By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ
राष्ट्रीयवार्ताः

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

डॉ.अमनदीप शर्मा
Last updated: 2026/01/13 at 6:47 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ ।
हिमसंस्कृतवार्ता: – प्रधानन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् भारत-जर्मनी देशयोः मध्ये द्विपक्षीय व्यापारः साम्प्रतं यावत् उच्चतम-स्तरे सम्प्राप्तः। प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे महात्मामंदिरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ। भारत-जर्मनी देशौ उद्घोषितवन्तौ यत् रक्षा, व्यापार प्रविधि क्षेत्राणि, रणनीतिक सम्बन्धाः च उपवेशनात् अस्मात् अग्रे सरिष्यन्ति । रक्षा औद्योगिक-सहयोगं सुदृढ़ीकर्तुं उभौ देशौ सहविकास-सहउत्पादने च केन्द्रितं घोषणा-पत्रमेकं हस्क्षरिवन्तौ । एकं संयुक्त वार्ताहर सम्मेलनं सम्बोधयन् फ्रेडरिक मर्ज, प्रधानमन्त्री च भणिवन्तौ यत् भारत-जर्मनी देशौ केवलं आर्थिक-सहयोगिनौ न स्तः, वरन् वैश्विक शान्तये, स्थिरतायै च उभौ राष्ट्रौ प्रतिबद्धौ स्तः। अवसरेऽस्मिन् श्रीमोदी प्रतिपादितवान् यत् भारत-जर्मनी देशयोमध्ये रणनीतिक-व्यापारः उच्चतम स्तरं सम्प्राप्तः, साम्प्रतं इदं पञ्चाशत् अर्बुद्-डॉलर तः अधिकः जातः। श्रीमोदी भणितवान् यत् भारतदेशे द्वि-सहस्राधिक जर्मनी देशीय समवायाः दीर्घ-कालात् भारतदेशे कार्यरताः सन्ति। प्रधानमन्त्रिणा प्रतिपादितं यत् उभयोः देशयोः मध्ये प्राविधिक सहयोगः प्रतिवर्षं दृढ़तमः जातः। अद्य अस्य परिलक्षिता मूलाधारे अपि स्पष्ट रूपेण दरीदृश्यते । संक्षिप्त रूपेण जर्मन देशीय चांसलर-फ्रेडरिक-मर्ज वर्येण भणितं यत् उभौ देशौ स्वीय सम्बन्धाः उच्चतर-स्तरे आनेतुं प्रयासरतौ वर्तेते। इतः प्राक् उभौ नेतारौ अहमदाबादे ऐतिहासिक साबरमती आश्रमस्य यात्रा विहितवन्तौ। तत्र तौ राष्ट्रपितुः महात्म-गान्धिनः स्मृतिचिन्हे श्रद्धा कुसुमानि समर्पितवन्तौ । उभौ नेतारौ महात्मा गान्धिनः आत्मनिर्भरता-सत्य-अहिंसां च प्रति अपृथक-प्रतिबद्धता-युतान् मूल्यान् प्रति गभीरं सम्मानं प्रकाशितवन्तौ । उभौ नेतारौ साबरमती रिवरफ्रंट-स्थलं पतंग-महोत्सवेऽपि समाविष्टौ । श्री फ्रेडरिक मर्ज वर्यः अद्य प्रातः कालावधौ अहमदाबादे स्वीय द्वि-दिवसीय यात्रार्थं प्रधानमन्त्रिणः श्री नरेन्द्र मोदिनः आमन्त्रणे समागतः ।
भारत-जर्मनी-देशाभ्यां महत्त्वपूर्णानि नवदश सन्धिपत्राणि हस्ताक्षरितानि।
भारत-जर्मनी-देशाभ्यां महत्त्वपूर्णानि नवदश सन्धिपत्राणि हस्ताक्षरितानि। सममेव उभाभ्यां देशाभ्यां रक्षोद्यौगिक-सहयोगं द्रढयितुम् अष्ट घोषणाः विहिताः। व्यापार-निवेशं समेधितुम् चीफ एग्जीक्यूटिव ऑफिसर्स फोरम इत्यस्य स्थापना अपि एतासु सम्मिलिता। वार्ताहर-सम्मेलनं सम्बोधयन् भारतीय विदेशसचिवः विक्रम मिसरी अवदत् यत् जर्मन चांसलर इत्यस्य भारतयात्रावधौ देशद्वयोः मध्ये महत्त्वपूर्ण संवादः अभवत्।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः
Next Article लोहडी उत्तरभारते प्रसिद्धः उत्सवः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?