By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Sanskrit Competition : मन्त्रोच्चारणे ओम:, श्लोकोच्चारणे हिमांशी, गीतिकागायने गौर्वितवर्धन: संस्कृतभाषणे च अंतरा प्रथमे स्थाने
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > Sanskrit Competition : मन्त्रोच्चारणे ओम:, श्लोकोच्चारणे हिमांशी, गीतिकागायने गौर्वितवर्धन: संस्कृतभाषणे च अंतरा प्रथमे स्थाने
संस्कृतगतिविधयःहिमाचलवार्ता

Sanskrit Competition : मन्त्रोच्चारणे ओम:, श्लोकोच्चारणे हिमांशी, गीतिकागायने गौर्वितवर्धन: संस्कृतभाषणे च अंतरा प्रथमे स्थाने

डॉ मनोज शैल
Last updated: 2024/10/15 at 10:30 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Sanskrit Competition : मन्त्रोच्चारणे ओम:, श्लोकोच्चारणे हिमांशी, गीतिकागायने गौर्वितवर्धन: संस्कृतभाषणे च अंतरा प्रथमे स्थाने

संस्कृताकादम्या: जिलास्तरीया संस्कृतप्रतियोगिता: बिलासपुरजनपदस्य झण्डूत्तायां सम्पन्ना: 

हिमसंस्कृतवार्ता:- बिलासपुरम्।

 

हिमाचल- संस्कृत- अकादमी हिमाचल सर्वकार: शिमलाद्वारा वर्ष २०२४-२५ इत्यस्य सत्रस्य कृते विद्यालयीयानां छात्राणां संस्कृतप्रतियोगिता: बिलासपुरजनपदस्य प्रतियोगिता: हुतात्मा- अश्विनीकुमार- राजकीये वरिष्ठमाध्यमिके विद्यालये झण्डूत्तायां सम्पन्ना:। शताधिकै: छात्रै: संस्कृतप्रतियोगितासु सहभागिता कृता। उद्घाटनसत्रस्य अध्यक्ष: सेवानिवृत्त: प्राचार्य: एवं संस्कृतविद्वान् डॉ एल. आर. शर्मा सरस्वतीमातु: पुरत: दीपप्रज्ज्वालनेन अपि च हुतात्मन: अश्विनीकुमारस्य प्रतिमायां च माल्यार्पणेन शुभारम्भं कृतवान्। सारस्वतातिथि रूपेण सेवानिवृत्त: आचार्य: डॉ रामेश्वरदत्त:, शास्त्री भगतराम:, सेवानिवृत्त: धर्मगुरु: रामलाल: पर्यवेक्षकरूपेण बलवन्तनड्डा सेवानिवृत्त: उपनिदेशक: प्रारम्भिकशिक्षा, प्यारुरामसांख्यायन: सेवानिवृत्त: संस्कृतशिक्षक: च आसन्। अकादमी सचिव: डॉ. केशवानंद कौशल: अवदत् यत् विद्यालयीया छात्राणां कनिष्ठवर्गस्य द्वे प्रतियोगिते मन्त्रोच्चारणं श्लोकोच्चारणं च अभवताम् तथैव वरिष्ठवर्गस्य अपि संस्कृतगीतिका एवं संस्कृतभाषणम् एते द्वे प्रतियोगिते सम्पन्ने। मन्त्रोच्चारणे ओम भाटिया राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: गेहड़वीं प्रथमम्, अनमोल शर्मा राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: कठलग: पूर्वशी राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: कल्लर: तृतीयम्, श्रुति राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: स्वाहण चतुर्थं स्थानं प्राप्तवन्त:। श्लोकोच्चारणे हिमांशी कुमारी राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: साई ब्राह्मणा प्रथमम्, शोभाकुमारी राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: बरमाणा द्वितीयम्, शिवन्या राजकीय- उच्च- विद्यालय: दोकड़ू तृतीयम्, दीक्षा कुमारी राजकीय- वरिष्ठ- माध्यमिकपाठशाला बाला चतुर्थपुरस्कारं प्राप्नुवन्।

संस्कृतगीतिकाप्रतियोगितायां गौर्वितवर्धन: राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: भराड़ी प्रथमम्, अक्षिता शर्मा राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: हरनोड़ा द्वितीयम्, ऐंजल राजपूत राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: बड़गांव तृतीयम्, प्रियांजल राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: गेहड़वीं चतुर्थम् पुरस्कारं प्राप्नुवन्।

संस्कृतभाषणप्रतियोगितायाम् अन्तरा शर्मा राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: भराड़ी प्रथमम्, कृतिका डोगरा राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: गेहड़वीं द्वितीयम्, कशिश वर्धन राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: बलघाड़: तृतीयं, रितिका धीमान राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: बैहल च चतुर्थं स्थानं प्राप्तवन्त:। एवमेव द्वे प्रथमे स्थाने प्राप्य राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: भराड़ी सर्वोत्तम: विद्यालयस्य पुरस्कारं प्राप्नोत्।

पुरस्कारवितरणसमारोहस्य मुख्यातिथि: प्रो. लेखरामशर्मा सेवानिवृत्त: विभागाध्यक्ष: आचार्यश्च गुरुनानकदेवविश्वलिद्यालय: विजेतॄन् छात्रान् पुरस्कृतवान्। असौ स्वीये सम्बोधने अकथयत् यत् संस्कृतस्य संवर्द्धनाय छात्रेषु अभिरुचि-उत्पादनाय च संस्कृत- अकादमीद्वारा प्रशंसनीयं कार्यं क्रियते। आगामिकाल: भारतीय- ज्ञान- परम्पराया: अस्ति सा परम्परा संस्कृते एव निहिता अस्ति।

राजकीय- वरिष्ठ- माध्यमिक- विद्यालयस्य झण्डूत्ताया: प्रधानाचार्य: पवनकुमारसांख्यायन: जिलास्तरीयप्रतियोगितानाम् आयोजनाय झण्डूत्ताया: चयनं कर्तुम् अकादम्या: धन्यवादं ज्ञापितवान्। अपि च सर्वेषाम् विदुषां शिक्षकाणां प्रतिभागिछात्राणां च अभिनन्दनं कृतवान्।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, Himachal Sanskrit Academy, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, Sanskrit competition, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार, हिमाचल संस्कृत अकादमी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Nobel Prize-अमेरिका-ब्रिटेन-देशयोः अर्थशास्त्रज्ञाः अर्थशास्त्रस्य नोबेल्-पुरस्कारं प्राप्तवन्तः
Next Article Mid Day Meal Workers: मध्यदिवसभोजनकार्यकर्तारः केवलं मध्याह्नभोजनं पक्ष्यन्ति, अतिरिक्तं कार्यं गृह्णन्ति चेत् कठोरकार्यविधि: भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?