By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमन्त्रिणा चिनार-पादपरोपण-अभियानस्य प्रथमचरणस्य कृतः शुभारम्भः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुख्यमन्त्रिणा चिनार-पादपरोपण-अभियानस्य प्रथमचरणस्य कृतः शुभारम्भः
हिमाचलवार्ता

मुख्यमन्त्रिणा चिनार-पादपरोपण-अभियानस्य प्रथमचरणस्य कृतः शुभारम्भः

डॉ.अमनदीप शर्मा
Last updated: 2026/06/06 at 8:12 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

मुख्यमन्त्रिणा चिनार-पादपरोपण-अभियानस्य प्रथमचरणस्य कृतः शुभारम्भः
हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: ‘ओक ओवर शिमला’ इत्यत्र विश्वपर्यावरणदिवसस्य पावन- अवसरे ‘चिनार- पादपरोपण- अभियानस्य’ प्रथमचरणस्य विधिवत् शुभारम्भम् अकरोत्। स्वकीयायै सघनायै छायायै, सौन्दर्याय, पर्यावरणीयमहत्त्वाय च प्रसिद्धः ‘चिनार’ वृक्षः शिमलानगरस्य जलवायु-कृते अतीव अनुकूलः मन्यते। अस्य प्रयासस्य मुख्योद्देश्यं हरितक्षेत्रस्य विस्तार:, पर्यावरणसंरक्षणं प्रति जनचेतनायाः च प्रवर्धनम् अस्ति। अस्मिन् अवसरे मुख्यमन्त्रिणा वानिकी- पर्यावरणप्रबन्धन- पारिस्थितिकीपर्यटन (ईको टूरिज्म) सम्बद्धानां महत्त्वपूर्णानां प्रकाशनानां विमोचनमपि विहितम्। तेन हिमाचलप्रदेशस्य ७५ ईको- टूरिज्म- स्थलानाम् उपरि आधारितायाः ‘कॉफी टेबल बुक’ (चित्रमय-पुस्तिकायाः) विमोचनं कृतम्, यस्यां राज्यस्य प्रमुखाणां पर्यावरणीय- पर्यटनस्थलानाम् आकर्षकः परिचयः प्रस्तुतः अस्ति।
मुख्यमन्त्रिणा अस्मिन् अवसरे उपस्थितान् जनान् सम्बोधयता कथितं यत् एतानि प्रकाशनानि वनविभागस्य अधिकारिणां, कर्मचारिणां, शोधकर्तृणाम्, नीतिनिर्मातृणां तथा च पर्यावरणसंरक्षणे रुचिं प्रदर्शयन्त: सर्वेषां जनानां कृते उपयोगीनि सिद्धाः भविष्यन्ति। सः विश्वासं प्रकटितवान् यत् एतानि पुस्तकानि वनप्रबन्धन- जैवविविधतासंरक्षण- ईकोटूरिज्मक्षेत्रेषु ज्ञानस्य जागरूकतायाः च वर्धने प्रमुखां भूमिकां निर्वक्ष्यन्ति। विश्वपर्यावरणदिवसस्य उपलक्षणे मुख्यमन्त्रिणा राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: पोर्टमोर इत्यस्य छात्रेभ्यः ‘चिल्ड्रन ऑफ द स्टेट’ (राज्यस्य बालकेभ्यः) च पादपाः अपि उपहाररूपेण प्रदत्ताः। अस्मिन् अवसरे विधायकः विनोदसुल्तानपुरी, सुदर्शनबबलू, हरदीपबावा, शिमला-नगरनिगमस्य महापौरः सुरेन्द्रचौहानः, हिमाचलप्रदेशराज्यवनविकासनिगमस्य उपाध्यक्षः के. एस. खाची, एच. पी. सी. सी. महासचिवः विनोद जिंटा, मुख्यसचिवः के. के. पन्तः, प्रधानमुख्य- अरण्यपालः डाॅ. सञ्जयसूदः अन्ये च गण्याः उपस्थिताः आसन्।

You Might Also Like

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

सेवाभारती-बिलासपुर-पक्षतः AIIMS-बिलासपुर-चिकित्सालयाय पञ्च चक्रासनयन्त्राणि (व्हीलचेयर) समर्पितानि

द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि

चम्बा-मण्डलस्य बहुचर्चित-गोवधप्रकरणे चत्वारः अभियुक्ताः निगृहीताः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता
Next Article मादकद्रव्यव्यापारे संलिप्तानां १२३ शासकीय- कर्मचारिणां विरुद्धं कार्यविधि:, १७४ ‘चिट्टा’ तस्कराः कारागारं प्रेषिताः- मुख्यमन्त्री सुक्खु:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?