।” संस्कृतविभागस्य विभागाध्यक्षा प्रो. पायल-कँवर-चन्देल-महोदया अपि सफलानां छात्राणां शुभकामनाः प्रदाय तेषां कठिनपरिश्रमस्य प्रशंसां कृतवती। सा प्रसन्नतां प्रकटयन्ती अवदत्— “अस्माकं विद्यार्थिभिः HTET-सदृश्यायां कठिनपरीक्षायां उत्कृष्टं प्रदर्शनं कृत्वा न केवलं स्वीयं, अपितु सम्पूर्णस्य संस्कृतविभागस्यापि गौरवं वर्धितम्। एषा सफलता विभागस्य अन्येषां विद्यार्थिनामपि कृते महती प्रेरणा अस्ति।” विभागीयाः शिक्षकाः डॉ. सुमनरानी, डॉ. देवेन्द्रसिंहराजपूतः, डॉ. सुमितशर्मा, डॉ. कृष्णकुमारः, डॉ. अर्चनाकुमारी च सफलविद्यार्थिभ्यः अस्याः उपलब्धेः कृते हार्दिकान् शुभकामनाः प्रदत्तवन्तः तथा तेषां उज्ज्वलभविष्यस्य कामनां कृतवन्तः। एषा सफलता न केवलम् एतेषां विद्यार्थिनां उज्ज्वलभविष्यस्य सुदृढं आधारं निर्माति, अपितु हरियाणा-केन्द्रीय-विश्वविद्यालयस्य संस्कृतविभागे प्रदीयमानायाः उच्चस्तरीयशिक्षायाः, उत्कृष्टाध्यापनस्य तथा कुशलमार्गदर्शनस्य च परिचायकत्वेन अपि तिष्ठति। सम्पूर्णस्य विश्वविद्यालयपरिवारस्य पक्षतः सर्वेभ्यः भावीशिक्षकेभ्यः तेषां स्वर्णिमभविष्याय अनन्ताः हार्दिकाः शुभकामनाः।

You Might Also Like

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयेन महाराष्ट्रस्य दुष्कालपीडितक्षेत्राणां सर्वेषां छात्राणां परीक्षाशुल्क-विमुक्तेः निर्देशाः निर्गताः

बालिका संस्कृतविद्यापीठे नवरात्रिमहोत्सवः भजन-कीर्तनैः समायोजितः

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article संस्कृतभारत्याः गुर्जरप्रान्तस्य प्रान्त-अभ्यासवर्गः ऐठोरग्रामे सम्पन्नः
Next Article पुनः बृहद्पटले दर्शनं दास्यत: सञ्जयदत्तः सलमानखानश्च, अरबीचलच्चित्रं ‘7 डॉग्स’ भारतदेशे अस्मिन् दिने प्रदर्शितं भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?