By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ‘ग्राण्ड कमाण्डर ऑफ द आर्डर् आफ् द नाइजर’ इत्यनेन सम्मानितः भारतस्य प्रधानमन्त्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > ‘ग्राण्ड कमाण्डर ऑफ द आर्डर् आफ् द नाइजर’ इत्यनेन सम्मानितः भारतस्य प्रधानमन्त्री
राष्ट्रीयवार्ताः

‘ग्राण्ड कमाण्डर ऑफ द आर्डर् आफ् द नाइजर’ इत्यनेन सम्मानितः भारतस्य प्रधानमन्त्री

डॉ.अमनदीप शर्मा
Last updated: 2024/11/18 at 7:02 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

‘ग्राण्ड कमाण्डर ऑफ द आर्डर् आफ् द नाइजर’ इत्यनेन सम्मानितः भारतस्य प्रधानमन्त्री
हिमसंस्कृतवार्ताः। नाइजीरियादेशः प्रधानमन्त्री मोदी इत्यस्य कृते ‘ग्राण्ड कमाण्डर ऑफ द आर्डर् आफ् द नाइजर’ इत्यस्य सम्मानं प्रदत्तः। सः द्वितीयः विदेशीयः गणमान्यः भविष्यति यः एतत् सम्मानं लब्धः। अस्मिन्नेव पूर्वे ऊनसप्तत्यधिकोनविंशतमे वर्षे राज्ञी एलिजाबेथ इत्यस्याः कृते सम्मानमिदं प्राप्तवती आसीत्। प्रधानमन्त्री नरेन्द्रमोदी अबुजानगरे नाइजीरिया-देशस्य राष्ट्रपतिना बोला-अहमद- टिनुबू-इत्यमुना साकं मन्त्रणां कृतवान्। राष्ट्रपतितिनुबु इत्यनेन सह प्रतिनिधिमण्डलस्तरीयवार्तायां प्रधानमन्त्रिणा उक्तं यत् भारतं नाइजीरियादेशेन सह सामरिकसहयोगाय महत् महत्त्वं ददाति। रक्षा, ऊर्जा, प्रौद्योगिकी, स्वास्थ्यं, शिक्षा, संस्कृतिः च इति क्षेत्रेषु द्वयोः देशयोः मध्ये पूर्वमेव सहकार्यं प्रचलति इति सः अवदत्। प्रधानमन्त्रिणा उक्तं यत् आतङ्कवादस्य, समुद्री-चौर्य-सङ्घटनस्य च आव्हानानां निवारणाय उभयदेशौ मिलित्वा कार्यं कुर्वन्तौ स्त। प्रधानमन्त्री नाइजीरियादेशस्य राष्ट्रपतिं धन्यवादं दत्तवान् यत् सः ग्रैंड कमांडर ऑफ द ऑर्डर ऑफ द नाइजर इति सम्मानं प्रदत्तवान्। श्री मोदी उक्तवान् यत् एषः सम्मानः केवलं तस्य एव नास्ति, अपितु सर्वेषां भारतीयानां सन्ति। श्रीमोदी नाइजीरियायाः द्वि-दिवसीय यात्रायै परह्यः रात्रौ अबुजानगरं सम्प्राप्तवान्। विगतेषु सप्तदशवर्षेषु कस्यापि भारतीयप्रधानमन्त्रिणः प्रथमानाइजीरिया यात्रा विद्यते। प्रधानमन्त्री मोदी राष्ट्रपतिः टीनुवू इत्येषः च नाइजीरिया-भारत-देशयोः मध्ये रणनीतिक-सहभागित्वस्य समीक्षां कृतवन्तौ अथ च द्विपक्षीय सम्बन्धान् अग्रे वर्धयितुं विविधेषु अवसरेषु चर्चा जाता। एतदनन्तरं प्रधानमन्त्री नाइजीरियायां भारतीय-प्रवासिभ्यः सम्बोधनमपि कृतवान्। तदनु श्वः श्रीमोदी राष्ट्रपतिना लुइस- इनासियो-लूला-दा-सिल्वा इत्यनेन आयोक्ष्यमाणे जी-विंशतिः शिखरसम्मेलने भागग्रहणाय द्विदिवसीययात्रार्थं ब्राजीलदेशस्य रियोडिजेनेरियो-नगरं प्रति यास्यति। ध्यातव्यमस्ति भारतं ब्राजील-दक्षिणाफ्रीका-देशाभ्यां सह जी-विंशतिः इत्यस्य शिखरसम्मेलनस्य भागमस्ति इति। अपि च प्रचल्यमाणस्य जी-विंशतिः शिखरसम्मेलनस्य चर्चासु सक्रियत्वेन योगदानं प्रददाति। कार्यक्रमावधौ प्रधानमन्त्री विभिन्नेषु वैश्विकप्रसङ्गेषु भारतस्य स्थिर्ति प्रकटयिष्यति। भारतेन आयोजिते वॉयस ऑफ द ग्लोबल-साउथ-इत्यस्मिन् शिखर सम्मेलनेऽपि चर्चा विधास्यति। तृतीये अन्तिमे च यात्रायाः सोपाने प्रधानमन्त्री अस्य मासस्य नवदशतः एकविंशति दिनाङ्क यावत् गुयानादेशाय यास्यति।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: 'ग्राण्ड कमाण्डर ऑफ द आर्डर् आफ् द नाइजर', प्रधानमन्त्री मोदी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article जयराम ठाकुरः- झारखण्डस्य स्थितिः हिमाचल इव न भवेत्
Next Article SanskritQuiz Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?