
प्रमुखपञ्चवार्ता: 06/05/2025
वार्तापञ्चकम्
1. दूरदर्शनकार्यक्रमस्य इण्डियनआइडल १२ (द्वादश) इत्यस्य विजेता गायक: पवनदीप: मार्गदुर्घटनायां व्रणित:। गम्भीरा स्थिति:। उत्तराखण्डत: नोएडानगरं गच्छन् अभवत् मार्गदुर्घटना।
2. हिमाचले एकसप्ताहं यावद् वृष्टिमयं वातावरणस्य पूर्वानुमानम्। झञ्झावातेन सह ओलावृष्टे: अपि सचेतना।
3. आतङ्कविरोधीयुद्धे भारतेन सह अस्ति रूस:। पुतिनेन प्रधानमन्त्रिणा मोदिना सह दूरभाषेन कृत: सम्पर्क:। पाहलगामघटनाया: च भर्त्सना कृता।
4. जापान देशस्य रक्षामन्त्रिणा साकं मिलितवान् भारतस्य रक्षामन्त्रीराजनाथसिंह: । रक्षासहायतां संवर्धन विषये कृता वार्ता।
5. विश्वविद्यालय–अनुदानायोगेन NTA इत्यनेन च (NET ) राष्ट्रियपात्रता परीक्षायै आमन्त्रितानि आवेदनानि। आवेदनस्य अन्तिमा तिथि: मई मासस्य ८ (अष्ट) दिनाङ्को वर्तते। (नव) ९ मई दिनाङ्कपर्यन्तञ्च आवश्यकसंशोधनानि कर्तुं शक्यन्ते।
उत्तम