SHRIKHAND YATRA – श्रीखण्डयात्रां प्रति पूर्णप्रतिबन्धः, धारा १६३ (163) प्रवृत्ता इति सूचना
हिमसंस्कृतवार्ता: — रामपुरम्।
श्रीखण्डयात्रां (Shrikhand Yatra) प्रति प्रशासनेन पूर्णरूपेण प्रतिबन्धः स्थापितः अस्ति। एतस्य प्रतिबन्धस्य अभावेऽपि श्रीखण्डयात्रां कर्तुं स्थानीयजनाः गूढरूपेण (चोरी-छिपे) ‘गानवी-फाञ्चा’ इति पथमार्गेण गच्छन्तः सन्ति। एतादृश्यां स्थितौ कस्यापि दुर्घटनायाः (हादसा) सम्भावना सदैव वर्तते। क्षेत्रे सुरक्षादृष्ट्या ‘धारा १६३’ (BNS भारतीय नागरिक सुरक्षा संहितायाः धारा १६३, या पूर्वं CRPC धारा १४४ आसीत्) प्रवृत्ता इति सूचना प्राप्ता अस्ति। सुदीर्घकालात् स्थानीयजनैः अस्मात् एव क्षेत्राद् श्रीखण्डयात्रां प्रारब्धुं निरन्तरं याचना क्रियते स्म।
ग्रामपञ्चायतस्य उपप्रधानेन दत्ता सूचना
ग्रामपञ्चायतस्य उपप्रधानेन सुभाषमहोदयेन ज्ञापितं यत् प्रशासनस्य आधिकारिक-आदेशानुसारं क्षेत्रे यात्रां विधातुं पूर्णतया निषेधः (प्रतिबन्धः) विहितः अस्ति। तेन जनसामान्यं प्रति आग्रहितं यत् कोऽपि जनः नियमावहेलनां कृत्वा यात्रां न करोतु, यतोहि आरक्षिबलेन (पुलिस) प्रशासनस्य अधिकारिभिः च क्षेत्रे तीक्ष्णं निरीक्षणं क्रियते। नियमोल्लङ्घनं कुर्वतां विरुद्धं वैधानिकी कार्यविधि: अपि विधास्यते। ऋतुप्रतिकूलत्वात् मार्गस्य दुरवस्थायाश्च कारणात् एषः निर्णयः जनसुरक्षायै अतीव आवश्यकः आसीत्।
