By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News: दार्चा-लेह-शिन्कुला-मार्गः षण्मासान् यावत् वाहनानां कृते पिहित:, अधुना अग्रिम- ग्रीष्म-ऋतुपर्यन्तं प्रतीक्षा कर्तव्या भविष्यति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News: दार्चा-लेह-शिन्कुला-मार्गः षण्मासान् यावत् वाहनानां कृते पिहित:, अधुना अग्रिम- ग्रीष्म-ऋतुपर्यन्तं प्रतीक्षा कर्तव्या भविष्यति
हिमाचलवार्ता

Himachal News: दार्चा-लेह-शिन्कुला-मार्गः षण्मासान् यावत् वाहनानां कृते पिहित:, अधुना अग्रिम- ग्रीष्म-ऋतुपर्यन्तं प्रतीक्षा कर्तव्या भविष्यति

डॉ मनोज शैल
Last updated: 2024/12/06 at 11:23 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Himachal News: दार्चा-लेह-शिन्कुला-मार्गः षण्मासान् यावत् वाहनानां कृते पिहित:, अधुना अग्रिम- ग्रीष्म-ऋतुपर्यन्तं प्रतीक्षा कर्तव्या भविष्यति

हिमसंस्कृतवार्ता:- लाहौल-स्पीति:।

 

दार्चातः परं वाहनानां गमनाय सामरिकदृष्ट्या महत्त्वपूर्णः मनाली- सरचु- लेहमार्गः आधिकारिकतया पिहित: अस्ति। अस्मिन् वर्षे सीमामार्गसङ्घटनेन मईमासस्य १८ दिनाङ्के यातायातस्य कृते पुनः उद्घाटितम् आसीत्। अधुना ७ दिसम्बरत: अग्रिमवर्षस्य मईमासस्य पर्यन्तं अस्मिन् मार्गे वाहनानां गतिः न भविष्यति। अधुना पर्यटकाः आगामिवर्षस्य मईमासे एव मनाली- लेहमार्गस्य हिमयुक्ता: उपत्यका: द्रष्टुं शक्नुवन्ति। तत्रैव दार्चा- शिन्कुला- जांस्करमार्गे अपि वाहनानां गमनम् अवरुद्धम् अस्ति।

प्रशासनस्य अनुसारं २०२५ तमस्य वर्षस्य ग्रीष्मकालपर्यन्तं दारचा-सरचु, दारचा-शिन्कुला मार्गयो: वाहनानां गमनस्य अनुमतिः न भविष्यति। न्यूनतमतापमानस्य, अत्यन्तं शीतस्य च कारणेन मार्गे हिमस्य सञ्चयः आरब्धः अस्ति। यदि पर्यटकाः जनाः वा एतादृशीषु गभीराषु परिस्थितिषु निरुद्धा भवन्ति तर्हि ते विपत्तौ भवितुम् अर्हन्ति। तथापि यथैव वातावरणं प्रतिकूलं भवति तथैव अस्मिन् मार्गे हिमपातः आरभ्यते। एतत् दृष्ट्वा लाहौल-स्पीतिप्रशासनेन मनाली-सरचु-लेह-मार्गे दार्चात: परं वाहनानां गमनम् स्थगयितुं निर्णयः कृतः अस्ति।

 

२०२३ तमे वर्षे मनाली-लेह-मार्गः नवम्बरमासस्य २० दिनाङ्कात् पिहित: अभवत्। जिला-आपदा- प्रबन्धन-प्राधिकरणस्य अध्यक्ष: एवं उपायुक्त: लाहौल-स्पीति: राहुलकुमार: अकथयत् यत् वातवरणस्य एवं मार्गस्य स्थिति: दृष्ट्वा मनाली- सरचु- लेहमार्गे शनिवासरत: यातायात: पिहित: अस्ति। अधुना अग्रिमर्तौ एव अस्मिन् मार्गे वाहनानि गन्तुं शक्नुवन्ति। उपायुक्तः अवदत् यत् १६,५८० पादपरिमितम् ऊर्ध्वे शिन्कुला-दर्रा इत्यत्र वाहनानां आवागमनम् अपि पिहितं भविष्यति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, Lahul Spiti, दिव्य हिमाचल समाचार, लाहौल-स्पीति, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article PWD Minister: लोकनिर्माणविभागस्य संविदाकारेभ्य: सितम्बरपर्यन्तं विस्तारः
Next Article Shimla News: चमियानायां ओपीडी- सज्जताविषये शपथपत्रं दद्यात् चिकित्साधीक्षकः, उच्चन्यायालयस्य आदेशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?