Fourlane CNG Service – कीरतपुर– मनाली चतुष्पंक्तिराजमार्गे बलोहात् सिस्सुपर्यन्तं प्रति चत्वारिंशत् किलोमीटरान्तराले सीएनजी- सुविधा उपलब्धा भविष्यति
हिमसंस्कृतवार्ताः- डॉ. पद्मनाभ:, मण्डी।
कीरतपुर–मनाली-चतुष्पंक्तिराजमार्गे बलोहात् आरभ्य सिस्सुपर्यन्तं प्रायः चत्वारिंशत् किलोमीटरान्तराले सीएनजी-पूर्तिसुविधा भविष्यति। एषः उपक्रमः हिमाचलप्रदेशम् आगच्छन्तां पर्यटकानां, विशेषतः दिल्ली- चण्डीगढप्रदेशाभ्यां आगच्छन्तां सीएनजी- वाहनस्वामिनां कृते अत्यन्तं उपशमकरः भवति। मनाल्याः तद्वर्ती–प्रदेशेषु वर्धमान-वाहनसङ्ख्या तथा च प्रदूषणसमस्या इत्येतयोः दृष्ट्या एषा परियोजना अत्यन्तं महत्वपूर्णा मन्यते।
भारतसर्वकारेण अधिकृता “गैसोनेट” इति कम्पनी प्रदेशे सीएनजी-जालं शीघ्रेण विस्तारयति। अनया कम्पन्या द्वादश नूतनानि सीएनजी-केन्द्राणि स्थापयितुं निर्णीतम्। तेषु कतिपयानि कीरतपुर– मनाली- चतुष्पंक्तिराजमार्गे, मण्डी– पठानकोट- राजमार्गस्य च महत्त्वपूर्णस्थानेषु भविष्यन्ति। बलोह- समलेहूसेतो: धनोटू (सुन्दरनगर- उपमार्ग:), धनोटुत: मलोरी-कन्दरा पर्यन्तम् (मण्डी- उपमार्ग:), सौली-खड्डत: पण्डोह- मध्यप्रदेशपर्यन्तं सीएनजी-केंद्राणि स्थापयिष्यन्ति।
अतिरिक्ततया नेरचौकात् जाहूपर्यन्तं (मण्डी– हमीरपुर- राजमार्गः), मण्डीतः ऐहजुपर्यन्तं (मण्डी– पठानकोट-राजमार्गः), पुंघात् धनोटुपर्यन्तं (पूर्व-एनएच–21 मार्गः), बगलातः मण्डीनगरपर्यन्तं, डडौरात् नागचलाबद्धम् (पूर्व– एनएच–21 मार्गः), भुन्तरतः मणिकर्णपर्यन्तम्, भुन्तरतः कुल्लूपर्यन्तम् (पूर्व–एनएच–21 मार्गः) च सीएनजी-सुविधा प्रदातुं परियोजना प्रवर्तते। कुल्लू–मनाली–नवमार्गे, मनाली–सिस्सुपर्यन्तम्, अटल-कन्दराया: समीपे (मण्डी–लेह-राजमार्गः) अपि एषा सुविधा प्रदातुम् प्रस्तावितम्।
एतेषु चतुर्षु जनपदेषु सीएनजी-केंद्राणां स्थापनेन हिमाचलप्रदेशे सीएनजी-वाहनानां उपयोगः वर्धिष्यते। मनाली–कुल्लू–लाहौल–स्पीति प्रदेशेषु सीएनजी-उपलब्धतया स्वच्छ-ईंधन-वाहनानाम् अभिवृद्धिः भविष्यति। वर्धमान–पर्यटक-वाहनैः जन्यमानं वायुप्रदूषणम् अपि न्यूनीकर्तुं साहाय्यं करिष्यति। पर्यावरणसंवेदनशील–प्रदेशेषु प्रदूषण- नियन्त्रणाय एषा परियोजना लाभदायिनी भविष्यति। दीर्घमार्गेषु सीएनजी–उपलब्धतया पर्यटकानां स्थानीयजनानां च निर्बाधयात्रा-सुविधा सुलभा भविष्यति। आकस्मिकपरिस्थितिषु ईंधनाभावः न्यूनः भविष्यति। दीर्घमार्ग- व्यावसायिक- वाहनानामपि स्वच्छ– ईंधन- विकल्पः उपलब्धः भविष्यति।
द्वादशस्थलेषु सीएनजी-पम्प-स्थापनप्रक्रिया प्रवर्तते, तदीयम् आवेदनम् आमन्त्रितम् अस्ति। वर्तमान-विक्रेतार: अपि भूमिः उपलब्धा चेत् सीएनजी-सुविधां प्राप्तुं शक्नुवन्ति।
– अलखतिवारी, उपप्रबन्धकः, परियोजना-लीड, गैसोनेट
