By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Education : हिमाचलप्रदेशे सर्वकारीविद्यालयेषु छात्राणां संख्यायां न्यूनता, अस्मिन् वर्षे ५४ सहस्राणि न्यूनप्रवेशाः, प्रतिवेदनस्य उद्घोषणा।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Education : हिमाचलप्रदेशे सर्वकारीविद्यालयेषु छात्राणां संख्यायां न्यूनता, अस्मिन् वर्षे ५४ सहस्राणि न्यूनप्रवेशाः, प्रतिवेदनस्य उद्घोषणा।
हिमाचलवार्ता

HP Education : हिमाचलप्रदेशे सर्वकारीविद्यालयेषु छात्राणां संख्यायां न्यूनता, अस्मिन् वर्षे ५४ सहस्राणि न्यूनप्रवेशाः, प्रतिवेदनस्य उद्घोषणा।

डॉ मनोज शैल
Last updated: 2024/12/13 at 9:54 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Education : हिमाचलप्रदेशे सर्वकारीविद्यालयेषु छात्राणां संख्यायां न्यूनता, अस्मिन् वर्षे ५४ सहस्राणि न्यूनप्रवेशाः, प्रतिवेदनस्य उद्घोषणा।

हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, शिमला।

हिमाचलप्रदेशे शिक्षाक्षेत्रे गुणात्मकविकासस्य शासकीयपक्षाणां मध्ये सर्वकारीविद्यालयेषु प्रतिवर्षं प्रवेशेषु क्षयः दृश्यते। राज्यस्य सर्वकारीविद्यालयेषु गतवर्षस्य तुलनया ५४ सहस्राणि न्यूनप्रवेशाः अभवन्। पूर्वप्राथमिककक्षातः अष्टमकक्षां पर्यन्तं प्रवेशानां यू-डाइस-प्लस प्रतिवेदने प्रकटिताः अङ्काः सर्वकारस्य चिंतां वर्धितवन्तः। शैक्षणिकसत्रे २०२३-२४ सर्वकारीविद्यालयेषु ४.८० लक्षं छात्राणां नामांकनमासीत्। अद्य ५४ सहस्रं क्षयेन नामांकनं ४.२६ लक्षं प्राप्तम्। पूर्वप्राथमिककक्षायां ७१ सहस्रं, प्रथमकक्षातः पञ्चमकक्षां पर्यन्तं २.३६ लक्षं, षष्ठीकक्षातः अष्टमकक्षां पर्यन्तं १.९० लक्षं प्रवेशाः अभवन्।

अधिकारिणां तर्कः: जन्मदरस्य न्यूनत्वेन प्रवेशाः क्षयिताः।

शैक्षणिकसत्रं २०२४-२५ इति संदर्भ्य प्रकाशितं यू-डाइस-प्लस प्रतिवेदनम् आधारीकृत्य समस्याः परिहार्याः इति चर्चा आरब्धा। शिक्षा- सचिवस्य राकेशकंवरस्य अध्यक्षतायां जिला उपनिदेशकानां सभायाः आयोजनं क्रियते। नवीनसत्रे प्रवेशवृद्धये योजनाः करणीयाः। प्रारम्भिक-शिक्षानिदेशालयः समग्र- शिक्षापरियोजनानिदेशालयश्च प्रतिवेदनं आधारीकृत्य निर्णयानां प्रस्तावं निर्माणे संलग्नः।

प्रतिवेदनस्य अनुसारं पूर्वप्राथमिककक्षायां ७१,७३७, प्रथमकक्षायां २२,१३९, द्वितीयकक्षायां ४७,३५०, तृतीयकक्षायां ५४,३३१, चतुर्थकक्षायां ५७,०९१, पञ्चमकक्षायां ५४,४१०, षष्ठीकक्षायां ६१,७३३, सप्तमकक्षायां ६४,७३२, अष्टमकक्षायां ६४,१०५ छात्राः पठन्ति।

अधिकारिणां मतं यत् सर्वकारीविद्यालयेषु प्रवेशानां न्यूनत्वस्य कारणं केवलं निजीविद्यालयेषु छात्राणां गमनं नास्ति। केचन् विद्यार्थिन: निजीविद्यालयेषु गतवन्तः, किन्तु जन्मदरस्य न्यूनत्वेन अपि प्रवेशाः क्षयिताः।

 

जिलानुसारं पूर्वप्राथमिककक्षात: अष्टमकक्षां पर्यन्तं छात्रसंख्या

जिला           कुलछात्राः 

बिलासपुरम्     २३,२८०

चम्बा             ५१,१२५

हमीरपुरम्      २२,९४४

कांगडा           ६१,३३७

किन्नौरम्         ३,५७३

कुल्लू:           ३०,१००

लाहौल-स्पीति:   १,४५०

मण्डी           ५७,६४६

शिमला          ४५,८४०

सिरमौरम्      ५०,३०१

सोलनम्        ४६,९९६

ऊना           ३२,२५९

कुलम्       ४,२६,८९१ 

 

शिक्षाक्षेत्रे नववर्षात् बहूनि परिवर्तानि दृश्यन्ते २०२३ वर्षस्य तुलनां कृत्वा सर्वकारीविद्यालयेषु ५४ सहस्रं न्यूनप्रवेशाः अभवन्। शून्य-नामांकनम् अथवा पञ्च-नामांकनात् न्यूनाः विद्यालयाः संवृत्ताः। शिक्षकसंस्थानेषु शिक्षकाणां रिक्तानि पदानि पूरितानि सन्ति। छात्राणां गुणवत्तायुक्तं शिक्षां प्रदाय आवश्यकं नवाचारं नवोन्मेषश्च। सर्वकारेण नवीनशैक्षणिकसत्रे विद्यालयानां विषयकः बहवः परिवर्तनाः प्रस्ताविताः।

-रोहितठाकुरः, शिक्षामन्त्री।

 

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article BJP Himachal : भाजपाया: जनाक्रोशसभायै दलेन परिधिगृहे धर्मशालायां निर्मिता रणनीति: 
Next Article HP Bulk Drug Park : प्रचुरौषधवाटिकायै ३ मासेषु प्राप्यते विद्युत् जलं च
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?