By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: भारतीयभाषासमित्या प्रायोजिता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीया शब्दनिर्माणकार्यशाला सम्पन्ना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > असमवार्ता: > भारतीयभाषासमित्या प्रायोजिता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीया शब्दनिर्माणकार्यशाला सम्पन्ना
असमवार्ता:संस्कृतगतिविधयः

भारतीयभाषासमित्या प्रायोजिता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीया शब्दनिर्माणकार्यशाला सम्पन्ना

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/10/18 at 7:37 AM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

भारतीयभाषासमित्या प्रायोजिता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीया शब्दनिर्माणकार्यशाला सम्पन्ना

द्विदिवसीया शब्दनिर्माणकार्यशाला
भारतीयभाषासमित्या प्रायोजिता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयेन चायोजिता द्विदिवसीया शब्दनिर्माणकार्यशाला सम्पन्ना । तस्यां कार्यशालायां भारतराष्ट्रस्य नाना प्रदेशेभ्यः प्रतिभागिनः प्रतिभागं कृतवन्तः । तेषु प्रायः आध्यापकाः, शोधच्छात्राश्चासन् । कार्यक्रमे वक्तृरूपेण प्रोफेसर वी. सुब्रह्मण्य विरिविण्टी, निदेशकः, वैदिकसंशोधनमण्डलम् , पुने, डॉ. प्रियव्रतमिश्रः, सहाचार्यः, काशीहिन्दूविश्वविद्यालयः, वाराणसी, डॉ. भवशर्मा, सहाचार्यः, डेक्कन काँलेज, पुने, डॉ. उमामहेश्वरः एन्., बेङ्गलूर, कर्नाटकतः, डॉ. रुणिमाशर्मा, भट्टदेवविश्वविद्यालयः, बाजाली इत्यतः विद्वांसः समुपस्थिताः आसन् । अतीवगभीरसाधनापद्धतिमधिकृत्य ते स्वकीयमनुभवनं स्वाध्यायप्रतिकृतिं च प्रदर्शितवन्तः । कार्यक्रमस्योद्धाटनसत्रे कुमारभास्करवर्मसंस्कृतविश्वविद्यालयस्य कुलपतयः प्रोफेसर प्रह्लाद रा. जोशीवर्याः, कुलसचिवाः डॉ. विकासभार्गवशर्ममहाभागाः, शैक्षणिककुलसचिवाः प्रोफेसर ज्योतिराजपाठकमहाभागाः, विशिष्टातिथिरूपेण प्रोफेसर वी. सुब्रह्मण्यमहाभागाः, परीक्षानियन्त्रकाः डॉ. रणजीतकुमारतिवारीमहाभागाः, तथा च अन्ये विभागीयाः अध्यापकाः अध्यापिकाः, छात्राः, शोधच्छात्राश्च समुपस्थिताः आसन् । कुलपतिभिः प्रोक्तं आत्मसम्मानं स्वभाषायाः संरक्षणे, स्वसंस्कृतेः परिपालने एव विद्यते । अस्माकं या भाषां संस्कृतभाषा सा सर्वासामपि भाषाणां जननी एव । तस्याः भाषायाः उच्चारणे स्वयमेव पुण्यता आगच्छति । अन्याः भाषाः अर्थमात्रबोधिका न तु पुण्यजनिका इति ।

कार्यक्रमार्थं कल्पिताः समितिसदस्याः डॉ. सुधाकरमिश्रः (कार्यक्रमाह्वायकः), डॉ. कमललोचनआत्रेयः, (कार्यक्रमसंयोजकः) डॉ. बर्णाली बरठाकुरः डॉ. मैत्रेयीगोस्वामी, संयोजिके, तथा च सदस्यरूपेण डॉ.गुणीन् शाइकीया, श्रीमान् विवेकाचार्यः, सुश्री लोपामुद्रा गोस्वामी च आसन् । कार्यक्रमस्य मूलमुद्देश्यं भारतीयभाषामधिकृत्य एव भारतीयाः आत्मानं वर्धयन्त्विति । तदर्थमेवान्यासु भाषासु प्रचलिताः, प्रसिद्धाश्च ये आधुनिकाः शब्दाः तेषां कथं संस्कृतनिष्ठतां आयान्तु, तदर्थं का का प्रक्रिया, के के सिद्धान्ताः, काश्च काश्च कठिनताः राजन्ते तेषां सर्वेषां कथं विधिमुखेन, निषेधमुखेन वा प्रवृत्तिः स्यात् । तदर्थं सर्वेपि विद्वांसः प्रयत्नं कृतवन्तः । आहत्य अष्टौ सत्राणि आसन् । तानि सर्वाण्यपि अतीवविशिष्टानीति । समापनसत्रे सञ्चालनं सुश्रीलोपामुद्राकृतवती । विशिष्टं भाषणं डॉ. रणजीतकुमारतिवारीमहाभागाः दत्तवन्तः । पुनः अनुभवकथनं गौहातिविश्वविद्यालस्य सुश्रीसंगीतभट्टाचार्या, तथा च असमविश्वविद्यालयस्य सुप्रिया चौबे च कथिवत्यौ । सर्वेषां कृते प्रमाणपत्रप्रदानं जातम् । अन्ते धन्यवादज्ञापनं डॉ. सुधाकरमिश्रः अददत् । अस्य कार्यक्रमस्य प्रेरकाः भारतीयभाषासमितेः सह शैक्षणिकसंयोजकाः डॉ. के. गिरिधररावमहाभागा असान् । तेभ्यः भूरिशः धन्यवादाः अर्प्यन्ते । इतः प्रतिभागिनः अतीव प्रसन्नमुद्रया संस्कृतभाषायाः विकासाय संकल्पं नीत्वा गतवन्तः ।

You Might Also Like

आईपीएल’ इत्यस्य प्रथमां स्पर्धां खेलितुं धर्मशालां प्राप्ता ‘गुजरात टाइटंस’ दलम्

तर्कसंग्रहकार-अन्नमभट्ट-स्मृतौ चतुश्चत्वारिंशत्तमः संस्कृत-शिक्षण-सम्भाषण-शिविरः सम्पन्नः

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्

*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्* 

*पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article National Chess Tournament – राष्ट्रियचतुरङ्गप्रतियोगितायां शीर्षदशस्थानेषु सिरमौरजनपदस्य सर्वकारीयविद्यालयः।
Next Article गीर्वाण वाण्या: अभ्यासक्रमाणि इदानीं अभियांत्रिकी महाविद्यालयेषु उपलभ्यन्ते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?