संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ा क्षेत्रे संस्कृत सप्ताहस्य आरम्भः जातः
वार्ताहर: – जगदीश डाभी
उज्जयिनी। संस्कृतभारती उज्जयिनी द्वारा अद्य संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ा क्षेत्रे संस्कृत सप्ताहस्य आरम्भःजातः। सर्वप्रथमं संस्कृति-वैदिक गुरुकुलं,श्री गर्गाचार्य-वैदिक-विद्यापीठस्य छात्राः वेदाचार्याः कार्यकर्तारः शोभायात्रायां संस्कृत-उद्घोषं कृत्वा रामघट्ट-क्षेत्रे-रामानुज-कोट-आश्रमे सम्मिलिताः अभवन्। संस्कृतभारती उज्जयिनी विभागसंयोजकः धर्मदासःवैरागी,विभागसहसंयोजकः अपूर्वपौराणिकः, जिलाध्यक्षः रमेशनागरः महानगरमन्त्री सुभाषकुमावतः महाविद्यालयीनप्रमुखः राघवेन्द्र, विशालःगोस्वामी सामाजिक जनाः च उपस्थिताःआसन्।