सऊदी अरबस्य द्विदिवसीय-यात्रायां प्रस्थास्यति प्रधानमंत्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमंत्री नरेन्द्रमोदी सऊदी अरबस्य राजकुमारस्य प्रधानमन्त्रिणश्च मोहम्मद बिन-सलमानस्य निमन्त्रणे मंगलवासरे सऊदी अरबस्य द्वि दिवसीय यात्रायां प्रस्थास्यति। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये प्रतिपादितं यत् षोडशोत्तर-द्वि-सहस्र-तम-वर्षात्, एकोनविंशत्युत्तर-द्वि-सहस्र-तम-वर्षादनन्तरं च प्रधानमन्त्रिण: मोदिन: सऊदी अरबस्य एषा तृतीया यात्रा भविष्यति। इतः पूर्वं त्रयोविंशत्युत्तर-द्वि-सहस्र-तम-वर्षस्य सितंबरमासे मोहम्मद बिन सलमानः जी-विंशतिः शिखर सम्मेलने भागं भजितुं राजकीय-यात्रायां नवदिल्लीं समागतः आसीत्। अमुना भारत-सऊदी-अरब-कार्यनीतिक – सहभागिता-परिषदः प्रथमम् उपवेशनमपि सहाध्यक्षितम् आसीत्। भारतस्य सऊदी अरबस्य च सामाजिक-सांस्कृतिक- व्यापारिक सम्बन्धानां सुदीर्घः इतिहासः वर्तते। उभयोः देशयोः मध्ये घनिष्ठः मित्रतापूर्णः संबंधः अस्ति। कार्यनीतिक साहमत्ययुतेन मित्र-राष्ट्र-रूपेण द्वयो: देशयोः मध्ये राजनीतिक-रक्षा-सुरक्षा, व्यापार-निवेश-ऊर्जा-प्रौद्योगिकी-स्वास्थ्य-शिक्षा-संस्कृत-सहितेषु विभिन्नेषु क्षेत्रेषु सुदृढः द्विपक्षीयः संबंधः अस्ति। विगते दशके सऊदी अरबेन साकं भारतस्य संबन्धाः इतोऽपि सुदृढाः जाताः सन्ति। प्रधानमन्त्रिण: नरेन्द्रमोदिन: यात्रा दर्शयति यत् भारतं, सऊदी अरब-देशेन साकं स्वीय-द्विपक्षीय सम्बन्धान् महत्त्वपूर्णान् मनुते। अनया यात्रया देशद्वयस्य मध्ये बहुक्षेत्रीय-सहभागिता इतोऽपि सुदृढा भविष्यति, अथ च परस्परं हितसाधनस्य विभिन्नक्षेत्रीय-विषयाणां अन्ताराष्ट्रिय प्रकरणानां च विचाराणामपि आदान-प्रदानं भविष्यति।
सऊदी अरबस्य द्विदिवसीय-यात्रायां प्रस्थास्यति प्रधानमंत्री नरेन्द्रमोदी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
