By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- केन्द्रीयगृहमन्त्री अमितशाहः, राष्ट्रीययुवपुरस्कारः, भारतीयचीनसैन्यबलाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > राष्ट्रीयवार्ताः- केन्द्रीयगृहमन्त्री अमितशाहः, राष्ट्रीययुवपुरस्कारः, भारतीयचीनसैन्यबलाः
संस्कृतगतिविधयः

राष्ट्रीयवार्ताः- केन्द्रीयगृहमन्त्री अमितशाहः, राष्ट्रीययुवपुरस्कारः, भारतीयचीनसैन्यबलाः

डॉ.अमनदीप शर्मा
Last updated: 2024/11/02 at 6:02 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

केन्द्रीयगृहमन्त्री अमितशाहः अहमदाबादस्य पिराना नगरे गुजरातस्य बृहत्तमस्य अपशिष्टस्य ऊर्जायाः संयंत्रस्य उद्घाटनं विहितवान्

हिमसंस्कृतवार्ताः 02 नवम्बर। केन्द्रीयगृहमन्त्री अमितशाहः गतदिने अहमदाबादस्य पिराना नगरे गुजरातस्य वृहत्तमस्य अपशिष्टस्य ऊर्जायाः संयंत्रस्य उद्घाटनं विहितवान् । सार्वजनिक सहयोगेन निर्मितस्य अस्य संयंत्रस्य पञ्चसप्तत्यधिकत्रिंशत्कोटिरूप्यकाणां व्ययः अभवत्। एषः गुजरातस्य प्रथमः अवकरः ऊर्जासंयंत्रः भविष्यति। अस्मिन् अवसरे गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः अपि उपस्थितः आसीत् । अहमदाबादस्य पिराना-नगरे स्थापितं राज्यस्य बृहत्तमः अपशिष्ट-ऊर्जा-संयंत्रः अहमदाबाद-नगरपालिकायाः जिन्दल-समूहस्य चोभयोः संयुक्त तत्वावधाने विनिर्मितः अस्ति। प्रायोगिकरूपेण आरब्धस्य अस्य संयंत्रस्य अद्य आधिकारिकतया उद्घाटनं जातम्। अस्मिन् संयंत्रे प्रतिदिनं प्रायः एकसहस्रमेट्रिकटनमितं अपशिष्टं संसाधितं भविष्यति, येन पञ्चदश मेगावाट्मतस्य ऊर्जा उत्पद्यते। अयं संयंत्रः न केवलं हरितं स्वच्छं च भविष्यं सुनिश्चितं करिष्यति, अपितु प्रभावि अपशिष्टप्रबन्धनस्य आदर्शः उपक्रमः अपि सिद्धः भविष्यति।

राष्ट्रपतिः प्रधानमन्त्री च आन्ध्रप्रदेश, छत्तीसगढ़ इत्यादिनां राज्यानां राजत्वदिवसे शुभकामनाः अयच्छताम्
हिमसंस्कृतवार्ताः 02 नवम्बर। राष्ट्रपति द्रौपदी मुर्मुः, उपराष्ट्रपतिजगदीपधनखड़ः, प्रधानमन्त्री नरेन्द्र मोदी च गतदिने आन्ध्रप्रदेश, छत्तीसगढ़, हरियाणा, कर्नाटक, केरल, मध्यप्रदेश, पंजाब, तमिलनाडु, लक्षद्वीप, पुडुचेरी प्रभिनां राज्यानां जनेभ्यः राज्यत्व-दिने अभिनन्दनं कृतवन्तः। एकस्मिन् सामाजिकान्तर्जालीय पटलमाध्यमेन राष्ट्रपतिः देशस्य विकासयात्रायां एतेषां राज्यानां केन्द्रशासितप्रदेशानां च जनानां योगदानं प्रकाशितवती। उपराष्ट्रपतिः जगदीप धनखड़ः कामनाम् अकरोत् यत् एतानि राज्यानि केन्द्रशासितप्रदेशाः च अविरतं प्रफुल्लिताः प्रगतिशीलाः च भवेयुः सममेव देशस्य शान्तिसमृद्धौ च योगदानं दद्युः। अत्रान्तरे एव एकस्मिन् सामाजिक अन्तर्जालीय पटले प्रधानमन्त्री मोदी अपि राज्यानां जनेभ्यः सफलतायै मङ्गलकामनाः अयच्छत्।

पूर्वलद्दाखक्षेत्रे भारतीयचीनसैन्यबलाः एल ए सी इति वास्तविकनियन्त्रणरेखायाः रक्षां कर्तुं सिद्धाः
हिमसंस्कृतवार्ताः 02 नवम्बर। पूर्व लद्दाख क्षेत्रे भारतीय चीन सैन्यबलाः एल ए सी इति वास्तविकनियन्त्रणरेखायाः रक्षां कर्तुं सिद्धाः। भारतीय सैन्य-बलानुसारं विंशत्युत्तर विंशतिः सहस्रतमवर्षस्य अप्रैलमासे द्वयोः सैन्यबलयोः संघर्षस्यान्तरं प्रायः सार्धचतुर्वर्षेभ्यः स्थगितस्य डेमचोक् क्षेत्रे रक्षा पुनः आरब्धा। देपसाङ्गे च शीघ्रमेव आरप्स्यते। गतमासे कूटनीतिकसैन्यस्तरस्य वार्तालापस्य श्रृङ्खलायाः अनन्तरं राष्ट्रद्वयं विसङ्गतिं कर्तुं सहमतौ। गतदिने दीपावली पर्वणि भारतीयचीन-सैन्यबलैः चुशुल् मोल्डो, दौलत बेग ओल्डी, हॉटस्प्रिंग, के. के. पास, कोंगक्ला इत्यादिषु विभिन्नेषु स्थानेषु मिष्ठानस्य आनादप्रदानं आचरितम्।

युवकेभ्यः राष्ट्रीययुवपुरस्कारस्य कृते आवेदनं कर्तुं आह्वानं विहितवान् केंद्रीययुवक्रीडामंत्रीमनसुखमांडविया
हिमसंस्कृतवार्ताः 02 नवम्बर। केंद्रीययुवक्रीडामंत्रीमनसुखमांडविया युवभ्यः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य प्रतिष्ठितस्य राष्ट्रीययुवपुरस्कारस्य कृते आवेदनं कर्तुं आह्वानं विहितवान्। पुरस्कारोयं पञ्चदशतः ऊनविंशतिः वर्ष पर्यंतं युवभ्यः संस्थानां विकासाय सामाजिकसेवानां विभिन्नक्षेत्रेषु उत्कृष्ट योगदानाय च प्रदास्यन्ते। एतासु सेवासु स्वास्थ्यं मानवाधिकाराणां प्रचारः सक्रियनागरिकता, सामुदायिकसेवाः च सम्मिलिताः सन्ति। अस्मिन् पुरस्कारे एक जनः एकं पदकं, प्रमाण पत्रं समेत्य एकलक्षरूप्यकाणां धनराशिं प्राप्स्यति। सममेव संगठनं त्रिलक्षरूप्यकाणां धनराशि प्रदास्यते। राष्ट्रीययुवापुरस्काराय आवेदनं नवम्बरमासस्य प्रथमदिनांकतः पञ्चदशदिवसं यावत् गृह मंत्रालयस्य कॉमन अवार्ड पोर्टल इत्यनेन माध्यमेन आमंत्रिताः सन्ति।

नवम्बरमासस्य पञ्चमे दिनाङ्के भविष्यति अमेरिकादेशस्य राष्ट्रपतिनिर्वाचनम्
हिमसंस्कृतवार्ताः 02 नवम्बर। अमेरिकादेशे नवम्बरमासस्य पञ्चमे दिनाङ्के संजायमाणे राष्ट्रपतिनिर्वाचनस्य कृते डेमोक्रेटिकपार्टीति दलस्य कमला हैरिस्, रिपब्लिकनपक्षस्य डोनाल्ड ट्रम्पः च प्रचारस्य अन्तिमसप्ताहे महत्त्वपूर्णप्रान्तानां भ्रमणं आरब्धवन्तः। निर्वाचनात् प्राक् सर्वेक्षणानानुसारं प्रतिद्वन्द्वीनां मध्ये निकटस्पर्धा वर्तते। विभिन्नेषु सर्वेक्षणेषु कमला हैरिस् ट्रम्पस्य अपेक्षया किञ्चित् अग्रतां संधत्ते। वर्तमानराष्ट्रपतिः जो बाइडेन् इत्यस्य पुनः निर्वाचनेन अस्वीकार्यतामालक्ष्य कमला हैरिस् डेमोक्रेटिकपक्षस्य प्रत्याशिनी सञ्जाता। एतस्याः कृते षड्कोटिभ्यः अधिकाः अमेरिकीयजनाः मतदानं कृतवन्तः। मतदातारः राष्ट्रपतिनिर्वाचनाय ई-मेलद्वारा अथवा व्यक्तिगतरूपेण मतदानं कृतवन्तः।

विधानसभानिर्वाचनस्य द्वितीयचरणस्य नामाङ्कनानां प्रत्याहरणप्रक्रिया झारखण्डे प्रचलति
हिमसंस्कृतवार्ताः 02 नवम्बर। विधानसभानिर्वाचनस्य द्वितीयचरणस्य नामाङ्कनानां प्रत्याहरणप्रक्रिया झारखण्डे प्रचलति। अवधेयास्पदं वर्तते यत् प्रत्याहरणस्य गतदिने अन्तिमातिथिः आसीत्। चतुस्त्रिंशत्तोत्तर षट्शत अभ्यर्थिनः नामाङ्कनं विहितवन्तः। नामाङ्कनां प्रत्याहरणप्रक्रियानन्तरं अभ्यर्थीनां अन्तिमाङ्काः आयास्यन्ति इति अपेक्षा क्रियते। द्वितीयचरणस्य अष्टत्रिंशनिर्वाचनक्षेत्रेषु मतदानं नवम्बरमासस्य विंशतिदिनाङ्के भविष्यति।

रेलविभागस्य चिटिकायाः आरक्षणस्य नूतनाः नियमाः प्रवर्तिताः
रेल विभागस्य चिटिकायाः आरक्षणस्य नूतनाः नियमाः 01 नवम्बर दिनांकात् प्रवर्तिता। विभागेन पूर्वारक्षणस्य समयसीमा विंशत्योत्तर एकशतदिवसात् षष्टीदिनं यावत् न्यूनीकृता। किन्तु वर्षस्यास्य एकअक्टूबर पर्यन्तं निर्मिताः सर्वाः आरक्षिताः चिटिकाः अक्षुण्णाः एव भविष्यन्ति। रेलमन्त्रालयानुसारं अनेन नियमेन यात्रिणः सौविध्यं अनुभविष्यन्ति।

भारतस्य ऋत्विक चौधरी बोलोपल्ली, अर्जुन काढे चोभौ पुरुषयुगलवर्गस्य उपान्त्यचक्रे संप्राप्तौ
स्लोवाकिया देशे प्रचाल्यमाणे व्रातिसलावा टेनिस ओपन इति प्रतियोगितायां भारतस्य ऋत्विक चौधरी बोलोपल्ली, अर्जुन काढे चोभौ पुरुषयुगलवर्गस्य उपान्त्यचक्रे संप्राप्तौ। अद्य सायं एतौ ब्रिटेनस्य जुलियन कैश, कोलंबियायाः निकोलस वैरिन्टोज चोभौ सम्मुखीकरिष्यतः।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article बनखण्ड्यां स्थापिता भविष्यति भारतस्य प्रथमा IGBC प्रमाणिता जन्तुशाला
Next Article गुजरातस्य वसाद्-नगरे आर्ट् आफ् लिविंग फाउण्डेशन इत्यनेन “सीड् द अर्थ्” इति कार्यक्रमस्य आयोजनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?