सनातनसंस्कृति-सामाजिकसेवयोः सङ्गमस्थलम् अभवत् घुग्घर-कालीबाडी-महोत्सवः
भारतीय जन सेवा संस्था इत्यस्याः तत्त्वावधाने पालमपुरसमीपे स्थितस्य घुग्घर-कालीबाडी-मन्दिरस्य प्राङ्गणे आयोजितस्य सप्तदिवसात्मकस्य सहस्रचण्डीमहायज्ञस्य, विष्णुसहस्रनामपाठस्य, होमात्मकरुद्रीपाठस्य च भव्ये आध्यात्मिके च वातावरणे सफलतापूर्वकं समापनम् अभवत्। अस्मिन् ऐतिहासिके महानुष्ठाने क्षेत्रेण सह प्रदेशस्य विभिन्नेभ्यः भागेभ्यः समागताः सहस्रशः श्रद्धालवः सम्मिलिताः भूत्वा जनकल्याणाय विश्वकल्याणाय च कामनां कृतवन्तः।
संस्थायाः अध्यक्षः अनिल गौडः अवदत् यत् इमं सप्तदिवसात्मकं धार्मिकम् आयोजनं १२१ विद्वद्भिः पण्डितैः प्रमुखाचार्यस्य श्रीबालकराममहोदयस्य मार्गदर्शने निर्देशने च सम्पन्नं कारितम्। सः अकथयत् यत् भारतीय जन सेवा संस्था समये-समये समाजकल्याणाय जनजागरणाय च सम्बद्धान् विविधान् कार्यक्रमान् आयोजयति। संस्थया मादकद्रव्याणां (नशा) दुष्प्रभावाणां प्रति जनजागरूकता-अभियानम्, वरिष्ठनागरिकसम्मानः, तिरङ्गयात्रा, योगसंस्कृतेः संवर्धनं तथा वृक्षारोपणम् इत्यादयः अनेके सामाजिकाः विषयाः निरन्तरं क्रियन्ते।
सः इदमपि सूचितवान् यत् संस्था निकटभविष्ये पालमपुरनगरे एकां डायग्नोस्टिक मेडिकल लैब (चिकित्सीय परीक्षणशालाम्) स्थापयितुं गच्छति, यत्र जनानां विविधाः चिकित्सीयपरीक्षाः केवलं न्यूनतममूल्ये उपलब्धाः भविष्यन्ति, येन सामान्याः जनाः स्वास्थ्यपरीक्षणेषु अतिरिक्तम् आर्थिकभारं वोढुं न प्राप्नुयुः।
संस्थायाः सचिवः विजय शर्मा अवदत् यत् अस्मिन् विराति धार्मिकायोजने प्रायः पञ्चसहस्रं श्रद्धालवः यजमानरूपेण भागं गृहीत्वा जनकल्याणाय विश्वशान्तये च प्रार्थनां कृतवन्तः। सः अवदत् यत् ६ दिनाङ्के कालीबाडीमन्दिरे भव्यायाः महाआरार्त्रिक्याः (महारत्याः) आयोजनम् अपि कृतम्, यस्मिन् भगवत्यै ५६ प्रकाराणां नैवेद्यानि (छप्पन भोग) अर्पितानि।
संस्थायाः कोषाध्यक्षौ शैलेन्द्र मैनी, सन्दीप शर्मा च अवदताम् यत् एतत् सम्पूर्णम् आयोजनं सर्वसामान्यजनानां सहयोगेन सर्वसामान्यजनेभ्यः एव आयोजितम् आसीत्। अस्य उद्देश्यं समाजे वैदिकपरम्पराणां संस्काराणां च सुदृढीकरणं तथा आगामिपुरुषाणाम् (भाविपीढ्याः) भारतीयसंस्कृत्या सनातनमूल्यैः च सह संलग्रीकरणम् अस्ति।

संस्थायाः कार्यकर्तारौ अनिल नागः, वीरेन्द्र शर्मा च अकथयताम् यत् संस्थायाः मूलमुद्देश्यं सनातनधर्मस्य उन्नतिः, सामाजिकसमरसतायाः संवर्धनं तथा समाजस्य प्रत्येकं वर्गं एकत्र मञ्चे आनीय एकतायाः सद्भावस्य च सन्देशप्रदानम् अस्ति।
अस्मिन् महानुष्ठाने पालमपुरस्य विधायकः आशीष बुटेलः, राज्यसभासांसदः अनुराग शर्मा, सुलह-विधानसभाक्षेत्रस्य विधायकः विपिन परमारः, पालमपुरस्य पूर्वविधायकः प्रवीण शर्मा, सतीश करवलः, अजय शर्मा, कुलपतिः जे.के. शर्मा, सञ्जीव शर्मा, अनूप शर्मा, अमन शर्मा, पूनम, सुरेशः, लता अवस्थी, अनीता शर्मा, अञ्जना शर्मा, कुमुदिनी, बिन्दु शर्मा इत्यादयः अनेके गणमान्याः महानुभावाः श्रद्धालवः च सोत्साहं भागं गृहीतवन्तः।
कार्यक्रमस्य समापनप्रसङ्गे संस्थायाः पक्षतः श्रीरजनीश अवस्थी महोदयः मुद्रण-इलेक्ट्रॉनिक-माध्यमैः (प्रिंट एवं इलेक्ट्रॉनिक मीडिया) सम्बद्धानां सर्वेषां पत्रकारबन्धूनां जनसामान्यानां च कृतज्ञतां ज्ञापयन् अवदत् यत् एतेषाम् एव सहयोगेन सहभागितया च एतत् ऐतिहासिकं सफलं च आयोजनं सम्भवम् अभवत्।
हिमसंस्कृतवार्ता
रजनीश अवस्थी
सनातनसंस्कृति-सामाजिकसेवयोः सङ्गमस्थलम् अभवत् घुग्घर-कालीबाडी-महोत्सवः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
