By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ‘आपरेशन्-सिन्दूर’ अभियानेन नव आतङ्ककेन्द्राणि पूर्णतया नष्टानि अभवन्-कर्नल्-सोफिया-कुरेशी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > ‘आपरेशन्-सिन्दूर’ अभियानेन नव आतङ्ककेन्द्राणि पूर्णतया नष्टानि अभवन्-कर्नल्-सोफिया-कुरेशी
राष्ट्रीयवार्ताः

‘आपरेशन्-सिन्दूर’ अभियानेन नव आतङ्ककेन्द्राणि पूर्णतया नष्टानि अभवन्-कर्नल्-सोफिया-कुरेशी

डॉ.अमनदीप शर्मा
Last updated: 2025/05/08 at 6:57 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

‘आपरेशन्-सिन्दूर’ अभियानेन नव आतङ्ककेन्द्राणि पूर्णतया नष्टानि अभवन्-कर्नल्-सोफिया-कुरेशी
हिमसंस्कृतवार्ता:-नवदेहली । पहलगाम्-नगरे भयोत्पादकस्य आतङ्क्याक्रमणस्य सप्ताहद्वयानन्तरं, भारतीय-सशस्त्र सेना पाकिस्तानाधिकृतस्य जम्मू-कश्मीरस्य च नव-आतङ्ककेन्द्राणां विरुद्धं प्रक्षेपास्त्रप्रहारं कृतवान् । प्रातः पञ्चाधिक-एकवादनतः समारभ्य सार्धेकवादनपर्यन्तं ‘आपरेशन्-सिन्दूर’ इत्यस्य अन्तर्गतं सशस्त्र-कार्याचरणम् एतत् विहितम् अस्ति । भारतीय-सशस्त्र-सेना पाकिस्तान-देशे, पाकिस्तानाधिकृत-जम्मू-कश्मीर-प्रदेशे च आतङ्किसंरचनायाः उपरि आक्रमणं अकरोत्, यत्र ते भारतस्य विरुद्धं आतङ्क्याक्रमणानां योजनाम् अकुर्वन्, निर्देशं च प्रायच्छन्। आपरेशन्-सिन्दूर इत्यस्य विषये प्रसारमाध्यमान् संसूचयन् विदेश-सचिवः विक्रम-मिस्री अवदत् यत् पहलगाम्-नगरे आतङ्क्याक्रमणस्य अन्वेषणेन आत‌ङ्किभिः सह पाकिस्तानस्य सम्बन्धाः उद्घारिताः सन्ति । अभियानस्य विवरणं दत्त्वा भारतीयसेनायाः कर्नल्-सोफिया-कुरेशी अवदत् यत् अनेन अभियानेन नव आतङ्कि-केन्द्राणि पूर्णतया नष्टानि अभवन् । सा पाकिस्तानदेशे नष्टानां आतङ्किशिबिराणां विषये अपि विवरणं दत्तवती। एतदतिरिक्तं भारतीय वायुसेनायाः सेनानायिका व्योमिका-सिहः संसूचितवती यत् आपरेशन् सिन्दूर इति पहलगाम्-नगरे आतङ्कि-आक्रमणस्य पीडितानां न्यायार्थं प्रारब्धम् ।

भारतीयसेनया स्वीयसाहसिकप्रदर्शनेन इतिहासः विरचितः

रक्षामन्त्री राजनाथसिंहः प्रोक्तवान् यत् भारतीयसेनया सिन्दूराभियानस्य अन्तर्गतं स्वीयसाहसिकप्रदर्शनेन इतिहासः विरचितः अस्ति । सः अवदत् यत् सशस्त्रसेना अभियानस्य समये यथार्थतया, जागरूकतया, संवेदनशीलतया च कार्यम् अकरोत्, नियोजित-कार्यनीत्यानुसारं स्थापितं लक्ष्यं च नष्टीकृतवान्। नवदिल्ल्यां ष राज्याणां, द्वयोः केन्द्रशासित प्रदेशयोः च सीमा-मार्ग-सङ्घ स्य पञ्चाशत्-मूलसंरचना-परियोजनानां उद्घा जावसरे सम्बोधयन् सिंह-वर्यः एतत् वक्तव्यम् अयच्छत् ।

प्रधानमन्त्रिणा राष्ट्रपतिं सिन्दूराभियानस्य विषये प्रदत्ता सूचना
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रपतिं द्रौपदी मुर्मूवर्यां च राष्ट्रपतिभवने सम्मिल्य आपरेशन्-सिन्दूर इत्यस्य विषये सूचना प्रदत्ता । पाकिस्तानस्य आतङ्कि-स्थलेषु, पाकिस्तान-अधिकृतस्य जम्मू-कश्मीरस्य च आतङ्कि-स्थलेषु भारतेन विहितस्य आपरेशन्-सिन्दूर इत्यस्य समाप्ते: अनन्तरं एतत् मेलनम् अभवत्। आपरेशन् सिन्दूर इत्यस्य सफलतायाः कृते प्रधानमन्त्रिणा नरेन्द्रमोदिना सशस्त्रसेनायाः प्रशंसा कृता। सः नवदेहल्यां केन्द्रीयमन्त्रिणां सभां अभियानस्य विषये सूचयन् आसीत्। विभिन्नदलानां नेतारः भारतीय-सशस्त्र-सेनया संचालितस्य ऑपरेशन सिन्दूर इत्यभियानस्य प्रशंसाम् अकुर्वन्।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article विद्यालय–प्रार्थनासभायां वाचनार्थं 08/05/2025 दिनाङ्कस्य प्रमुखपञ्चवार्ता: संस्कृतभाषायाम्
Next Article ऑपरेशन-सिन्दूरस्य अनन्तरं सतर्कः हिमाचलप्रदेशः, विद्यालयानां विषये कः निर्णयः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?