By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP ELECTION UPDATES- हिमाचलप्रदेशे नगर-निकायानां नगरनिगमानां च निर्वाचनस्य घोषणा, आचारसंहिता प्रवृत्ता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > HP ELECTION UPDATES- हिमाचलप्रदेशे नगर-निकायानां नगरनिगमानां च निर्वाचनस्य घोषणा, आचारसंहिता प्रवृत्ता
राष्ट्रीयवार्ताः

HP ELECTION UPDATES- हिमाचलप्रदेशे नगर-निकायानां नगरनिगमानां च निर्वाचनस्य घोषणा, आचारसंहिता प्रवृत्ता

डॉ.अमनदीप शर्मा
Last updated: 2026/04/22 at 6:40 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

HP ELECTION UPDATES- हिमाचलप्रदेशे नगर-निकायानां नगरनिगमानां च निर्वाचनस्य घोषणा, आचारसंहिता प्रवृत्ता
हिमसंस्कृतवार्ता:- शिमला।हिमाचलप्रदेशस्य ५१ नगर-निकायानां निर्वाचनानि १७ मई २०२६ दिनाङ्के भविष्यन्ति। राज्य- निर्वाचन- आयुक्तः अनिलखाची महोदयः मङ्गलवासरे चतुर्णां नगरनिगमानां (सोलन- मण्डी- धर्मशाला- पालमपुराणां) सहितानां ४७ नगरपञ्चायत- नगरपरिषदां च निर्वाचन-तिथीनां घोषणां कृतवान्। अनेन सहैव नगर-निकायेषु आचारसंहिता प्रवृत्ता जाता। अस्मिन् अन्तराले ४ नगरनिगमेषु, २५ नगरपरिषत्सु च निर्वाचनानि भविष्यन्ति। राज्य-निर्वाचन-आयुक्तः अनिलखाची शिमलायां संवाददातृसम्मेलने उक्तवान् यत् नगरनिगमैः सह २२ नगरपञ्चायतेषु अपि मतदानानि भविष्यन्ति। एतेषु १,८०,९६३ पुरुषाः तथा १,७९,८८२ महिलाः स्वमतस्य प्रयोगं करिष्यन्ति। १८ वर्षदेशीयाः १८०८ नूतनाः मतदातारः सन्ति ये प्रथमतया मतदानं करिष्यन्ति। कोऽपि मतदाता ‘सारथी’ एप- माध्यमेन स्वस्य स्वपरिवारस्य च नाम द्रष्टुं शक्नोति।
नामाङ्कनपत्राणि २९, ३० अप्रैल तथा २ मई (अपराह्णे ३ वादनपर्यन्तं) पूरयितुं शक्यन्ते। तेषां परीक्षणं ४ मई दिनाङ्के प्रातः १० वादने भविष्यति। नामाङ्कन-प्रत्याहरणस्य समयः ६ मई (प्रातः १० तः अपराह्णे ३ वादनपर्यन्तं) निश्चितः अस्ति। प्रत्याहरणानन्तरं तस्मिन्नेव समये निर्वाचन-चिह्नानि प्रदास्यन्ते। मतदान-केन्द्राणां सूची-प्रकाशनं २९ अप्रैल दिनाङ्के करणीयम्, यदा तु १७ मई दिनाङ्के प्रातः ७ वादनतः अपराह्णे ३ वादनपर्यन्तं मतदानं भविष्यति। नगरपञ्चायत-नगरपरिषदां मतगणना तस्मिन्नेव दिने भविष्यति, किन्तु चतुर्णां नगरनिगमानां मतगणना ३१ मई दिनाङ्के भविष्यति। अनिल-खाची महोदयः उक्तवान् यत् निगम- निर्वाचन- प्रत्याशी अधिकतमम् एकलक्षं (१,००,०००) रूप्यकाणि, नगरपरिषद्-प्रत्याशी ७५ सहस्ररूप्यकाणि तथा नगरपञ्चायत-प्रत्याशी ५० सहस्ररूप्यकाणि यावत् व्ययं कर्तुं शक्नुवन्ति।
२७ अप्रैल दिनाङ्कात् पश्चात् एव भविष्यति पञ्चायतीराज- निर्वाचनस्य घोषणा
अपरपक्षे, पञ्चायतीराज-संस्थानां कृते २७ अप्रैल दिनाङ्के मतदाता-सूची अन्तिमा भविष्यति। अतः सम्भावना अस्ति यत् तदनन्तरमेव पञ्चायतीराज- संस्थानां निर्वाचनानां घोषणा भवेत्। सम्प्रति केवलं नगर-निकायानां निर्वाचनानां घोषणा कृता।
३१ मई पर्यन्तं मुख्यालयं त्यक्तुं न शक्ष्यन्ति जिलाधीशाः उपमण्डलाधिकारिण: च
स्थानीय-निकाय-निर्वाचनानां घोषणानन्तरं राज्य- निर्वाचन-आयोगेन प्रदेशस्य सर्वे उपायुक्ताः (DC), उपमण्डलाधिकारिणः (SDM), जनपद- पञ्चायत- अधिकारिणः खण्डविकास- अधिकारिणश्च स्व-स्व-मुख्यालयेषु उपस्थिताः भवितुम् आदिष्टाः। आयोगेन स्पष्टीकृतं यत् विना अनिवार्य-कारणैः कोऽपि अधिकारी मुख्यालयं न त्यक्ष्यति। एषः निर्देशः उच्चतम-न्यायालयस्य तस्य आदेशस्य आधारेण दत्तः, यस्मिन् नगरनिकायानां पञ्चायतीराज-संस्थानां च सङ्घटनम् ३१ मई पर्यन्तं सुनिश्चितं कर्तुं कथितम् अस्ति।

You Might Also Like

उत्तरप्रदेश- संस्कृत- संस्थानस्य आवासीय- दशदिवसीयः पौरोहित्य- प्रशिक्षणकार्यक्रमः सफलतया सम्पूर्णः

डॉ. मोहन भागवत: ‘प्रणव’ इति संस्कृतभारत्याः नूतनकार्यालयस्य उद्घाटनं कृतवान्

बालभारती-पब्लिक-विद्यालयस्य दार्लिपाली-क्षेत्रे अद्भुतं शैक्षिकं सफलम्

पश्चिम-एशिया-संकटस्य मध्ये सर्वकारेण देशे गार्हस्थ्य-LPG-पूर्तिः सुनिश्चिता

कराधानं राज्य-नागरिकयोः मध्ये विश्वासस्य सेतुः : राष्ट्रपतिः द्रौपदी मुर्मु

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article उत्तरप्रदेश- संस्कृत- संस्थानस्य आवासीय- दशदिवसीयः पौरोहित्य- प्रशिक्षणकार्यक्रमः सफलतया सम्पूर्णः
Next Article ३० जून पर्यन्तं सीबीएसई- विद्यालयेषु भविष्यति शिक्षकाणां नियुक्तिः- मुख्यमंत्री सुक्खुः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?