- कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये गुरुनानकस्य दर्शनप्रसङ्गे ‘शास्त्रमन्थनम्’ इति १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं सम्पन्नम्
नलबारी, ०४ नवम्बर २०२५ (असम): कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्ततया प्रवर्त्यमानायाः ‘‘शास्त्रमन्थनम्’’ इत्यस्य १०८-व्याख्यानमालायाः पञ्चदशतमं व्याख्यानं गुरुनानकदेवस्य जीवनधर्मदर्शनविषयकं गभीरचिन्तनमयम् आसीत्। धर्मः, दया, समता, मानवसेवा, विश्वबन्धुत्वभावना च गुरुनानकदेवस्य चिन्तनस्य आधारभूततत्त्वानि इति अस्मिन् व्याख्याने सूक्ष्मतया प्रकाशितानि।
अस्य व्याख्यानस्य मुख्यवक्त्री आसीत् पंजाबविश्वविद्यालयस्य दर्शनविभागस्य प्रतिष्ठिता विदुषी आचार्या डॉ. शिवानी शर्मा महोदया। तया गुरुनानकदेवस्य जीवनस्य ऐतिहासिकम्, आध्यात्मिकं समाजसंस्कारकं च रूपं मनोहारिण्या शैल्या निरूपितम्। गुरुनानकदेवस्य “एकंकार” इति सिद्धान्तस्य दार्शनिकपरिमाणम्, भक्तिमार्गस्य अद्वितीयत्वं गुरु–शिष्यपरम्परायाः महत्त्वं च विस्तरेण प्रतिपादितम्। तया अस्य गुरुदर्शनस्य सार्वकालिकता, समन्वयदृष्टिः, समाजे समभावसंदेशस्य प्रासङ्गिकता च उद्भाविता। तया उक्तं हि ईश्वरः एकः एव, वयं च सर्वे तेषां सन्ततयरिति।
कार्यक्रमस्य अध्यक्षपदे विश्वविद्यालयस्य कुलपतिः आचार्यः प्रह्लाद-रा. जोशी महोदयः आसीत्। तेन उवाच यत् गुरुनानकदेवः केवलं धार्मिकमहापुरुषः न आसीत्, प्रत्युत सर्वमानवजगतः प्रकाशस्तम्भः आसीत् इति। तेन भारतीयदर्शनपरम्परायां समन्वयतत्त्वस्य स्थानं व्याख्याय विद्यार्थिनां कृते प्रेरणा च दत्ता।
विभागाध्यक्षः डॉ. रणजीतकुमार तिवारी महोदयः स्वागतोपसंहारभाषणेन व्याख्यानस्य मूलतः अवबोधनीयतत्त्वानि निरूप्य, विश्वविद्यालयस्य सर्वदर्शनविभागस्य प्रयत्नः देशस्तरीयं दार्शनिकसंवादमण्डलम् उन्नीयते इति प्रकाशयामास।
अस्मिन् अवसरे देशस्य विविधान् विश्वविद्यालयेभ्यः आगताः आचार्याः, अनुसन्धानविज्ञाः, शोधार्थिनः, अध्येतारः छात्राः च उपस्थितासन्। सर्वदर्शनमन्थनपरिषदः अध्यक्षः श्री पुलक उपाध्यायः, विभागीयसहायिका सुश्री लोपामुद्रा गोस्वामी, अतिथ्यध्यापिका सुश्री सीमा वर्मन् च विशेषतया आसन्। आयोजकसमितेः कुशलव्यवस्थापनं सर्वैः प्रशंसितम्।
कार्यक्रमस्य शुभारम्भः विभागीयशोधछात्रेण लिराज काफ्लेमहोदयेन वैदिकमङ्गलाचरणेन आध्यात्मिकभावनया सम्पन्नः। तेन एव कार्यक्रमस्य संचालनं निर्भ्रान्ततया सुबोधतया च कृतम्। अन्ते तेनैव सुसंस्कृत्या कृतज्ञतापूर्वकं धन्यवादप्रस्तावः अर्पितः।
अन्ते शान्तिमन्त्रपाठेन कार्यक्रमस्य समापनं विधिविधानुसारं सम्पन्नम्। विश्वविद्यालयेन सूचितं यत् एषा व्याख्यानमाला अनवरतं प्रवर्तिष्यते, येन भारतीयदर्शनपरम्परायाः गाम्भीर्यम्, बहुलोचना संवादसंस्कृतिः च दृढीभविष्यति।
विश्वविद्यालयपरिसरे ज्ञानसरस्वत्याः पवित्रप्रवाहः इव विचारविनिमयस्य वातावरणं दीर्घकालं यावत् स्मरणीयं जातम्।

