By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति
हिमाचलवार्ता

Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति

डॉ मनोज शैल
Last updated: 2024/12/02 at 9:27 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति

हिमसंस्कृतवार्ता: – शिमला।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे शिमलानगरे १३.२५ कोटिरूप्यकाणां व्ययेन नवनिर्मितं ढलीबसस्थानकं जनसामान्यं समर्प्य तस्य निरीक्षणमपि कृतवान्। मीडियाभिः सह वार्तालापं कुर्वन् मुख्यमन्त्री अवदत् यत् पूर्वभाजपासर्वकारेण केवलं निर्वाचनप्रयोजनार्थं विना किमपि बजटम् अस्य बसस्थानकस्य आधारशिला स्थापिता आसीत्, ठियोगबसस्थानकस्य अपि तथैव कृतम्। सः अवदत् यत् वर्तमानकाङ्ग्रेससर्वकारेण गतवर्षे अस्मिन् वर्षे च प्रत्येकं ५ कोटिरूप्यकाणि मुक्तं कृत्वा १३ कोटिरूप्यकाणां व्ययेन निर्माणकार्यं सम्पन्नम्। मुख्यमन्त्री उक्तवान् यत् हिमाचल- पथ- परिवहननिगमस्य आधुनिककार्यशाला अपि अत्र २४ कोटिरूप्यकाणां व्ययेन निर्मितं भवति, यस्याः कार्यं शीघ्रमेव सम्पन्नं भविष्यति। सः अवदत् यत् पूर्वभाजपासर्वकारेण द्विगुण शक्ति- (डबलइञ्जन)- सर्वकारस्य नामधेयेन राज्यस्य जनानां विश्वासघातः कृतः। सः केवलं निर्वाचने विजयं प्राप्तुं ५००० कोटिरूप्यकाणां हस्तपत्राणि वितरितवान् परन्तु राज्यस्य प्रबुद्धजनाः तं सत्तातः निष्कासितवन्तः। सः अवदत् यत् वर्तमानराज्यसर्वकारः बजटे समुचितं प्रावधानं कृत्वा एव विकासात्मकपरियोजनानां आधारशिलां स्थापयति, एतानि अपि समयनिर्धारितरूपेण सम्पन्नं क्रियन्ते। मुख्यमन्त्री ढलीस्थाने ३६ कोटिरूप्यकाणां व्ययेन शाकविपण्या: आधुनिकीकरणकार्यस्य आधारशिला अपि अस्थापयत्। सः अवदत् यत् एकमासान्तरे विपण्या: आधुनिकीकरणकार्यं आरभ्य १८ मासेषु कार्यं सम्पन्नं भविष्यति। सः अवदत् यत् शिमलानगरे अपि शीतभण्डारस्य निर्माणं भविष्यति।

 

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, HPCM, HRTC, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPBOSE RESULT : हिमाचलप्रदेश- राज्यमुक्तविद्यालयीय-परीक्षाया: परिणाम: उद्घोषित:
Next Article HRTC : २५० डीज़लबसयानानि क्रेष्यति हिमाचलपथपरिवहननिगमः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?