
वार्तापञ्चकम् 08/05/2025
1.पाकिस्ताने आतङ्कवादीनां निगूढस्थानानां विषये सेनायाः प्रतिकारात्मककार्यविधिना देशे सर्वत्र सुरक्षासंस्थाः उच्चसतर्काः सन्ति। हिमाचलप्रदेशे अपि एतत् दृष्ट्वा मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः महत् निर्णयं कृतवान् अस्ति। मुख्यमन्त्री कुल्लूमण्डलस्य बञ्जारस्य प्रस्तावितं भ्रमणं निरस्तीकृतवान् । सः राज्यसचिवालये आपत्कालीनाम् उच्चस्तरीयसभाम् आहूय नवीनतमस्थितेः समीक्षां कृत्वा सुरक्षारणनीत्याः निर्णयं कृतवान्।
2.हिमाचलप्रदेशस्य लाहौल-स्पीतिमण्डलस्य उदयपुरक्षेत्रे सीमामार्गसङ्घटनेन (बीआरओ) निर्मितः द्विपंक्तिभीमसेतुः राष्ट्राय समर्पितः। केन्द्रीयरक्षामन्त्री राजनाथसिंहः नवदेहलीनगरस्य बीआरओ मुख्यालयात् आभासीयमाध्यमेन उद्घाटितवान्।
3.गतरात्रौ पाकिस्तानस्य ९ आतङ्कवादीशिविरेषु भारतीयसेनायाः शल्यप्रहारस्य कारणात् देशस्य सर्वत्र विमानस्थानकेषु दिल्लीतः विमानसेवाः निरस्ता: अभवन्। दिल्लीतः गग्गलविमानस्थानकं प्रति विमानसेवाः अपि निरस्ता: अभवन् ।
4.विपक्षनेता जयरामठाकुरः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् पहलगामे आतङ्कवादीनाम् आक्रमणस्य षड्यंत्रकारिणः तेषां सहकारिणां च मूल्यं दातव्यं भविष्यति यत् तेषां कल्पना अपि न स्यात्। प्रधानमन्त्रिणा यत् किमपि उक्तं तत् सः एव अकरोत् । अद्य पाकिस्तानस्य आतङ्कवादिनः आतङ्किताः सन्ति।
5.हिमाचले वृष्टे: पश्चात् सर्वत्र शीततरङ्ग: प्रसृता।
Brief and concise headlines in good Sanskrit. Very useful for those who are learning Sanskrit. Simple and easy to remember. A good beginning. Wishing you all the best.