HP News – बाह्याधारेण नियुक्तेभ्य: परियोजना-कर्मचारिभ्य: च दीपावलीतः पूर्वं प्रदास्यते मानदम्, मुख्यमंत्रिणा सुक्खुना अधिकारिण: निर्दिष्टा:
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे सर्वेभ्य: बाह्याधारेण नियुक्तेभ्य: तथा परियोजना-कर्मचारिभ्य: च दीपावलीपूर्वं मानधनं प्रदास्यते। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अस्मिन् विषये वित्तविभागाय निर्देशान् निर्गतवान्। एतेन राज्ये सहस्राणि बहिर्निहितकार्यकर्तृभ्यः संबलं प्राप्यते। मुख्यमंत्री राज्ये निविदाकर्तृभ्य: दीपावली-उपहारमपि प्रदत्तवान्। सः वित्तविभागाय ₹१० लक्षपर्यन्तं लम्बितदेयकं स्वच्छं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे अपराह्ने बिहारनिर्वाचनाय प्रचारार्थं दिल्लीं प्रति प्रस्थितवान्।
