Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
वार्ताहर: – डॉ. नरेन्द्र राणा
गतदिवसे Online संस्कृतशिक्षणम् जनसंचार-आमुखपटलसमूहे मध्यप्रदेशस्य माध्यमिकसंस्कृतशिक्षकस्य कैलाश वर्मा महोदयस्य जन्मदिवसोपलक्ष्ये आयोजिताया: एका-विशेषा-प्रतियोगिताया: आयोजनम् अभवत् । एषां संस्कृत-प्रश्नोत्तरी प्रतियोगितायाम् उत्तरप्रदेशात् मीरा सक्सेना प्रथम-स्थानं प्राप्तं कृतवती, द्वितीयं स्थाने हरियाणात् नीलम, तृतीय-स्थाने च मध्यप्रदेशात् करणसिंह वर्मन: वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजक: मध्यप्रदेशात् कैलाश वर्मा, आयोजकश्च गुजरातत: राष्ट्रीय संस्कृत प्रचारक: जगदीश डाभी आसीत्। ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणम् द्वारा प्रतिरविवासरे ऑनलाइन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: मध्यप्रदेशात् कैलाश वर्मा सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति । तेन सह उत्तराखंडात् संस्कृतरसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।