रमणायनम्,ईश्वरानुगृहीतं तत्कुलम्
कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती च तेन।
अपारसंवित्सुखसागरेऽस्मिन् लीनं परब्रह्मणि यस्य चेत:।।
यस्य चित्तम् अस्मिन् अपारे ज्ञानसुखसागरस्वरूपे परब्रह्मणि लीनं तस्य कुलं पवित्रं भवति जननी च कृतार्था भवति सम्पूर्णा पृथिवी च पुण्येन युज्यते।
तमिळनाडुराज्ये तिरुचुळीनामक: ग्राम: मदुरैत: ५६ किमी दूरे अस्ति। १९०२ मध्ये ब्रिटिशानां ‘साऊथ- इंडियन- रेल- कम्पनी’ मदुरैत: रामेश्वरपर्यन्तं लौहमार्गस्य निर्माणं कृतवती। तत: पूर्वं तिरुचुळी एव मदुरैत: रामेश्वरं गन्तुकामानां यात्रिकाणां कृते आश्रयस्थानम् आसीत् यत: तिरुचुळीं विहाय मार्गस्य द्वयोरपि पार्श्वयो: बहु अन्तरं यावत् अन्यत्किमपि मन्दिराद्याश्रयस्थानं न वर्तते स्म।
तिरुचुळीमध्ये सहस्रावधिवर्षेभ्य: पूर्वं निर्मितं प्रसिद्धं भूमिनाथेश्वरमन्दिरम् अस्ति। शैवसन् माणिकवचकर: सुन्दरूर्तिश्च मन्दिरस्थस्येश्वरस्य स्तुतिं तमिळभक्तिवाङ्मये प्रसिद्धै: स्वरचितपद्यै: अकुरुताम्। एष: ग्राम: रामनादसेतुपतिमहाराजस्य कार्यकाले तालुकमुख्यालय: आसीत्। तत्र उपपञ्चशतं गृहाणि वर्तन्ते स्म तदा।
तत्र सुन्दर- अय्यरनाम्न: अपञ्जीकृत- वाक्कीलस्य गृहम् आसीत्। तस्य पत्न्या: नाम अलगम्मा इति। सुन्दर-अय्यरस्य पितु: नाम नागस्वामी अय्यर: इति। यदा सुन्दर: लघुवयस्क: आसीत् तदा नागस्वामी दिवङ्गत:। सुन्दरस्य पितृव्य: अपि पूर्वमेव संन्यासं स्वीकृत्य गृहत्यागं कृत्वा शिवानन्दयोगीनाम्ना व्यचरत्। अत: पितु: निधनानन्तरं कुटुम्बस्य निर्वाहस्य दायित्वं सुन्दरस्य स्कन्धे एव आपतितम्। वयस: षोडशे वर्षे एकत्र तेन एकस्य लेखापालस्य लिपिकरूपेण वृत्ति: प्राप्ता। तस्य मासिकं वेतनमासीत् रुप्यकद्वयम्। बुद्धिमान्, श्रमनिष्ठ:, लोकप्रिय: च स: लघुकालाभ्यन्तरे एव वैधानिकप्रपत्राणां लेखनस्य कलम् अवगतवान्। अधिकारिजनै: सामान्यजनै: च सह व्यवहारे कुशल: स: सत्त्वरं काञ्चिदपि परीक्षाम् अनुत्तीर्यैव अधिवक्तु: (वाक्कीलस्य) अनुज्ञापत्रं प्राप्नोत्। तदनन्तरम् अदीर्घकाले एव स: तस्य वृत्तौ स्थिर: धनेन सम्पन्न: च अभवत्। स: एकं द्विविभागमेकं गृहं निरमात्। प्रथम: भाग: तस्य निजनिवासस्य कृते आसीत् अपरश्च अतिथीनां निवासार्थम्। तिरुचुळीमध्ये सर्वकारेण नियुक्ता: अधिकारिण: प्रप्रथमं तस्य गृहे एव वसन्ति स्म यावत् ते स्वस्य कृते पृथक् निवासव्यवस्थां न प्राप्नुवन्ति स्म। साह्यार्थं स: सदैव तत्पर: अत: अधिकारिभि: तस्य साह्यं सर्वदा याचते स्म। अत: ग्रामे स: भृशं सम्मान्य: अतिष्ठत्। चौरलुण्ठकादय: अपि तस्य सद्वर्तनं जानन्त: तस्य विषये आदरभावं प्रदर्शयन्ति स्म। ते तस्य शकटयानस्य कृते विनापीडनं मार्गेण गन्तुम् अनुमतिं ददति स्म।
श्रमपूर्णजीवनस्य कष्टानि जानत: तस्य गृहं दीनजनानां शरणस्थलमेव आसीत्। अलगम्मा भोजनेच्छून् कदापि गृहात् न विमुखीकरोति स्म। बुभुक्षितानां कृते सा अन्नपूर्णा एव आसीत्। एतौ दम्पती तयो: उदारता, ऋजुता तथा सदाचरणेन ग्रामे प्रसिद्धौ अभवताम्।
तस्य कुलं द्रविडस्मार्तसाम्प्रदायिकम् आसीत्। वेङ्कटेश्वर: एतस्य कुलस्य कुलदैवतम्। तथापि गृहे शिव:, विष्णु:, गणेश:, सूर्य: शक्तिश्चैतेषां पञ्चानां दैवतानां नियतपूजा प्रतिदिनं भवति स्म। कुलं यजुर्वेदीयम् आपस्तम्बसूत्रसम्बद्धम् आसीत् तथा कुलस्य गोत्रमासीत् पाराशरम्।
गृहे अन्ने सिद्धे दैवतेभ्य: नैवेद्यं समर्प्य अनन्तरमेव अन्नभक्षणस्य नियम: आसीत्। तदा तदा देवदर्शनार्थं मन्दिरगमनं भवति स्म। एतावदेव धार्मिकवर्तनं दृश्यते स्म। ग्रामनेतृरूपेण सुन्दर: मन्दिरे पुराण- कालक्षेपाणामायोजने साह्यं करोति स्म। तथापि आध्यात्मिकदृष्ट्या सुन्दर: अतिविशिष्ट: आसीत् इति न दृश्यते।
सुन्दर: स्वस्य भक्ते: प्रदर्शनं कदापि न करोति स्म। प्राय: ज्ञानमार्गे स: रुचिमान् आसीत्। गभीरस्वभाव: स: पत्नीपुत्रादिभि: सह विश्रब्धं नैव व्यवहरति स्म, न च तै: सह मानसिकदृशा नैकट्यं दर्शयति स्म। तथापि अलगम्मा एतस्मात् विरुद्धस्वभावा आसीत्। तस्या: भक्ति: स्फुटमेव लक्षिता भवति स्म। सा दक्षिणामूर्तिस्त्रोत्रादीनि वेदान्तस्तोत्राणि पठति स्म। भक्तिगीतानां कण्ठस्थीकरणे तस्या: रुचि: आसीत्। नूतनगीतं शिक्षितुं स: कस्यापि भक्तस्य गृहं गमनाय सिद्धा भवति स्म। शक्तिपञ्चाक्षरीमन्त्रस्य दीक्षा तया स्वीकृता आसीत्। वर्तनदृष्ट्या सा कर्मठा आसीत्। प्रतिदिनं सा सूर्यनमस्कारानपि अनुतिष्ठति स्म।
एतस्य कुलस्य विषये एका प्रसिद्धा आख्यायिका जना: श्रावयन्ति स्म। एकदा एक: संन्यासी एतेषां गृहम् आगत:। तथापि तस्मै एतेन कुलेन अन्नदानं यथोचितं सम्मानदानं वा न कृतं येन क्रुद्ध: स: अशपत् यत् कुलस्य प्रत्येकम् अन्वये एक: कश्चन कुलजन: संन्यासं गृहीत्वा गृहत्यागं कुर्यात् अन्नार्थं भिक्षाटनं च कुर्यादिति।
तदनुगुणं सत्यमेव एतस्मिन्कुलस्य प्रत्येकमन्वये एक: गृहत्यागं कृत्वा गतवानासीत्। सुन्दरस्य पितृव्यस्य शिवानन्दयोगिन: विषये पूर्वं कथितम्। एष: सुन्दरस्य पूर्वान्वयस्य संन्यासीसदस्य:। पुन: सुन्दरस्य स्वस्य अन्वयेपि तदेव प्रवृत्तम्। तस्य अग्रज: वेङ्कटेश्वर अय्यर:। तस्य नाम कुलदैवतस्य नामानुसारं कृतमासीत्। स: अपि वयस: अष्टादशे वर्षे एव वैराग्यं प्राप्य गृहात् निरगच्छत्। मदुरैसमीपे तिरुप्परनकुन्द्रम् इत्यत्र गच्छन्नस्मि इति उक्त्वा गत: स: पुन: कदापि न गृहं प्रतिनिवृत्त:। चिदम्बरमित्यत्र संन्यासिजीवनं यापयन् चिदम्बरमन्दिरस्य प्रदक्षिणमार्गं भक्तानां कृते स्वच्छीकुर्वन् च स: बहुभि: दृष्ट:। इदानीं सुन्दरस्य अग्रिमे अन्वयेपि तथैव भविष्यति वा इति आशङ्का सर्वेषां मन:सु आसीत्।
अभिजित तोडकर
9145908156