हिमाचलप्रदेशे भूकम्पप्रतिरोधीगृहाणि निर्मीयन्ते, प्रशिक्षणं दीयते
हिमसंस्कृतवार्ता: – कुल्लू:।
जापानम्-नेपाल-ताइवान-इन्डोनेशिया- पापुआ-न्यूगिनी-वानुअतु-इत्यादिषु देशेषु भूकम्पेन यत् क्षतिः अभवत् तस्मात् ज्ञात्वा राज्यस्य आपदाप्रबन्धनप्राधिकरणेन निर्माणस्य सुदृढीकरणस्य योजना निर्मिता अस्ति। राज्ये भूकम्पप्रतिरोधी प्रौद्योगिक्याः उपयोगेन भवनानि गृहाणि च निर्मितानि भविष्यन्ति। अस्य कृते निर्माणकार्यं सम्बद्धानां व्यावसायिकानां विशेषप्रशिक्षणं प्रारब्धम् अस्ति ।
भूकम्पप्रतिरोधी प्रौद्योगिक्याः उपयोगेन भवनानि गृहाणि च निर्मातुं राज्यस्य प्रत्येकपञ्चायतः पञ्च व्यावसायिकाः प्रशिक्षिताः भवेयुः। आपदाप्रबन्धनप्राधिकरणस्य अधिकारिणां मते निर्माणकार्यं सम्बद्धाः भवननिर्मातार:, काष्ठकाराः, बारबन्धकाः च भूकम्पीयक्षेत्रेषु भवनानि कथं सुरक्षितानि कर्तुं शक्नुवन्ति इति शिक्षिताः भविष्यन्ति। व्यावसायिकानां कृते संरचनात्मकनिर्माणस्य, सामग्रीचयनस्य, निर्माणप्रक्रियायाः कालखण्डे मनसि स्थापनीयानां प्रमुखबिन्दवानां च विषये विशेषतया सूचितं भविष्यति। जिला-आपदा-प्रबन्धन-प्राधिकरणस्य समन्वयक: प्रशांत: अकथयत् यत् विशेषप्रशिक्षणप्रक्रिया आरब्धा अस्ति। प्रशिक्षणकार्यशालाः आयोजिताः सन्ति।
कुल्लूमण्डलस्य विकासखण्डेषु कुल्लौ, बञ्जारे च व्यावसायिकाः निर्माणस्य आधुनिकाः तकनीकाः शिक्षन्ते। कुल्लो: अन्तर्गतम् व्यावहारिकभवन-निर्माणकर्तृभ्य: राजकीयबहुतकनीकीसंस्थाने सेउबागे तथा बंजारस्य व्यावहारिकभवन-निर्माणकर्तृभ्य: खण्डविकासाधिकारीकार्यालये षड्दिवसीयं प्रशिक्षणं दीयते।
– राकेश:, प्रशिक्षणसमन्वयक:, जिला आपदाप्रबंधनप्राधिकरणम्
भूकम्पप्रतिरोधीगृहाणि निर्मीयन्ते हिमाचलप्रदेशे
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
