फीफा-विश्वकप-उपान्त्यक्रीडा: अर्जेन्टीना-देशेन इङ्गलैण्डं २-१ इत्यनेन पराजित्य अन्तिमचरणे (फाइनल्) प्रवेशः प्राप्तः
अटलांटा। वर्तमानविजेत्रा अर्जेन्टीना-देशेन फीफा-विश्वकपस्य उपान्त्यचक्रे (सेमीफाइनल) अन्तिमक्षणेषु प्रत्यावर्तनं कुर्वन् इङ्गलैण्डदेशं २-१ इत्यनेन अन्तरेण पराजित्य रविवासरे स्पेन-देशेन सह भवितुं योग्यायां प्रवरक्रीडायां स्वस्थानं सुरक्षितं कृतम्। मर्सिडीज-बेंज-क्रीडाङ्गणे बुधवासरे रात्रौ अनुष्ठिते अस्मिन् द्वन्द्वे ५५ तमे निमेषे (मिनट) एंथनी गॉर्डन महोदयस्य गोल्-प्रहारेण इङ्गलैण्डदेशः विजयमार्गं प्रति गच्छन् दृश्यते स्म, परन्तु अर्जेन्टीना-देशेन क्रीडायाः अन्तिमक्षणेषु पक्षं परिवर्तितम्। एन्जो फर्नांडीज महोदयेन क्रीडासमाप्तेः पञ्चनिमेषपूर्वं गोलं कृत्वा अङ्काः समानाः कृताः, ततः परं विकल्पक्रीडकरूपेण (सब्स्टीट्यूट) आगत्य लौटारो मार्टिनेज महोदयेन द्वितीयभागस्य अतिरिक्तसमये (स्टॉपेज टाइम) लियोनेल मेसी महोदयस्य क्रॉस-पास उपरि हेडर-माध्यमेन विजयगोलं प्रहृतम्।उभाभ्यां दलाभ्यां क्रीडायाः प्रथमार्धं अतीव सावधानतया क्रीडितम्, अस्मिन् समये उभावपि दलौ आत्मरक्षणं कुर्वन्तौ दृश्येताम् तथा च कस्यापि कृते अवसराः न्यूनाः एव आसन्। इङ्गलैण्डदेशेन अनुशासितं रक्षात्मकं प्रदर्शनं (डिफेंस) कृतम्, अपरतः अर्जेन्टीना-देशेन कन्दुकः स्ववशं रक्षितः, किन्तु ते इङ्गलैण्डस्य गोलरक्षकं जॉर्डन पिकफोर्ड महोदयं विशेषपीडां दातुं न शक्नुवन्। प्रथमार्धं गोलरहितम् आसीत्। क्रीडायाः प्रथमं गोलं द्वितीयभागस्य १० तमे निमेषे अभवत्, यदा मॉर्गन रोजर्स महोदयेन दक्षिणभागतः अचूकः क्रॉस-पास दत्तः, गॉर्डन महोदयेन च समीपतः गोलं कृत्वा इङ्गलैण्डदेशाय महत्त्वपूर्णा अग्रता प्रापिता। एतस्मात् परं अर्जेन्टीना-देशेन क्रीडायाः गतिः वर्धिता तथा च इङ्गलैण्डदेशः तस्यैव भागे पृष्ठतः नुत्तः। एलेक्सिस मैक एलिस्टर महोदयः अङ्कसमतां कर्तुं समीपस्थः आसीत्, यदा तस्य तीक्ष्णः हेडर-प्रहारः स्तम्भस्य (पोस्ट) आन्तरिकभागे ताडितः, परन्तु पिकफोर्ड महोदयेन अनेके प्रमुखाः प्रतिरोधाः कृत्वा इङ्गलैण्डदेशस्य अग्रता रक्षिता।
फीफा-विश्वकप-उपान्त्यक्रीडा: अर्जेन्टीना-देशेन इङ्गलैण्डं २-१ इत्यनेन पराजित्य अन्तिमचरणे (फाइनल्) प्रवेशः प्राप्तः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
