By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्
संस्कृतगतिविधयः

आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्

जगदीश डाभी
Last updated: 2025/08/24 at 8:26 PM
जगदीश डाभी
Share
1 Min Read
SHARE

आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्

प्रेषक: – डॉ. दिनेशचौबे, उज्जयिनी।

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य नवनियुक्तः कुलगुरुः (कुलपति:) प्रोफेसरः शिवशङ्करमिश्रमहोदय: आचार्यवर्यः गुरुवासरे विश्वविद्यालयपरिसरे अष्टमः कुलगुरुरूपेण विधिवत् कार्यभारम् अधिगतवान्।
पदभारग्रहणात् पूर्वं तेन श्रीमहाकालेश्वरस्य आशिषः प्राप्तः। अनन्तरं विश्वविद्यालयपरिसरे स्थितस्य भगवान् श्रीपाणिनीश्वरमहादेवस्य पूजनम्, अभिषेकं, हवनं च कृत्वा कार्यभारं गृहीतम्। आचार्यमिश्रेण संस्कृतभाषायाः प्रसाराय, भारतीयज्ञानपरम्परायाश्च संरक्षण–विश्वव्यापकत्वाय पुनः स्वसंकल्पः उद्घोषितः।
प्रो. मिश्रः नवदेहलीस्थ श्रीलालबहादुरशास्त्रीराष्ट्रिय संस्कृतविश्वविद्यालये अनुसंधानविभागाध्यक्षपदे कार्यरतः आसीत्। मध्यप्रदेशस्य राज्यपालः कुलाधिपतिरपि च चतुर्वर्षकालाय विश्वविद्यालयस्य कुलगुरुपदे आचार्यमिश्राय नियुक्तवान्। आचार्यमिश्रस्य नियुक्तेः कार्यकालः पदभारग्रहणसमयादारभ्य प्रवर्तिष्यते।
स्वीयं मन्तव्यं प्रकाश्य प्रो. मिश्रः उक्तवान् – “मम प्रयत्नः भविष्यति यत् विश्वविद्यालयम् अकादमिके, अनुसन्धानक्षेत्रे, सांस्कृतिके च स्तरॆ नूतनोन्नतिं प्रापयामि। अत्र सर्वैः सह मिलित्वा अहं कार्यं करिष्यामि।”
पूर्वकुलगुरुः प्रो. विजयकुमारसीजीवर्य: स्वकार्यभारं प्रो. मिश्राय समर्पितवान्।
अस्मिन् अवसरॆ कुलसचिवः प्रो. दिलीपसोनी, विभागाध्यक्षा: डॉ. अखिलेशकुमारद्विवेदी, डॉ. तुलसीदासपरोहा, डॉ. उपेन्द्रभार्गव, डॉ. पूजाउपाध्याय, डॉ. संकल्पमिश्र इत्येते उपस्थिताः आसन्।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये राष्ट्रिय–अन्तरिक्षदिवसस्योपलक्ष्ये त्रिदिनात्मकः “अन्तरिक्षज्ञानपर्वः” समारब्धः
Next Article भारतं प्रथमस्य मानव-अन्तरिक्षयान अभियानस्य गगनयानस्य कृते पूर्णतया सज्जः – रक्षामंत्री राजनाथसिंहः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?