By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः
संस्कृतगतिविधयःप्रादेशिकवार्ता

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः

डॉ.अमनदीप शर्मा
Last updated: 2025/04/24 at 6:53 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः
हिमसंस्कृतवार्ता:- डॉ. निशिकान्तपाण्डेयः नमाटि, नलबारी। कुमारभास्करवर्म- संस्कृत- पुरातनाध्ययन- विश्वविद्यालयीय- न्यायविभागस्य तथा नवदेहलीस्थ श्रीलालबहादुरशास्त्रि- राष्ट्रिय- संस्कृत- विश्वविद्यालयस्य संयुक्ततत्त्वाधाने भारतीयज्ञानपरम्परायां सांख्ययोगस्योपादेयता इति विषयमधिकृत्य विशिष्टव्याख्यानकार्यक्रमः समनुष्ठितः। कार्यक्रमस्य अध्यक्षतां कृतवन्तः कुमारभास्करवर्म- संस्कृत- पुरातनाध्यययन- विश्वविद्यालयस्य माननीयाः कुलपतयः आचार्यप्रह्लादराजोशीमहोदयाः मुख्यव्याख्यान- प्रदातृरूपेण विद्यमानाः आसन्। नवदेहलीस्थः श्रीलालबहादूरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयस्य सांख्ययोग- योगविज्ञानविभागस्य अध्यक्षाः आचार्यः मार्कण्डेयनाथ तिवारीमहोदयाः विशिष्टवक्तृरूपेण समाहूता आसन् डॉ. रमेशकुमारमहोदयाः। अवसरेऽस्मिन् समुपस्थिता आसन् विश्वविद्यालयस्य कुलसचिवाः डॉ. विकाशभार्गवशर्ममहोदयाः, शैक्षणिककुलसचिवाः प्रो. ज्योतिराजपाठकमहोदयाः, परीक्षानियन्त्रकाः डॉ. रणजीतकुमारतिवारीमहोदयाः। कार्यक्रमस्य संयोजनं कृतवन्तः न्यायविभागस्य अध्यक्षाः डॉ. राजीवलोचनशर्मवर्याः। प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन तथा आयुष्मन्त्रालयेन अन्ताराष्ट्रिययोगदिवसं लक्षीकृत्य अस्मिन् वर्षे आह्वानं कृतमस्ति यत् ‘एका पृथ्वी एकस्वास्थ्याय च योगः।’ तदनु आराष्ट्रे योगस्य प्रचाराय प्रसाराय च शिक्षणसंस्थानेषु नैककार्यक्रमाः समनुष्ठीयन्ते। तस्यामेव परम्परायां कुमारभास्करवर्म- संस्कृत- पुरातनाध्ययन- विश्वविद्यालयस्य सभागारे योगशास्त्रस्य प्रायोगिकं सैद्धान्तिकञ्च महत्त्वं द्योतनाय कार्यक्रमस्यास्य शुभारम्भः दीपप्रज्ज्वालनेन मङ्गलाचरणेन च सञ्जातः। ततः माननीयकुलपति- आचार्यप्रह्लादराजोशीमहोदयैः अतिथीनां स्वागतपुरस्सरं सांख्ययोगशास्त्रयोः परस्परोपकारकत्वं लोके तस्य महत्त्वं प्रासङ्गिकत्वञ्च वैशद्येन प्रकाशितम्। ततः मुख्यवक्तारः आचार्या: मार्कण्डेयनाथतिवारीमहोदयाः स्वीयव्याख्याने कार्यक्रमस्य उद्देश्यं सुनिरूप्य भारतीयज्ञानपरम्परायां सांख्ययोगस्य उपादेयत्वं महत्त्वञ्च विस्तरेण प्रतिपादितवन्तः। ततः विशिष्टवक्तारः डॉ. रमेशकुमारवर्याः मानवस्वास्थ्यसंरक्षणे योगस्य प्रायोगिकं पक्षं सम्यगुपस्थापितवन्तः। सहैव सर्वेषां कृते वर्तमानपरिस्थितौ स्वास्थ्यरक्षणाय योगाभ्यासमपि कारितवन्तः। ततः विश्वविद्यालयस्य कुलसचिवाः डॉ. विकाशभार्गवशर्ममहाभागाः सभां समुद्बोधितवन्तः। तदनन्तरं विश्वविद्यालयस्य शैक्षणिककुलसचिवाः प्रो. ज्योतिराजपाठकमहोदयाः स्वीयव्याख्याने उक्तवन्तः यत् योगशास्त्रं जगत्कल्याणाय प्रवृत्तम्। सर्वदा अस्माभिरनुकरणीयमिति। अवसरेऽस्मिन् परीक्षानियन्त्रकमहोदयाः डॉ. रणजीतकुमारथिवारीवर्याः स्वीयं भावं प्रकटितवन्तः। कार्यक्रमस्यास्य सञ्चालनं संयोजनञ्च संस्कृतन्यायविभागस्य अध्यक्षाः डॉ. राजीवलोचनशर्ममहोदयाः कृतवन्तः। अवसरेऽस्मिन् विश्वविद्यालयीयविभागानां विभागाध्यक्षाः समेऽपि आचार्याः छात्राः कर्मचारिणश्च समुपस्थिता आसन्।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

TAGGED: कुमारभास्करवर्म
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article शिमलातः धर्मशालानगरं प्रति कार्यालयानि स्थानान्तरितानि भविष्यन्ति
Next Article Pahalgam Attack- हिमाचले आक्रोशः, आपणानि पिहितानि, आतङ्कवादिनः प्रतिमाः दग्धाः,
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?