धार्मिककार्यक्रमाणां नाम्ना मार्गावरोधः न करणीयः – सर्वोच्चन्यायालयः
सर्वोच्चन्यायालयः अवदत् यत् धार्मिकगतिविधीनां नाम्ना सार्वजनिकमार्गाः अवरोद्धाः न शक्यन्ते। शीर्षन्यायालयेन उक्तं यत् यदि नागरिकाणां सामान्याः गतिविधयः बाधिताः भवन्ति, तर्हि सर्वकारः हस्तक्षेपं कर्तुं शक्नोति। मुख्यन्यायाधीशस्य सूर्यकान्तस्य अध्यक्षतायां नव-न्यायाधीशानां संविधानपीठेन केरलस्य शबरीमाला-मन्दिरसहितं पूजास्थलेषु धार्मिकस्वतन्त्रतायाः क्षेत्रं तथा महिलाभिः सह भेदभावसम्बद्धानां याचिकानां श्रवणकाले एषा टिप्पणी कृता।
न्यायालयेन स्पष्टीकृतं यत् धार्मिकसमुदायेभ्यः पूजाविधिषु स्वायत्तता अस्ति, किन्तु एषा स्वायत्तता सार्वजनिकव्यवस्थां वा नागरिकाणां आवश्यककार्याणि वा बाधितुं न प्रभवति। न्यायमूर्तिः बी.वी. नागरत्ना उक्तवती यत् धार्मिकआयोजनेषु सार्वजनिकमार्गाणां पिधानं न उचितम्, राज्यं च तादृश्यां स्थितौ हस्तक्षेपं कर्तुं शक्नोति। पीठेन उक्तं यत् न्यायालयाः पूजापद्धतौ निर्णयं दातुं न शक्नुवन्ति, परन्तु यदा नागरिकाणाम् अधिकाराः प्रभाविताः भवन्ति, तदा हस्तक्षेपः अनिवार्यः भवति।
धार्मिककार्यक्रमाणां नाम्ना मार्गावरोधः न करणीयः – सर्वोच्चन्यायालयः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
