HP EDUCATION – सी.बी.एस.ई.-विद्यालयेषु शिक्षकाणां नियुक्तौ सर्वकारेण स्थितिः स्पष्टीकृता, एषः क्रमः अङ्गीकरिष्यते
हिमसंस्कृतवार्ता: – शिमला।
प्रदेशस्य सी.बी.एस.ई.-प्रारूपयुक्तेषु सर्वकारीयविद्यालयेषु शिक्षकाणां नियुक्तिं परितः प्रचलन्तीनां सर्वेषां तर्काणाम् उपरि शिक्षामन्त्रिणा रोहितठाकुरेण विरामः स्थापितः। तेन स्पष्टशब्दैः उक्तं यत् सर्वकारस्य पक्षः पूर्णतया स्पष्टः अस्ति तथा च सी.बी.एस.ई.-विद्यालयेषु नियुक्तिः केवलं योग्यता-सूच्याः (मैरिट) आधारेणैव भविष्यति। मुख्यमन्त्रिणः अनुमत्याः प्राप्स्यमाने एव नियुक्तिप्रक्रिया आरप्स्यते।
गुरुवासरे राज्यसचिवालये पत्रकारैः सह सम्भाषणकाले शिक्षामन्त्रिणा प्रोक्तं यत् सी.बी.एस.ई.-विद्यालयानां कृते सङ्घटिताया: चतुःसदस्यात्मकायाः मन्त्रिमण्डल-उपसमित्याः (कैबिनेट सब-कमेटी) उपवेशने गृहीताः निर्णयाः अधुना मुख्यमन्त्रिणः सम्मुखं उपस्थापयिष्यन्ते। यदि आवश्यकता भविष्यति तर्हि एते प्रस्तावाः मन्त्रिमण्डले (कैबिनेट) अपि आनेष्यन्ते। तेन कथितं यत् सर्वकारपक्षतः कृताम् एतां सम्पूर्णां प्रक्रियां उच्चन्यायालयः अपि योग्याम् अमन्यत।
रोहितठाकुरेण ज्ञापितं यत् १५० प्रधानाचार्याणां (प्रिंसिपलों) नियुक्तये सूची सज्जीकृता अस्ति तथा च प्रायः ९५ प्रतिशतं प्राचार्याः स्वमनोऽनुकूलान् विद्यालयान् अपि निश्चितवन्तः। मुख्यमन्त्रिणः स्वीकृतेः अनन्तरं सर्वप्रथमं प्राचार्याणां तदनन्तरं योग्यता-सूच्याः आधारेण शिक्षकाणां नियुक्तयः आरप्स्यन्ते। तेन उक्तं यत् सी.बी.एस.ई.-विद्यालयेषु नवीनानां नियुक्तिनां पश्चात् वर्तमानानां शिक्षकाणां स्थानान्तरणं (तबादलों) प्रति कापि समस्या न भविष्यति।
विद्यालय-विलयन-नीत्याः (मर्जर) सकारात्मकाः परिणामाः
शिक्षाविभागे प्रागेव बृहत्संख्यायां पदानि रिक्तानि सन्ति, यत्र एते शिक्षकाः समायोजयिष्यन्ते। शिक्षामन्त्रिणा पक्ष: कृतः यत् सर्वकारस्य विद्यालय-विलयन-नीत्याः सकारात्मकाः परिणामाः सम्मुखीभूताः। तेन कथितं यत् सम्पूर्णप्रदेशे प्रायः १६ सहस्रं (१६,०००) छात्राणां नवीनं नामाङ्कनं जातम्, येन स्पष्टं भवति यत् जनाः सर्वकारीय-सी.बी.एस.ई.-विद्यालयेषु विश्वासं प्रकटयन्ति।
तेन ज्ञापितं यत् अस्मिन् वर्षे पञ्चभ्यः न्यूनच्छात्रसंख्यायुक्ताः ३० तः ३५ विद्यालयाः पिहिताः (बंद किए गए), यदा तु निर्धारितदूरीं तथा अत्यल्प-छात्रसंख्यां वीक्ष्य ६० तः ७० विद्यालयानां विलयनं कृतम्। प्रायः ३५ तादृशाः विद्यालयाः आसन्, यत्र एकोऽपि छात्रः नामाङ्कितः नासीत्, ते अपि पिहिताः।
विद्यालयेषु ‘अतिथिभोजः’ एका उत्तमा प्रचेष्टा
शिक्षामन्त्रिणा रोहितठाकुरेण ज्ञापितं यत् सर्वकारीयविद्यालयेषु अधुना ‘अतिथिभोजस्य’ नवीना प्रचेष्टा (पहल) अपि आरभ्यते। अस्य अन्तर्गतं कश्चिद्पि जनः विवाहे, जन्मोत्सवे, सेवानिवृत्तौ अथवा अन्येषु शुभप्रसङ्गेषु विद्यालये छात्रेभ्यः पौष्टिकभोजनस्य प्रायोजनं (स्पॉन्सर) कर्तुं शक्ष्यति।
गुणात्मकशिक्षायै प्रवर्तिष्यते ‘जम्मू-प्रतिदर्शः’
जम्मू-कश्मीरस्य सद्यस्तनस्य अध्ययनयात्रायाः उल्लेखं कुर्वन् शिक्षामन्त्री अवदत् यत् तत्रत्यस्य शिक्षाप्रारूपस्य गहनम् अध्ययनं विहितम्। दूरस्थक्षेत्रेषु एकवर्षाय शिक्षकाणां नियुक्तिः तथा च मण्डलस्तरे (जिला स्तर) अन्तर्जालमाध्यमेन (ऑनलाइन) विद्यालय-निरीक्षणसदृश्यः व्यवस्थाः प्रभावशालिन्यः सन्ति। एतेषां प्रारूपाणाम् उपयोगात्मिकाः व्यवस्थाः शीघ्रमेव हिमलाचलेऽपि प्रवर्तिताः कर्तुं दिशायां कार्यं विधास्यते।
