प्रधानमन्त्री-राष्ट्रिय-बालपुरस्काराणां कृते नामाङ्कनं प्रारब्धम् । नामाङ्कनस्य अन्तिमातिथिः जुलाई-मासस्य एकत्रिंशत्-दिनाङ्कमस्ति
हिमसंस्कृतवार्ता: – पञ्चविंशत्यधिक-द्विसहस्रतमवर्षस्य प्रधानमन्त्री-राष्ट्रिय बालपुरस्कारेत्यस्य नामाङ्कनं सम्प्रति पञ्चवर्षात् अष्टादश-वर्षीय-बालकानां कृते उद्घाटितम् अस्ति। प्रधानमन्त्री-राष्ट्रियबालपुरस्कारः भारतस्य राष्ट्रपतिना प्रतिवर्षं देशे बालानाम् असाधारणोपलब्धीनां कृते मान्यता प्रादानाय प्रदीयते। एषः प्रतिष्ठितः राष्ट्रस्तरीयः पुरस्कारः अस्ति। एषः पुरस्कारः तेभ्यः बालकेभ्यः प्रदीयते ये वीरता-समाजसेवा-पर्यावरण-क्रीडा-कला-संस्कृति-विज्ञान-प्रौद्योगिकी-चेत्यादिषु वर्गेषु उत्कृष्टतां प्रदर्शयन्ति। नामाङ्कनप्रदानस्य अन्तिमातिथिः जुलाई-मासस्य एकत्रिंशत्-दिनाङ्कमस्ति ।
प्रधानमन्त्री-राष्ट्रिय-बालपुरस्काराणां कृते नामाङ्कनं प्रारब्धम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
