By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मातृस्वरूपायाः पृथिव्याः स्वस्थ- समृद्ध- हरित- अस्तित्वाय पर्यावरणसंरक्षणम् आवश्यकम्- डाॅ. अतुलवैद्यः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मातृस्वरूपायाः पृथिव्याः स्वस्थ- समृद्ध- हरित- अस्तित्वाय पर्यावरणसंरक्षणम् आवश्यकम्- डाॅ. अतुलवैद्यः
हिमाचलवार्ता

मातृस्वरूपायाः पृथिव्याः स्वस्थ- समृद्ध- हरित- अस्तित्वाय पर्यावरणसंरक्षणम् आवश्यकम्- डाॅ. अतुलवैद्यः

डॉ.अमनदीप शर्मा
Last updated: 2026/06/06 at 8:16 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

मातृस्वरूपायाः पृथिव्याः स्वस्थ- समृद्ध- हरित- अस्तित्वाय पर्यावरणसंरक्षणम् आवश्यकम्- डाॅ. अतुलवैद्यः
हिमसंस्कृतवार्ता:- डॉ रेणुकाबोकारे, नागपुरम्।कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयः, रामटेक: इत्यत्र विश्व- पर्यावरण- दिवसस्य अवसरे माननीयानां कुलगुरूणां डाॅ. अतुलवैद्यमहोदयानां करकमलैः विश्वविद्यालयपरिसरे बकुलपादपस्य (मौलसिरी) रोपणं विहितम्। अस्मिन् अवसरे कुलगुरवः डाॅ. अतुलवैद्यमहोदयाः अवदन् यत्– “पर्यावरणसंरक्षणम् अद्यतनयुगस्य महती आवश्यकता वर्तते। वयं स्वकीयेन पर्यावरणानुकूल- आचरणेन प्रकृतेः रक्षां कुर्याम, न्यूनतम् एतच्च निश्चितं कुर्याम यत् अस्माकं कारणतः पर्यावरणस्य कापि हानिः न भवेत्। अद्य यदा भारतं भीषणतापस्य उष्मणा ज्वलन् अस्ति, तदा शीतलां छायां प्रदात्तृणां वृक्षाणां महत्त्वम्, सघनानां वनानाम् अस्तित्वं, जलसङ्कटस्य विभीषिका च अधिकतीव्रतया अनुभूयते। अत एवोक्तम्– ‘शतपुत्रसमो द्रुमः’ अर्थात् एकः वृक्षः शतपुत्राणां सदृशः भवति। ‘एकः पादपः मातुः नाम्नि’ (एक पेड़ माँ के नाम) इति अभियानस्य अन्तर्गतं वयं केवलं वृक्षारोपणमेव न कुर्याम, अपितु तेषां संरक्षणस्य सङ्कल्पमपि गृह्णीयाम। जन्मदात्र्याः मातुः नाम्नि रोपितः वृक्षः अस्माकं मातृस्वरूपायाः पृथिव्याः स्वस्थ- समृद्ध- हरित- अस्तित्वाय परमम् आवश्यकः अस्ति। विश्व- पर्यावरणदिवसस्य पावन- अवसरे प्रत्येकजनः स्वमातृस्वरूपायाः पृथिव्याः कृते न्यूनतम् एतादृशं योगदानं प्रदातुं सङ्कल्पं अवश्यमेव स्वीकुर्यात्।”
अस्मिन् मङ्गले अवसरे सौ. शिल्पावैद्या, योगतज्ञा सौ. ज्योतितुंडुलवार, माननीया अधिष्ठात्री प्रो. कविताहोले, प्रो. कलापिनी अगस्ती, प्रो. प्रसादगोखले, कुलसचिवः डाॅ. रोशनअलोने, ग्रन्थपालः डाॅ. दीपककापड़े, जनसम्पर्काधिकारिणी डाॅ. रेणुकाबोकारे, उद्यानप्रमुखः सुरक्षाधिकारी च श्रीप्रवीणकलम्बे महोदयाः सहित अनेके कर्मयोगिनः उपस्थिताः आसन्।

You Might Also Like

मादकद्रव्यव्यापारे संलिप्तानां १२३ शासकीय- कर्मचारिणां विरुद्धं कार्यविधि:, १७४ ‘चिट्टा’ तस्कराः कारागारं प्रेषिताः- मुख्यमन्त्री सुक्खु:

मुख्यमन्त्रिणा चिनार-पादपरोपण-अभियानस्य प्रथमचरणस्य कृतः शुभारम्भः

नशामुक्तये सामूहिकप्रयासाः आवश्यकाः – राज्यपालः

धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्

जनगणना 2027- १५ जूनपर्यन्तं स्वयं पूरयन्तु स्वविवरणम्; मुख्यमन्त्रिणा प्रदेशवासिभ्यः सहभागितां निश्चितं कर्तुं कथितम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article मादकद्रव्यव्यापारे संलिप्तानां १२३ शासकीय- कर्मचारिणां विरुद्धं कार्यविधि:, १७४ ‘चिट्टा’ तस्कराः कारागारं प्रेषिताः- मुख्यमन्त्री सुक्खु:
Next Article विश्वपर्यावरणदिवसे प्रशासनेन दिल्ल्यां अष्टादश नमो आक्सीजन पार्क इति उद्यानानि उद्घाटितानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?