योगेन चित्तवृत्तीनां निरोधः साध्यते – डॉ. रविन्द्रनाथः शुक्लः
वार्ताहर: – जगदीश डाभी (उत्तर प्रदेश:)
उत्तरप्रदेश-संस्कृत-संस्थानस्य निदेशकः विनय-श्रीवास्तवः । तदीये निर्देशणे सञ्चालितायाः ऑनलाइन-प्रशिक्षण-पाठ्यक्रम-निर्माण-योजनायाः अन्तर्गतानां सञ्चाल्यमानां सरल-संस्कृत-संभाषण-कक्षाणां परतया आयोज्यमानस्य प्रेरणा-सत्रस्य शुभारब्धस्तत्र । प्रेरणा-सत्रस्य मुख्यवक्ता श्रीसांगवेद-आदर्श-संस्कृत-महाविद्यालयस्य, तामेश्वरनाथ, देवरिया, जनपद-सन्तकबीरनगरम् इयस्य व्याकरणविभागाध्यक्षः डॉ. रविन्द्रनाथः शुक्लः स्ववक्तव्ये संस्कृतभाषायाः महत्त्वं प्रकाश्य, “को नाम योगः ? कथं योगः विधीयते? सर्वदा किमर्थम् आवश्यको योगः ?” इति विषये विमर्शः कृतः। तेन उक्तं यत् “योगः चित्तवृत्तीनां निरोधाय साधनम्। योगः अस्माकं जीवनं निरोगं स्वास्थ्यमयं च करोति। अस्माभिः अस्य गौरवेन अनुभूयते।”
संस्कृतभाषाया योगस्य च अध्ययनं प्रचारः च अस्माकं सर्वेषां दायित्वं। सुभाषितानि लोकानां सौहार्दं, विश्वबन्धुत्वं च जागरयन्ति। अतः प्रतिदिनं एकं सुभाषितं पठनीयम्, प्रतिदिनं योगाभ्यासः अपि करणीयः। अन्ते प्रशिक्षिका मीनाकुमारी आगतानां सर्वेषां धन्यवादं प्रकटितवती। कार्यक्रमे उत्तरप्रदेश-संस्कृत-संस्थानस्य अधिकारिणः योजनाप्रभारी प्रधानसहायकः श्रीभगवान सिंह-चौहानः, प्रशिक्षणप्रमुखः सुधिष्ठमिश्रः, दिव्यरञ्जनः, राधा-शर्मा अन्ये च मार्गदर्शकाः उपस्थिताः ।प्रशिक्षुणा अनुराधया सरस्वतीवन्दनया विहितः। संस्थान-गीतिका पलकतिवारिणा प्रस्तुता, स्वागत-गीतं ज्योत्सना-कुलकर्णिना गीतम्। आगतानाम् अतिथीनां स्वागतं मुख्यवक्तुः च परिचयं प्रास्ताविकं समन्वयको धीरजमैठाणी कृतवान्। सत्रस्य सञ्चालनं प्रशिक्षिकया डॉ. प्रेरिकाअग्रवालेन कृतम्। समग्रं तकनीकीसञ्चालनं अमितसंवेदीना निर्व्यूढम्।कक्षायाः अनुभवं, संस्कृत-गीतानि, योगाभ्यासः, सुभाषित-श्लोकानां प्रस्तुतिश्च वत्सला, ऊषा, रुक्मणि, मदनः, ऋतुः, शैला, आराध्या, गीता गोने इत्येतैः छात्रैः सम्प्रस्तुताः। शान्तिमन्त्रं नीतु-सक्सेना कृतवान् । कार्यक्रमे सूचनादानं विष्णुकुमारेण कृतम्। एवं कार्यक्रमे प्रशिक्षकः दीपमाला, गोपाल-मिश्रः, पंकज-मिश्रः, सत्यप्रकाश-मिश्रः, सुधीर-मिश्रः, लल्लनबाबुमौर्यः च अपि समायोजनसहभागिनः आसन्। बहवः छात्राः, विदेशिकाश्च आसन्, सामाजिक-जनाः च अपि उत्साहेन उपस्थाय स्वं परिस्पदनं अयच्छन् ।
“सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः” इति भावेन कार्यक्रमः संपन्नः।