By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारत्याः पूर्वोत्तरक्षेत्रस्य चिन्तनगोष्ठी प्रयागे सम्पन्ना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतभारत्याः पूर्वोत्तरक्षेत्रस्य चिन्तनगोष्ठी प्रयागे सम्पन्ना
संस्कृतगतिविधयः

संस्कृतभारत्याः पूर्वोत्तरक्षेत्रस्य चिन्तनगोष्ठी प्रयागे सम्पन्ना

डॉ.अमनदीप शर्मा
Last updated: 2026/01/19 at 9:42 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

संस्कृतभारत्याः पूर्वोत्तरक्षेत्रस्य चिन्तनगोष्ठी प्रयागे सम्पन्ना

वार्ताहर: आचार्यदीनदयालशुक्ल:

प्रयागराज। पूर्वोत्तरप्रदेशक्षेत्रस्य संस्कृतभारत्या अतीव प्रमुखा वैचारिकदृष्ट्या प्रखरा दिशाबोधिका च गोष्ठी सगौरवम् आयोजिता अभवत्। अस्याः बौद्धिकसमवेतायाः प्रधानं लक्ष्यं संस्कृतभाषायाः संरक्षणाय संवर्धनाय सार्वजनीनप्रसाराय च दीर्घकालिकीं सुनियोजितां क्रियान्वयनयोग्यां च कार्यनीतिं निर्मातुम् आसीत्। अवसरेऽस्मिन् उपस्थिताः विद्वज्जनाः सङ्घटनस्य दायित्वधारिणश्च संस्कृतं कथं पुनः लोकजीवनस्य प्राणभूता भाषा भवेत् इति विषये गभीरं चिन्तितवन्तः।

गोष्ठ्यां सर्वसम्मतः अयं मतः प्राकट्यं गतः यत् संस्कृतं केवलं शास्त्रीयग्रन्थेषु अकादमिकपरिसरेषु औपचारिकेषु अध्ययनेषु वा सीमयितुं तस्याः गौरवान्वितपरम्परास्वरूपेण सह अन्यायः भविष्यति। आवश्यकता तु इयमस्ति यत् संस्कृतं व्यावहारिकजीवनेन सामाजिकसंवादेन सांस्कृतिकचेतनया नैतिकमूल्यैः आधुनिकविज्ञानेन तान्त्रिकमाध्यमैश्च सह समन्वयं साधयित्वा जनमानसेन योजनीयम्। संस्कृतशिक्षणस्य सहजाः संवादप्रधानाः आकर्षिकाश्च पद्धतयः बालकयुवकेन्द्रितानि संस्कारात्मकानि अभियानानि संस्कृतसम्भाषणशिबिराणि तथा ग्रामनगरस्तरेषु संस्कृतसंस्कारकेन्द्राणां स्थापनं विस्तारश्च इत्येतेषु विषयेषु गहनो विमर्शो जातः।

संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्रिणः जयप्रकाशगौतमवर्याणां कुशले दूरदर्शिनि प्रेरणादायिनि च नेतृत्त्वे आयोजितायाम् अस्यां वैचारिकगोष्ठ्यां क्षेत्रीयसङ्गठनमन्त्री पण्डितप्रमोदः पूर्वोत्तरप्रदेशस्य क्षेत्रीयसम्पर्कप्रमुखः जितेन्द्रप्रतापसिंह: अवधप्रान्तस्य अध्यक्षः चन्द्रभूषणत्रिपाठि: कर्णपुरप्रान्तस्य मन्त्री डॉ.रत्नेशत्रिवेदि:, अध्यक्षः प्रो.रामनारायणद्विवेदि: मन्त्री नागेशपाण्डेय: काशीप्रान्तस्य सहमन्त्री सालिगरामत्रिपाठिश्चेत्येतेषां दायित्वधारिणाम् उल्लेखनीया सार्थका सक्रिया च सहभागिता आसीत्। सर्वे दायित्वधारिणः पूर्वोत्तरप्रदेशक्षेत्रस्य आगामिकार्ययोजनासु सङ्घटनपुनर्निर्माणे कार्यकर्तृप्रशिक्षणे जनसम्पर्कसुदृढीकरणे संस्कृतस्य जनान्दोलनस्वरूपप्रदाने च सम्बद्धेषु विषयेषु विस्तरेण परिचर्चितवन्तः गभीरं च विमृष्टवन्तः।

इयं गोष्ठी प्रयागे अतीव अनुशासिते सौहार्दपूर्णे वैचारिके च वातावरणे औपचारिकरूपेण सम्पन्ना अभवत् यस्याः अध्यक्षतां संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्री जयप्रकाशगौतमवर्य: अकरोत्। उपवेशनस्यान्ते उपस्थिताः सर्वे पदाधिकारिणः कार्यकर्तारश्च सङ्घटनात्मिकाम् एकात्मतां भूयो दृढीकर्तुं संस्कृतभारत्याः उद्देश्यानि समाजस्य अन्तिमजनं यावत् प्रापयितुं संस्कृतस्य पुनर्जागरणञ्च राष्ट्रीयचेतनायाः अभिन्नम् अङ्गं निर्मातुं सामूहिकं सङ्कल्पं व्यञ्जितवन्तः।

You Might Also Like

भक्तिवेदान्तपरिसरे दशदिवसीया संस्कृतसम्भाषणकार्यशाला सम्पन्ना

सरलमनुष्यस्य दायित्वम्

सूर्य: अस्तं गच्छति, वयम् अपि वा?।

महर्षि महेश योगी वैदिकविश्वविद्यालये धर्मगुरु-जीविका-परामर्शः

धौतवस्त्रं-करांशुकं धारयन्तः वेद-छात्राः क्रिक्रेटक्रीडां क्रीडितवन्तः , ,

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article नितिन नवीनः भारतीयजनतापक्षस्य अध्यक्षत्वेन निर्विरोधेन निर्वाचितः
Next Article “महाकविकालिदास-संस्कृतव्रती राष्ट्रियपुरस्कारस्य” घोषणा कृता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?