वैश्विक-अनिश्चिततायाः अनन्तरमपि भारतस्य विकास-सम्भावनाः सुदृढाः : आईएमएफ (IMF)
अन्तर्राष्ट्रीय-मुद्रा-कोषस्य (IMF) मुख्य-अर्थशास्त्री पियरे ओलिवियर गौरिंचास महोदयः उक्तवान् यत् पश्चिम-एशिया-सङ्घर्षकारणात् वैश्विक-अनिश्चिततायां वृद्धौ सत्यामपि भारतस्य विकास-सम्भावनाः सुदृढाः वर्तन्ते।
माध्यमैः सह वार्तालापं कुर्वन् गौरिंचासः अवदत् यत् भारतेन २०२५ तमे वर्षे उत्तमं प्रदर्शनं कृतम्, येन विकासदरः ७.६ प्रतिशतं भविष्यति इति अनुमानम् अस्ति। २०२६ तमे वर्षे एषः दरः प्रायः ६.५ प्रतिशतं भवितुम् अर्हति।
तथापि सः चेतावनीं दत्तवान् यत् वैश्विक-ऊर्जा-मूल्येषु वृद्धेः तथा खाद्यपदार्थानां वर्धमान-व्ययस्य कारणात् २०२६ तमे वर्षे मुद्रास्फीतिः (Inflation) प्रवर्ध्य प्रायः ४.७ प्रतिशतं भवितुं शक्नोति।
वैश्विक-अनिश्चिततायाः अनन्तरमपि भारतस्य विकास-सम्भावनाः सुदृढाः : आईएमएफ (IMF)
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
