SCERT Solan- इ-पाठ्यक्रमस्य निर्माणार्थं राज्यसंसाधनव्यक्तिनां पञ्चदिवसीयप्रशिक्षणकार्यशालायाः शुभारम्भः
हिमसंस्कृतवार्ताः। वर्तमानयुगे शैक्षणिकपाठ्यक्रमे विशालाः परिवर्तनाः भवन्ति, भारतसर्वकारस्य नूतनशिक्षानीतेः अस्यां दिशि प्रमुखं योगदानं वर्तते। नवीनशिक्षानीत्यानुसारं शिक्षाव्यवस्थां समयसापेक्षं कर्तुं अनेकानां प्रशिक्षणकार्यशालानाम् आयोजनं क्रियते अस्मिन् एव क्रमे हिमाचलप्रदेशे 17 मार्चतः 21 मार्चपर्यन्तं दीक्षापोर्टलस्य कृते ई-पाठ्यक्रमसामग्रीनिर्माणार्थं पञ्चदिवसीयप्रशिक्षणकार्यशालायाः आयोजनं राज्यशैक्षणिकानुसन्धानएवं प्रशिक्षणसंस्थानम् सोलनम् द्वारा क्रियते , येन एससीईआरटी-मध्ये विभिन्नासु कक्षासु पाठ्यमानं पाठ्यक्रमं सुलभं भवति। अस्यां कार्यशालायां हिमाचलस्य विविधेभ्यः जनपदेभ्यः राज्यसंसाधनव्यक्तिरूपेण शिक्षकाः प्रतिभागं कुर्वन्ति।
कार्यशालायाः उद्घाटनसत्रे एससीईआरटी सोलनम् इत्यस्य प्राचार्या प्रो. रजनी सांख्यायनः उक्तवती यत् शिक्षा प्रत्येकछात्रस्य मौलिकः अधिकारः अस्ति तथा च हिमाचलसदृशे राज्ये यत्र भौगोलिकविविधता वर्तते, तत्र प्रत्येकछात्राय शिक्षाप्रदानं विशालं आव्हानमस्ति, यस्य कृते आधुनिकयुगे दीक्षा पोर्टल् विशालं माध्यमं भवति, अतः दीक्षा पोर्टलमध्ये मानकीकृतशिक्षणसामग्र्याः उपलब्धता प्रशिक्षणस्य मुख्योद्देश्यमस्ति। कार्यशालायाः संयोजिका मंगेशकुमारी दीक्षा पटलस्य परिचयं कृत्वा तस्य आवश्यकतायाः उपरि बलं दत्तवती। एतेन सह द्वितीये सत्रे प्रशिक्षकेन ओईआर इत्यस्य विस्तरेण व्याख्यानं कृतम् यस्मिन् विभिन्नेभ्यः सामाजिकमाध्यमेभ्यः सामग्रीं ग्रहीतुम् अवधानतायाः अनुसरणं कर्तव्यम् इति विषये बलं दत्तम्। प्रशिक्षकस्य विजयपालपुण्डिरस्य इन्फोग्राफिक्स् विषये वक्तव्यम् अतीव प्रभावशाली आसीत्, यत्र प्रायोगिकप्रशिक्षणस्य उपरि बलं दत्तम् आसीत्, सः सर्वान् शिक्षकान् कैनवा इत्यस्य विस्तरेण अभ्यासं कृतवान्, तस्मिन् शिक्षणसामग्र्याः निर्माणपद्धतेः परिचयं कारितवान्। राष्ट्रगानेन कार्यशालायाः समापनं जातम्।
SCERT Solan- इ-पाठ्यक्रमस्य निर्माणार्थं राज्यसंसाधनव्यक्तिनां पञ्चदिवसीयप्रशिक्षणकार्यशालायाः शुभारम्भः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
