‘गजनी’ चलच्चित्रस्य खलनायकः प्रदीप रावतः दिवङ्गतः, आमिरखानेन सह ‘लगान’ चलच्चित्रे अपि दृष्टः आसीत्, ‘महाभारते’ अपि अभिनयं कृतवान्
वार्ताहर: जगदीश डाभी (मुम्बई)
(हिमसंस्कृतवार्ता:) भारतीयस्य चलच्चित्रजगतः प्रसिद्धः वरिष्ठः च अभिनेता प्रदीप रावतः दिवङ्गतः। सः सुदीर्घकालं यावत् कर्करोगेण (कैन्सर-रोगेण) पीडितः आसीत्। तस्य एषा बीमारी (रोगः) शाम्यतां गता आसीत्, किन्तु पश्चात् कर्करोगः पुनः प्रत्यागतः। अस्मिन् वारे सः एतं संग्रामं जेतुं न अशक्नोत्। वार्तानुसारम्, मङ्गलवासरे चतुःसप्तति (७४) वर्षे वयसि प्रदीप रावतः जगत् इदं सदा सर्वदैव त्यक्तवान्।
प्रदीप रावत भारतीय सिनेमा के दिग्गज अभिनेताओं में से एक थे। उन्होंने साउथ और बॉलीवुड, दोनों फिल्म इंडस्ट्री में कई दशकों तक काम किया। हालांकि, उन्हें साउथ की फिल्मों के लिए अधिक जाना जाता था। बॉलीवुड की आइकॉनिक फिल्म गजनी में उन्होंने आमिर खान के साथ स्क्रीन शेयर की थी। इस फिल्म में उन्होंने खूंखार विलेन गजनी का किरदार निभाया था। इसी भूमिका ने उन्हें हिंदी भाषी राज्यों में भी जबरदस्त लोकप्रियता दिलाई।
प्रदीप रावतः भारतीयचलच्चित्रजगतः वरिष्ठेषु अभिनेतृषु अन्यतमः आसीत्। सः दाक्षिणात्य-बॉलीवुड-उभयोः चलच्चित्रउद्योगयोः बहुदशकपर्यन्तं कार्यम् अकरोत्। तथापि सः दाक्षिणात्यचलच्चित्राणां कृते अधिकं प्रसिद्धः आसीत्। बॉलीवुड-उत्कृष्टचलच्चित्रे ‘गजनी’ इति नामके सः आमिरखानेन सह सह-अभिनयम् अकरोत्। अस्मिन् चलच्चित्रे सः क्रूरस्य खलनायकस्य ‘गजनी’ इत्यस्य भूमिकाम् ऊढवान्। अस्याः एव भूमिकायाः कारणात् सः हिन्दीभाषिक्षेत्रेषु अपि महतीं लोकप्रियतां प्राप्तवान्।
अल्पे एव जनाः जानन्ति यत् प्रदीप रावतः आमिरखानस्य ऑस्कर-नामाङ्किते ‘लगान’ चलच्चित्रे अपि दृश्यते स्म। अस्मिन् चलच्चित्रे सः सर्वाङ्गीणस्य (ऑलराउंडर) ‘देवा सिंह सोढ़ी’ इत्यस्य भूमिकाम् ऊढवान्। इदं ज्ञात्वा आश्चर्यं भविष्यति यत् प्रदीप रावतः ‘महाभारत’ धारावाहिके अपि दृष्टः आसीत्। अस्मिन् धारावाहिके सः ‘अश्वत्थामा’ इत्यस्य भूमिकाम् अकरोत्। स्ववृत्तिजीवनस्य (career) आरम्भे सः चलच्चित्रैः सह दूरदर्शन-धारावाहि केषु अपि कार्यं करोति स्म।
#PradeepRawat #RIP
