‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा
हिमसंस्कृतवार्ता:- धर्मशाला।महिलाकाङ्ग्रेसस्य पूर्वा राष्ट्रिया अध्यक्षा शोभा ओझा महोदया राममन्दिरन्यासं (राम मंदिर ट्रस्ट) भङ्गं कृत्वा मन्दिरनिमाणे धनसङ्ग्रहे च कथित- अनियमिततानां सर्वोच्चन्यायालयस्य निरीक्षणे न्यायिकावेषणं करणीयम् इति याचनां कृतवती। तया कथितं यत् श्रीरामस्य नाम्नि राजनीतिं कुर्वन्तः अधुना भगवता श्रीरामेण एव निमज्जयिष्यन्ते। धर्मशालायां रविवासरे आयोजितायां पत्रकारगोष्ठ्यां शोभा ओझा अवदत् यत् पूर्वम् आक्रमणकारिणः देशस्य मन्दिराणि लुण्ठन्ति स्म, परन्तु अधुना मन्दिराणां कथितं लुण्ठनं तेषां स्वकीयाः कर्तारः एव कुर्वन्तः सन्ति। तया आरोपः कृतः यत् न्यासद्वारा विशेषान्वेषणदलस्य सङ्घटनेन तथ्येषु आवरणं न स्थापयितुं शक्यते। कोटिरूप्यकाणां कथितघोटालायाः निष्पक्षम् अन्वेषणं सर्वोच्चन्यायालयस्य निरीक्षणे निर्मितसमित्या कारणीयम्।
सामान्य-प्रशासनिक-त्रुटिः नास्ति एषः विषयः-
तया प्रतिपादितं यत् श्रीरामजन्मभूमि- तीर्थक्षेत्र- न्यासस्य तत्कालीन-महासचिवस्य चम्पतरायस्य न्यासिनः (ट्रस्टी) अनिलमिश्रस्य च त्यागपत्राणि (इस्तीफे) अस्य विषयस्य सङ्केताः सन्ति यत् एतद् प्रकरणं सामान्य-प्रशासनिक-त्रुटिः नास्ति, अपि तु गम्भीराणाम् अनियमिततानां वर्तते। तया आरोपः कृतः यत् न्यासस्य प्रशासनिकसंरचनायां शीर्षनियुक्तिषु च केन्द्रसर्वकारस्य भूमिका आसीत्, अतः सर्वकारः स्वकीयाद् उत्तरदायित्वात् पलायितुं न शक्नोति।
सूचनाधिकार-अधिनियमस्य (RTI) परिधेः बहिः किमर्थं स्थापितः न्यासः?
शोभा ओझा महोदया प्रश्नम् उत्थापितवती यत् न्यासं सूचनाधिकार-अधिनियमस्य परिधेः बहिः स्थापयितुम् आवश्यकता किमर्थं जाता। तया आरोपः विहितः यत् न्यासस्य अधिकांशसदस्यानां नियुक्तिः भाजपासर्वकारस्य कार्यकाले अभवत्, एतादृश्याम् स्थितौ प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि अस्मिन् विषये उत्तरं दातव्यम्। काङ्ग्रेसनेत्री पक्षं कृतवती यत् राममन्दिरसम्बद्धस्य कथित- भ्रष्टाचारस्य सन्दर्भे बह्व्यः गुप्तचर-आख्याः प्रधानमन्त्रिणं प्रति प्रेषिताः, परन्तु तासाम् उपरि कापि कार्यविधि: न कृता। तया कथितं यत् भगवान् श्रीरामः कोटिशः जनानाम् आस्थायाः केन्द्रम् अस्ति, तस्य नाम्नि सङ्गृहीतस्य धनस्य दुरुपयोगस्य आरोपाणां निष्पक्षान्वेषणं देशहिताय जनभावनानां सम्मानाय च अतीव आवश्यकं वर्तते।
