दशमवर्गोत्तरं विद्यार्थिनां श्रेष्ठः विकल्पः –
(अर्जुन शास्त्री) स्वामी विवेकानन्द कनिष्ठमहाविद्यालयः, जळगाव
जळगाव : दशमवर्गस्य अध्ययनानन्तरं विद्यार्थिनां भवितव्यस्य दृष्ट्या योग्यस्य महाविद्यालयस्य चयनं अत्यन्तं महत्त्वपूर्णं भवति। जळगाव-नगरे प्रसिद्धायाः KCE Society संस्थायाः अन्तर्गतं कार्यरतं तथा Moolji Jaitha College संलग्नं Swami Vivekananda Junior College, Jalgaon इति कनिष्ठमहाविद्यालयं गुणवत्तापूर्णशिक्षणप्रदाने अग्रगण्यं संस्थानं इति ख्यातम् अस्ति।
अस्मिन् महाविद्यालये कला (Arts), वाणिज्य (Commerce) तथा विज्ञान (Science) इत्येषु त्रिषु शाखासु अध्ययनसुविधा उपलब्धा अस्ति। अनुभवी-निपुण-शिक्षकवर्गः, आधुनिकाध्यापनपद्धतयः तथा विद्यार्थिनां सर्वाङ्गीणविकासाय प्रदीयमानः विशेषः प्रयासः इत्येतैः कारणैः अस्य महाविद्यालयस्य प्रति विद्यार्थिनां विशेषा रुचिः दृश्यते।
महाविद्यालयस्य शैक्षणिकफलम् सर्वदा उत्कृष्टं दृश्यते। विशेषतया संस्कृत, IT, गणित, अकाउन्ट इत्यादिषु विषयेषु बहवः विद्यार्थी १०० मध्ये १०० अंकान् प्राप्य उल्लेखनीयम् यशः सम्पादितवन्तः। अपि च जळगाव-जिल्हायाः विविधशाखानां परिणामेषु अस्य महाविद्यालयस्य विद्यार्थी प्रायः प्रथमस्थानं प्राप्नुवन्ति। प्रतिवर्षं च अनेकाः विद्यार्थी मेरिट्-सूच्यां स्थानं लभन्ते।
क्रीडाक्षेत्रे अपि महाविद्यालयेन प्रशंसनीया सिद्धिः प्राप्ता अस्ति। विविधासु स्पर्धासु विद्यार्थिनः उत्कृष्टं प्रदर्शनं कृत्वा प्रथमस्थानानि प्राप्तवन्तः। संस्कृतविषये उत्कृष्टफलप्राप्तेः कारणात् प्रतिवर्षं बहवः विद्यार्थी Rashtriya Sanskrit Sansthan, New Delhi संस्थायाः मेधावी-छात्रवृत्तेः पात्रतां लभन्ते।
संस्थायाः अध्यक्षः नन्दकुमार बेंडाळे महोदयः प्रज्ञावान् दूरदर्शी च नेतृत्वं ददाति। महाविद्यालयस्य प्राचार्यः डॉ. एस. एन. भारंबे , उपप्राचार्यः प्रा. आर. बी. ठाकरे, पर्यवेक्षिका प्रा. स्वाती बर्हाटे, समन्वयकः प्रा. उमेश पाटील च एतेषां मार्गदर्शनेन महाविद्यालयं शैक्षणिक, क्रीडा तथा सांस्कृतिकक्षेत्रेषु निरन्तरं प्रगतिं साधयति।
जळगाव-नगरे तथा समग्रे खान्देशप्रदेशे अपि अस्य महाविद्यालयस्य गुणवत्तापूर्णशिक्षणेन विशिष्टं स्थानं निर्मितम् अस्ति। अतः दशमवर्गोत्तरशिक्षणाय स्वामी विवेकानन्द कनिष्ठमहाविद्यालयं, जळगाव इति कला, वाणिज्य, विज्ञानशाखानां विद्यार्थिनां कृते विश्वासार्हः तथा उत्तमः विकल्पः मन्यते।
स्वामी विवेकानन्द कनिष्ठमहाविद्यालयः,जळगाव: दशमवर्गोत्तरं विद्यार्थिनां श्रेष्ठः विकल्पः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
