Himachal Weather- किन्नौरे मेघविस्फोट:, आनीक्षेत्रे भूस्खलनेन महिला मृता; राज्ये ६३५ मार्गाः निरुद्धा:
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे मानसूनवृष्ट्या विनाशः निरन्तरं भवति। भूमिस्खलनेन जलप्लावनेन च निरन्तरवृष्ट्या जनानां कष्टानि वर्धितानि सन्ति। शुक्रवासरे प्रातःकाले जनजातीयमण्डलस्य किन्नौरस्य लिप्पायां मेघविस्फोटस्य कारणेन व्यापकक्षतिः ज्ञाता। मेघविस्फोटस्य कारणेन सेबफलवृक्षसहितगृहाणि क्षतिग्रस्तानि सन्ति। मेघविस्फोटानन्तरं द्वौ श्रमिकौ भग्नावशेषे निरुद्धौ यो ग्रामजनैः सुरक्षिततया उद्धारितौ। उभौ चिकित्सायां रिकोंगपियो- चिकित्सालये प्रवेशितौ।

आनीक्षेत्रे त्रीणि गृहाणि भूस्खलनेन आहतानि, द्वे महिले लुप्ते
अपरपक्षे आनी-क्षेत्रस्य लोअर-पटारना-ग्रामे त्रीणि गृहाणि भूस्खलनेन आहतानि। गृहे निवसन्त्यौ स्त्रियौ अपि मलिनतायाः अधः मग्नौ अभवताम्। पश्चात् एकस्य शवः प्राप्तः परन्तु अन्या महिला अद्यापि अदृश्या अस्ति। केचन पशवः अपि भूस्खलनस्य ग्रहणे आगताः। आश्रय- उद्धारकार्यं प्रचलति। भूस्खलनेन अधिकांशग्रामीणमार्गाः अवरुद्धाः सन्ति। खादवीग्रामे त्रीणि गृहाणि अपि भूस्खलनस्य ग्रहणे आगतानि। तस्मिन् एव काले रामपुरबुशहरस्य पशाड़ा उपनद्या: समीपे पर्वतात् शिलापातेन एकस्य वाहनस्य क्षतिः अभवत्।
राज्ये भूस्खलनेन ६३५ मार्गाः निरुद्धा:, १३३३ विद्युत्परावर्तका: बाधिताः

शुक्रवासरे प्रातः १०:०० वादनपर्यन्तं राज्ये भूस्खलनस्य कारणेन राष्ट्रियराजमार्गद्वयसहिताः ६३५ मार्गाः निरुद्धा: आसन्। १,३३३ विद्युत्परावर्तका:, ५२४ जलापूर्ति योजना: अपि प्रभाविताः सन्ति। मण्डी, कुल्लू, चम्बा, काङ्गड़ा चेत्येतेषु मण्डलेषु अधिकांशमार्गाः निरुद्धा: सन्ति। अपरपक्षे किरतपुर-मनाली चतुष्पंक्तिराजमार्गः यः पञ्चदिनानि यावत् क्रमशः अवरुद्ध: आसीत्, अन्ततः शुक्रवासरे प्रातः प्रायः ११:०० वादने पुनर्स्थापितः। पण्डोह-जलबन्धस्य, कैन्ची-वृत्तस्य, बनालाया: च समीपे मार्गं उद्घाट्य अधुना बृहत्-लघु-वाहनानि निष्कासितानि। ज्ञातव्यं यत् पूर्वदिनेषु उभयस्थानेषु भूस्खलनेन स्थितिः अतीव दुर्गता आसीत्। कैन्चीमोड़ इत्यत्र चतुर्मार्गस्य बृहत् भागः पतितः आसीत्। निरन्तरं शिलापातस्य कारणात् जीर्णोद्धारकार्यस्य आरम्भः संकटपूर्णः सिद्धः आसीत्। तेन सह बनालासमीपे चतुर्मार्गे महता भूस्खलनेन आवागमनं सर्वथा स्थगितम् आसीत्। गतरात्रौ अपि वर्षाकारणात् एतयोः स्थानयोः शिलाः पतिताः। परन्तु प्रातःकाले ऋतुना किञ्चित् सम्बलं दत्तमात्रेण प्रशासनेन एन. एच. ए. आईदलेन च मलिनावशेषं निष्कासयितुं कार्यं आरब्धम्। अन्ततः प्रातः ११:०० वादनस्य समीपे उभयस्थानेषु मार्गः उद्घाटितः।
४ सितम्बर्पर्यन्तं बहुषु भागेषु निरन्तरं भविष्यति वर्षाकालः
ऋतुविज्ञानकेन्द्रशिमला इत्यनेन पूर्वानुमानं कृतं यत् राज्यस्य अनेकेषु भागेषु ४ सितम्बरपर्यन्तं वर्षाकालः निरन्तरं भविष्यति। काङ्गड़ा, ऊना, चम्बा, कुल्लू:, मण्डी, सिरमौर: जनपदैषु २९ अगस्ततः ३१ अगस्तपर्यन्तं विभिन्नेषु दिनेषु अत्यधिकवृष्टेः नारङ्गवर्णीयसचेतना अस्ति। केषुचित् स्थानेषु सितम्बरमासस्य प्रथम- द्वितीय- दिनाङ्कयो: कृते पीतसचेतना कृता।
