मथुरा-लुधियाना-नगरस्य नव पर्यटकानां मृत्युः, स्टीमर-नौकायाः विपर्ययेन अभवत् भीषणं दुर्घटनम्
मथुरा। उत्तरप्रदेशस्य मथुराजनपदस्य वृन्दावनक्षेत्रे शुक्रवासरे अपराह्णे यमुनानद्यां त्रिंशत् (30) पर्यटकानां भारवहा ‘स्टीमर’-नौका विपर्यस्ता अभवत्। अस्मिन् दुर्घटने नव पर्यटकानां निमज्जनकारणतः मृत्युः अभवत्। मृतेषु षट् महिलाः त्रयः पुरुषाः च सन्ति। मथुरायाः जिलाधिकारी चन्द्रप्रकाश सिंहः एतस्य पुष्टिं कृतवान्। नौकायां सवारः सर्वे पर्यटकाः पञ्जाबराज्यतः भ्रमणार्थम् आगताः आसन्।
आरक्षक-सूत्रैः ज्ञातं यत् एषा दुर्घटना अपराह्णे पादोन-त्रिवादने ‘केसी-घट्टे’ अभवत्, यत् श्रीबांकेविहारीमन्दिरात् सार्ध-द्वि-किलोमीटर दूरे अस्ति। SDRF तथा NDRF दलानां सैनिकाः घटनास्थले बचाव-राहतकार्ये संलग्नाः सन्ति, येषां साहाय्यं स्थानीय-आरक्षकाः पञ्चाशत् (50) निमज्जकाः (divers) च कुर्वन्ति। गुलाब-नामकः निमज्जकः अवदत् यत् निमग्नाः पञ्चदश (15) जनाः सुरक्षितं बहिः निष्कासिताः।
एकः पीडितः पर्यटकः अवदत् — “वयं सर्वे जगराओं (लुधियाना) नगरात् आगताः स्मः। वायुः वेगेन वहति स्म। यमुनायाः मध्ये तीव्रवायुना नौका अकस्मात् डगमगायमाना अभवत्। तस्याः गतिः अपि वर्धिता। तदैव सा नौका ‘पीपा-सेतुना’ सह संघट्ट्य विपर्यस्ता अभवत्।”
मथुरा-ः लुधियाना-नगरस्य नव पर्यटकानां मृत्युः, स्टीमर-नौकायाः विपर्ययेन अभवत् भीषणं दुर्घटनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
