केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः- २०३१ पर्यन्तं १० अर्ब डॉलर परिमितं हस्तशिल्प-निर्यात-लक्ष्यम्
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः उक्तवान् यत् सर्वकारेण २०३१ पर्यन्तं १० अर्ब डॉलर परिमितस्य हस्ततन्तु (Handloom) निर्यातस्य लक्ष्यं निर्धारितम् अस्ति। नवदिल्ल्यां राष्ट्रिय-हस्ततन्तु-विकास-निगमस्य (NHDC) ४३ तमे स्थापनादिवसे श्रीसिंहः आजीविकायाः संरक्षणे तथा स्वदेशी-उत्पादन-प्रणालीनां प्रवधने हस्ततन्तुक्षेत्रस्य महत्त्वपूर्णभूमिकायाः उल्लेखं कृतवान्। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशस्य हस्ततन्तुक्षेत्रं ‘वैश्विक-आन्दोलने’ परिवर्तितं भवति। श्रीसिंहः राष्ट्रिय-निर्माणं सुदृढीकर्तुं तथा नागरिकान् स्वदेशी-वस्त्राणां समर्थनाय प्रोत्साहितुं सर्वकारस्य दृष्टिकोणं पुनः प्रतिपादितवान्। अस्मिन् अवसरे श्रीसिंहः एकस्याः विशेष-हस्ततन्तु-प्रदर्शिन्याः अपि उद्घाटनं कृतवान्, या आगामि-मासस्य २ दिनाङ्क पर्यन्तं चलिष्यति। सः NHDC संस्थायाः भाविनि-योजनानां रूपरेखां प्रस्तूय तन्तुवाय-समुदायस्य (बुनकर) सक्तीकरणे निगमस्य निरन्तर-प्रयासानां प्रशंसां कृतवान्।
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः- २०३१ पर्यन्तं १० अर्ब डॉलर परिमितं हस्तशिल्प-निर्यात-लक्ष्यम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
