प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ ।
हिमसंस्कृतवार्ता: – प्रधानन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् भारत-जर्मनी देशयोः मध्ये द्विपक्षीय व्यापारः साम्प्रतं यावत् उच्चतम-स्तरे सम्प्राप्तः। प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे महात्मामंदिरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ। भारत-जर्मनी देशौ उद्घोषितवन्तौ यत् रक्षा, व्यापार प्रविधि क्षेत्राणि, रणनीतिक सम्बन्धाः च उपवेशनात् अस्मात् अग्रे सरिष्यन्ति । रक्षा औद्योगिक-सहयोगं सुदृढ़ीकर्तुं उभौ देशौ सहविकास-सहउत्पादने च केन्द्रितं घोषणा-पत्रमेकं हस्क्षरिवन्तौ । एकं संयुक्त वार्ताहर सम्मेलनं सम्बोधयन् फ्रेडरिक मर्ज, प्रधानमन्त्री च भणिवन्तौ यत् भारत-जर्मनी देशौ केवलं आर्थिक-सहयोगिनौ न स्तः, वरन् वैश्विक शान्तये, स्थिरतायै च उभौ राष्ट्रौ प्रतिबद्धौ स्तः। अवसरेऽस्मिन् श्रीमोदी प्रतिपादितवान् यत् भारत-जर्मनी देशयोमध्ये रणनीतिक-व्यापारः उच्चतम स्तरं सम्प्राप्तः, साम्प्रतं इदं पञ्चाशत् अर्बुद्-डॉलर तः अधिकः जातः। श्रीमोदी भणितवान् यत् भारतदेशे द्वि-सहस्राधिक जर्मनी देशीय समवायाः दीर्घ-कालात् भारतदेशे कार्यरताः सन्ति। प्रधानमन्त्रिणा प्रतिपादितं यत् उभयोः देशयोः मध्ये प्राविधिक सहयोगः प्रतिवर्षं दृढ़तमः जातः। अद्य अस्य परिलक्षिता मूलाधारे अपि स्पष्ट रूपेण दरीदृश्यते । संक्षिप्त रूपेण जर्मन देशीय चांसलर-फ्रेडरिक-मर्ज वर्येण भणितं यत् उभौ देशौ स्वीय सम्बन्धाः उच्चतर-स्तरे आनेतुं प्रयासरतौ वर्तेते। इतः प्राक् उभौ नेतारौ अहमदाबादे ऐतिहासिक साबरमती आश्रमस्य यात्रा विहितवन्तौ। तत्र तौ राष्ट्रपितुः महात्म-गान्धिनः स्मृतिचिन्हे श्रद्धा कुसुमानि समर्पितवन्तौ । उभौ नेतारौ महात्मा गान्धिनः आत्मनिर्भरता-सत्य-अहिंसां च प्रति अपृथक-प्रतिबद्धता-युतान् मूल्यान् प्रति गभीरं सम्मानं प्रकाशितवन्तौ । उभौ नेतारौ साबरमती रिवरफ्रंट-स्थलं पतंग-महोत्सवेऽपि समाविष्टौ । श्री फ्रेडरिक मर्ज वर्यः अद्य प्रातः कालावधौ अहमदाबादे स्वीय द्वि-दिवसीय यात्रार्थं प्रधानमन्त्रिणः श्री नरेन्द्र मोदिनः आमन्त्रणे समागतः ।
भारत-जर्मनी-देशाभ्यां महत्त्वपूर्णानि नवदश सन्धिपत्राणि हस्ताक्षरितानि।
भारत-जर्मनी-देशाभ्यां महत्त्वपूर्णानि नवदश सन्धिपत्राणि हस्ताक्षरितानि। सममेव उभाभ्यां देशाभ्यां रक्षोद्यौगिक-सहयोगं द्रढयितुम् अष्ट घोषणाः विहिताः। व्यापार-निवेशं समेधितुम् चीफ एग्जीक्यूटिव ऑफिसर्स फोरम इत्यस्य स्थापना अपि एतासु सम्मिलिता। वार्ताहर-सम्मेलनं सम्बोधयन् भारतीय विदेशसचिवः विक्रम मिसरी अवदत् यत् जर्मन चांसलर इत्यस्य भारतयात्रावधौ देशद्वयोः मध्ये महत्त्वपूर्ण संवादः अभवत्।
प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
