भूतपूर्व-रेलमन्त्री, राज्यसभा-सांसदः च मुकुलरायः दिवङ्गतः; प्रधानमन्त्रिणा गृहमन्त्रिणा च शोकः प्रकटितः
प्रधानमन्त्री नरेन्द्र मोदी भूतपूर्व-रेलमन्त्रिणः मुकुलरायस्य निधने गभीरं दुःखं व्यक्तवान्। ‘सोशल मीडिया’ सन्देशे सः अवदत् यत् मुकुलरायः स्वस्य राजनैतिकानुभवाय समाजसेवा-प्रयासेभ्यः च सदैव स्मरिष्यते। गृहमन्त्री अमित शाहः अपि मुकुलरायस्य परिवारं प्रति स्वसंवेदनां प्रकटितवान्। मुख्यमन्त्री ममता बनर्जी एकस्मिन् सन्देशे उक्तवती यत् सः पश्चिमबङ्गालस्य राजनीति-क्षेत्रे स्वयोगदानाय ‘साङ्गठनिक-कौशलाय’ च स्मर्तव्यः भविष्यति।पश्चिमबङ्गालस्य विपक्षनेता शुभेन्दु अधिकारी, केन्द्रीयराज्यमन्त्री डॉ. सुकान्त मजुमदारः, काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन खरगे च अपि मुकुलरायस्य निधने गभीरं शोकं प्रकटितवन्तः।दीर्घकालात् स्वास्थ्यसम्बन्धि-समस्याभिः युध्यमानः मुकुलरायः गतदिने प्रातःकाले कोलकातायाः एकस्मिन् निजी-चिकित्सालये अन्तिमं श्वासं गृहीतवान्। तस्य पार्थिवशरीरं विधानसभा-भवनं नीतम्।विधानसभा-अध्यक्षः बिमान बन्द्योपाध्यायः अन्ये विधायकाः च तस्मै श्रद्धाञ्जलिं समर्पितवन्तः। तदनन्तरं तस्य शरीरं ‘उत्तर २४ परगना’ जनपदे काँचरापाड़ा-स्थितं तस्य ‘घटक पुकुर’ आवासं प्रति नीतम्।
भूतपूर्व-रेलमन्त्री, राज्यसभा-सांसदः च मुकुलरायः दिवङ्गतः; प्रधानमन्त्रिणा गृहमन्त्रिणा च शोकः प्रकटितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
