By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:
प्रादेशिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/10/14 at 10:18 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:

राष्ट्रीयवार्ता:

  • हरियाणाप्रान्तस्य नूतनमुख्यमंत्रिण: राज्यमन्त्रिमण्डलस्य च शपथग्रहणसमारोहः १७ अक्टूबरदिनाङ्के प्रातः १० वादने पञ्चकुलानगरे भविष्यति । समारोहेस्मिन् प्रधानमंत्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाह:, केन्द्रीयमन्त्रीमनोहरलाल:, भाजपाशासितराज्यानां मुख्यमंत्रिण: एवं हरियाणातः लक्षशः जनाः समुपस्थिताः भविष्यन्ति।

 

  • देहलीप्रान्तस्य मुख्यमन्त्री आतिशी सोमवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना साकं मिलितवती। शपथग्रहणानन्तरं तयो: इदं प्रथमं सम्मेलनम् आसीत्। प्रधानमन्त्रिकार्यालयेन सामाजिकसंचारपटले एक्स इत्यत्र अस्मिन् विषये विलिख्य सूचना प्रदत्ता।

 

हिमाचलवार्ता: 

  • अन्ताराष्ट्रीयकुल्लूदशहरामहोत्सवे सोमवासरे मॉलरोड् इत्यत्र १७ देशानाम् सांस्कृतिकं दर्शनं जातम्। अमेरिका, रूस, मिस्र इत्यादीनां १७ देशानाम् कलाकाराः सांस्कृतिकप्रदर्शनं कृतवन्तः। सांस्कृतिकयात्रां द्रष्टुं मॉलमार्गः पूर्णतया पूरितः आसीत्। अस्मिन् कार्यक्रमे राज्यस्य पञ्चमण्डलेभ्यः पञ्चराज्येभ्यः च कलाकाराः स्ववेषभूषाभि: लोकनृत्यैः च स्वसांस्कृतिकधरोहलं प्रस्तुतवन्तः।

 

  • Himachal News: महार्घतावृत्ति: तु प्राप्ता अवशिष्टांशस्य कृते अधुना प्रतीक्षा कर्तव्या भविष्यति। सचिवालयस्य कर्मचारीणां सामान्यसदनं मङ्गलवासरे शिमलायां भविष्यति।

 

  • भाजपादलस्य प्रदेशाध्यक्ष डा. राजीव बिन्दलः अवदत् यत् हिमाचलप्रदेशस्य आधारभूतसंरचनाविकासे केन्द्रसर्वकारस्य सर्वाधिकं योगदानं वर्तते, विशेषतया नरेन्द्रमोदीसर्वकारेण आधारभूतसंरचनाविकासे सर्वाधिकं योगदानं कृतम् अस्ति। डॉ. बिन्दलः अवदत् यत् हिमाचलप्रदेशे ग्राम्यमार्गनिर्माणे क्रान्तिः प्रधानमन्त्री सड़कयोजनायाः कारणेन आगता।

 

  • आगामिषु षड्दिनेषु हिमाचलप्रदेशस्य सर्वेषु भागेषु वातावरणं पर अनुकूलं भविष्यति इति सम्भावना वर्तते। परं विगतदिने राजधान्यां शिमलानगरे लघुमेघावरणम् आसीत्। ऋतुविज्ञानकेन्द्रं शिमला इत्यस्य अनुसारं राज्यस्य सर्वेषु भागेषु २० अक्टूबरपर्यन्तं वातावरणं शुष्कमेव भविष्यति इति पूर्वानुमानम् अस्ति ।

 

  • हिमाचलप्रदेशस्य ऊनामण्डले मार्गदुर्घटनायां त्रयः युवकाः मृताः। सूचनानुसारं ऊनामण्डलस्य सन्तोषगढमार्गे अजौलीबैरियर इत्यत्र मार्गदुर्घटना जाता। पुलिसदलानुसारं कारचालकस्य प्रमादेन दुर्घटनेयं अभवत्।

 

  • हिमाचलप्रदेशस्य कुल्लूनगरस्य भुंतरविमानस्थानकात् सोमवासरे जयपुरं प्रति विमानसेवा आरब्धा। दशहरामहोत्सवस्यावसरे आरब्धा एषा विमानसेवा कुल्लू-मनाली-नगरस्य पर्यटनव्यापारं वर्धयिष्यति । जयपुरतः आगतस्य ७२ आसनयुक्तस्य विमानस्य अस्य भुन्तरविमानस्थानके “वाटरकेनन” इत्येतै: जलसिञ्चनेन स्वागतं अभवत्।

 

  • कम्बोडियादेशे ६ अक्टोबरतः १४ अक्टूबर पर्यन्तम् आयोजितियां किकबॉक्सिंगस्पर्धायां हिमाचलस्य अखिलः स्पर्धायां देशस्य प्रतिनिधित्वं कृत्वा स्वर्णपदकं प्राप्तवान् । अस्य कृते राष्ट्रिय-किक-बाक्सिंग-सङ्घः (वाको इण्डिया) तस्मै अभिनन्दनं कृतवान् अस्ति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP News : शिक्षायाः गुणवत्तायाः प्रगतेः च मूल्याङ्कनार्थं दिसम्बरमासस्य प्रथमसप्ताहे राष्ट्रियमूल्यांकनसर्वेक्षणं क्रियते – रोहितठाकुरः
Next Article International Dussehra Festival Kullu : मालमार्गे १७ देशानां कलाकाराः सांस्कृतिकप्रदर्शनं कृतवन्त:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?