By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: योगेन चित्तवृत्तीनां निरोधः साध्यते – डॉ. रविन्द्रनाथः शुक्लः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > योगेन चित्तवृत्तीनां निरोधः साध्यते – डॉ. रविन्द्रनाथः शुक्लः
संस्कृतगतिविधयः

योगेन चित्तवृत्तीनां निरोधः साध्यते – डॉ. रविन्द्रनाथः शुक्लः

जगदीश डाभी
Last updated: 2025/06/15 at 6:32 PM
जगदीश डाभी
Share
2 Min Read
SHARE

योगेन चित्तवृत्तीनां निरोधः साध्यते – डॉ. रविन्द्रनाथः शुक्लः

वार्ताहर: – जगदीश डाभी (उत्तर प्रदेश:)

 

उत्तरप्रदेश-संस्कृत-संस्थानस्य निदेशकः विनय-श्रीवास्तवः । तदीये निर्देशणे सञ्चालितायाः ऑनलाइन-प्रशिक्षण-पाठ्यक्रम-निर्माण-योजनायाः अन्तर्गतानां सञ्चाल्यमानां सरल-संस्कृत-संभाषण-कक्षाणां परतया आयोज्यमानस्य प्रेरणा-सत्रस्य शुभारब्धस्तत्र । प्रेरणा-सत्रस्य मुख्यवक्ता श्रीसांगवेद-आदर्श-संस्कृत-महाविद्यालयस्य, तामेश्वरनाथ, देवरिया, जनपद-सन्तकबीरनगरम् इयस्य व्याकरणविभागाध्यक्षः डॉ. रविन्द्रनाथः शुक्लः स्ववक्तव्ये संस्कृतभाषायाः महत्त्वं प्रकाश्य, “को नाम योगः ? कथं योगः विधीयते? सर्वदा किमर्थम् आवश्यको योगः ?” इति विषये विमर्शः कृतः। तेन उक्तं यत् “योगः चित्तवृत्तीनां निरोधाय साधनम्। योगः अस्माकं जीवनं निरोगं स्वास्थ्यमयं च करोति। अस्माभिः अस्य गौरवेन अनुभूयते।”
संस्कृतभाषाया योगस्य च अध्ययनं प्रचारः च अस्माकं सर्वेषां दायित्वं। सुभाषितानि लोकानां सौहार्दं, विश्वबन्धुत्वं च जागरयन्ति। अतः प्रतिदिनं एकं सुभाषितं पठनीयम्, प्रतिदिनं योगाभ्यासः अपि करणीयः। अन्ते प्रशिक्षिका मीनाकुमारी आगतानां सर्वेषां धन्यवादं प्रकटितवती। कार्यक्रमे उत्तरप्रदेश-संस्कृत-संस्थानस्य अधिकारिणः योजनाप्रभारी प्रधानसहायकः श्रीभगवान सिंह-चौहानः, प्रशिक्षणप्रमुखः सुधिष्ठमिश्रः, दिव्यरञ्जनः, राधा-शर्मा अन्ये च मार्गदर्शकाः उपस्थिताः ।प्रशिक्षुणा अनुराधया सरस्वतीवन्दनया विहितः। संस्थान-गीतिका पलकतिवारिणा प्रस्तुता, स्वागत-गीतं ज्योत्सना-कुलकर्णिना गीतम्। आगतानाम् अतिथीनां स्वागतं मुख्यवक्तुः च परिचयं प्रास्ताविकं समन्वयको धीरजमैठाणी कृतवान्। सत्रस्य सञ्चालनं प्रशिक्षिकया डॉ. प्रेरिकाअग्रवालेन कृतम्। समग्रं तकनीकीसञ्चालनं अमितसंवेदीना निर्व्यूढम्।कक्षायाः अनुभवं, संस्कृत-गीतानि, योगाभ्यासः, सुभाषित-श्लोकानां प्रस्तुतिश्च वत्सला, ऊषा, रुक्मणि, मदनः, ऋतुः, शैला, आराध्या, गीता गोने इत्येतैः छात्रैः सम्प्रस्तुताः। शान्तिमन्त्रं नीतु-सक्सेना कृतवान् । कार्यक्रमे सूचनादानं विष्णुकुमारेण कृतम्। एवं कार्यक्रमे प्रशिक्षकः दीपमाला, गोपाल-मिश्रः, पंकज-मिश्रः, सत्यप्रकाश-मिश्रः, सुधीर-मिश्रः, लल्लनबाबुमौर्यः च अपि समायोजनसहभागिनः आसन्। बहवः छात्राः, विदेशिकाश्च आसन्, सामाजिक-जनाः च अपि उत्साहेन उपस्थाय स्वं परिस्पदनं अयच्छन् ।
“सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः” इति भावेन कार्यक्रमः संपन्नः।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

LBS विश्वविद्यालये “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article रमणायनम्,ईश्वरानुगृहीतं तत्कुलम्
Next Article आगामिवर्षस्य ३१ मार्चपर्यन्तं भारतं नक्सलवादात् पूर्णतया मुक्तं भविष्यति- केन्द्रीयगृहमन्त्री अमितशाहः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?